संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः १००

भूमिखंडः - अध्यायः १००

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


विष्णुरुवाच-
नर्मदायास्तटे रम्ये वटे तिष्ठति वै पिता
विज्वलोऽपि समायातः पितरं प्रणिपत्य सः ॥१॥
वासुदेवाभिधानस्य स्तोत्रस्यापि महामतिः
समाचष्टे स धर्मात्मा महिमानं पितुः पुरः ॥२॥
यथा विष्णुः समागत्य ददौ तस्मै वरं शुभम्
तत्सर्वं कथयामास सुप्रसन्नेन चेतसा ॥३॥
कुंजलोपि च वृत्तांतं समाकर्ण्य स भूपतेः
हर्षेण महताविष्टः पुत्रमालिंग्य विज्वलम् ॥४॥
आह पुण्यं कृतं वत्स त्वया राज्ञे महात्मने
उपकारं महापुण्यं वासुदेवस्य कीर्तनात् ॥५॥
एवमाभाष्य तं पुत्रमाशीर्भिरभिनंद्य च
पुत्रं देवसमोपेतं स्तुत्वा चैव पुनः पुनः ॥६॥
स्थितः सरित्तटे रम्ये च्यवनस्योपपश्यतः
एतत्ते सर्वमाख्यातं तेषां वृत्तं महात्मनाम् ॥७॥
वैष्णवानां महाराज अन्यत्किं ते वदाम्यहम्
वेन उवाच-
अमृतं शंखपात्रेण पानार्थं मम चार्पितम् ॥८॥
तस्मात्कस्य न च श्रद्धा पातुं मर्त्यस्य भूतले
उत्तमं वैष्णवं ज्ञानं पानानामिह सर्वदा ॥९॥
त्वयैवं कथ्यमानस्य पाने तृप्तिर्न जायते
श्रोतुं हि देवदेवेश मम श्रद्धा विवर्द्धते ॥१०॥
कथयस्व प्रसादान्मे कुंजलस्यापि चेष्टितम्
महात्मना किमुक्तं च चतुर्थं तनयं प्रति ॥११॥
तत्त्वं सुविस्तरादेव कृपया कथयस्व मे
श्रीभगवानुवाच-
श्रूयतामभिधास्यामि चरित्रं कुंजलस्य च ॥१२॥
बहुश्रेयः समायुक्तं चरित्रं च्यवनस्य च
इदं पुण्यं नरश्रेष्ठ आख्यानं पापनाशनम् ॥१३॥
यः शृणोति नरो भक्त्या गोसहस्रफलं लभेत् ॥१४॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे शततमोऽध्यायः ॥१००॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP