संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ७६

भूमिखंडः - अध्यायः ७६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सुकर्मोवाच-
सौरिर्दूतैस्तथा सर्वैः सह स्वर्गं जगाम सः
द्रष्टुं तत्र सहस्राक्षं देववृंदैः समावृतम् ॥१॥
धर्मराजं समायांतं ददर्श सुरराट्तदा
समुत्थाय त्वरायुक्तो दत्वा चार्घमनुत्तमम् ॥२॥
पप्रच्छागमनं तस्य कथयस्व ममाग्रतः
समाकर्ण्य महद्वाक्यं देवराजस्य भाषितम् ॥३॥
धर्मराजोऽब्रवीत्सर्वं ययातेश्चरितं महत्
धर्मराज उवाच-
श्रूयतां देवदेवेश यस्मादागमनं मम ॥४॥
कथयाम्यहमत्रापि येनाहमागतस्तव
नहुषस्यात्मजेनापि वैष्णवेन महात्मना ॥५॥
वैष्णवाश्च कृता मर्त्या ये वसंति महीतले
वैकुंठस्य समं रूपं मर्त्यलोकस्य वै कृतम् ॥६॥
अमरा मानवा जाता जरारोगविवर्जिताः
पापमेव न कुर्वंति असत्यं न वदंति ते ॥७॥
कामक्रोधविहीनास्ते लोभमोहविवर्जिताः
दानशीला महात्मानः सर्वे धर्मपरायणाः ॥८॥
सर्वधर्मैः समर्चंति नारायणमनामयम्
तेन वैष्णवधर्मेण मानवा जगतीतले ॥९॥
निरामया वीतशोकाः सर्वे च स्थिरयौवनाः
दूर्वा वटा यथा देव विस्तारं यांति भूतले ॥१०॥
तथा ते विस्तरं प्राप्ताः पुत्रपौत्रैः प्रपौत्रकैः
तेषां पुत्रैः प्रपौत्रैश्च वंशाद्वंशांतरं गताः ॥११॥
एवं हि वैष्णवः सर्वो जरामृत्युविवर्जितः
मर्त्यलोकः कृतस्तेन नहुषस्यात्मजेन वै ॥१२॥
पदभ्रष्टोस्मि संजातो व्यापारेण विवर्जितः
एतत्सर्वं समाख्यातं मम कर्मविनाशनम् ॥१३॥
एवं ज्ञात्वा सहस्राक्ष लोकस्यास्य हितं कुरु
एतत्ते सर्वमाख्यातं यथापृष्टोस्मि वै त्वया ॥१४॥
एतस्मात्कारणादिंद्र आगतस्तव सन्निधौ
इंद्र उवाच-
पूर्वमेव मया दूत आगमाय महात्मनः ॥१५॥
प्रेषितो धर्मराजेंद्र दूतेनास्यापि भाषितम्
नाहं स्वर्गसुखस्यार्थी नागमिष्ये दिवं पुनः ॥१६॥
स्वर्गरूपं करिष्यामि सर्वं तद्भूमिमंडलम्
इत्याचचक्षे भूपालः प्रजापाल्यं करोति सः ॥१७॥
तस्य धर्मप्रभावेण भीतस्तिष्ठामि सर्वदा
धर्म उवाच-
येनकेनाप्युपायेन तमानय सुभूपतिम् ॥१८॥
देवराज महाभाग यदीच्छसि मम प्रियम्
इत्याकर्ण्य वचस्तस्य धर्मस्यापि सुराधिपः ॥१९॥
चिंतयामास मेधावी सर्वतत्वेन भूपते
कामदेवं समाहूय गंधर्वांश्च पुरंदरः ॥२०॥
मकरंदं रतिं देव आनिनाय महामनाः
तथा कुरुत वै यूयं यथाऽगच्छति भूपतिः ॥२१॥
यूयं गच्छन्तु भूर्लोकं मयादिष्टा न संशयः
काम उवाच-
युवयोस्तु प्रियं पुण्यं करिष्यामि न संशयः ॥२२॥
राजानं पश्य मां चैव स्थितं चैव समा युधि
तथेत्युक्त्वा गताः सर्वे यत्र राजा स नाहुषिः ॥२३॥
नटरूपेण ते सर्वे कामाद्याः कर्मणा द्विज
आशीर्भिरभिनंद्यैव ते च ऊचुः सुनाटकम् ॥२४॥
तेषां तद्वचनं श्रुत्वा ययातिः पृथिवीपतिः
सभां चकार मेधावी देवरूपां सुपंडितैः ॥२५॥
समायातः स्वयं भूपो ज्ञानविज्ञानकोविदः
तेषां तु नाटकं राजा पश्यमानः स नाहुषिः ॥२६॥
चरितं वामनस्यापि उत्पत्तिं विप्ररूपिणः
रूपेणाप्रतिमा लोके सुस्वरं गीतमुत्तमम् ॥२७॥
गायमाना जरा राजन्नार्यारूपेण वै तदा
तस्या गीतविलासेन हास्येन ललितेन च ॥२८॥
मधुरालापतस्तस्य कंदर्पस्य च मायया
मोहितस्तेन भावेन दिव्येन चरितेन च ॥२९॥
बलेश्चैव यथारूपं विंध्यावल्या यथा पुरा
वामनस्य यथारूपं चक्रे मारोथ तादृशम् ॥३०॥
सूत्रधारः स्वयं कामो वसंतः पारिपार्श्वकः
नटीवेषधरा जाता सा रतिर्हृष्टवल्लभा ॥३१॥
नेपथ्यांतश्चरी राजन्सा तस्मिन्नृत्यकर्मणि
मकरंदो महाप्राज्ञः क्षोभयामास भूपतिम् ॥३२॥
यथायथा पश्यति नृत्यमुत्तमं गीतं समाकर्णति स क्षितीशः
तथातथा मोहितवान्स भूपतिं नटीप्रणीतेन महानुभावः ॥३३॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थे ययातिचरित्रे षट्सप्ततितमोऽध्यायः ॥७६॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP