संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः २०

भूमिखंडः - अध्यायः २०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


हरिरुवाच-
तपसानेन पुण्येन सत्येनानेन ते द्विज
स्तोत्रेण पावनेनापि तुष्टोस्मि व्रियतां वरः ॥१॥
वरं दद्मि महाभाग यत्ते मनसि वर्तते
यंयमिच्छसि कामं त्वं तंतं ते पूरयाम्यहम् ॥२॥
सोमशर्मोवाच-
प्रथमं देहि मे कृष्ण वरमेकं सुवाञ्छितम्
सुप्रसन्नेन मनसा यद्यस्ति सुदया मम ॥३॥
जन्मजन्मांतरं प्राप्य तव भक्तिं करोम्यहम्
दर्शयस्व परं स्थानमचलं मोक्षदायकम् ॥४॥
स्ववंशतारकं पुत्रं दिव्यलक्षणसंयुतम्
विष्णुभक्तिपरं नित्यं मम वंशप्रधारकम् ॥५॥
सर्वज्ञं सर्वदं दांतं तपस्तेजः समन्वितम्
देवब्राह्मणलोकानां पालकं पूजकं सदा ॥६॥
देवमित्रं पुण्यभावं दातारं ज्ञानपंडितम्
देहि मे ईदृशं पुत्रं दारिद्रं हर केशव ॥७॥
भवत्वेवं न संदेहो वरमेनं वृणोम्यहम्
हरिरुवाच-
एवमस्तु द्विजश्रेष्ठ भविष्यति न संशयः ॥८॥
मत्प्रसादात्सुपुत्रस्तु तव वंश प्रतारकः
भोक्ष्यसि त्वं वरान्भोगान्दिव्यांश्च मानुषानिह ॥९॥
समालोक्य परं सौख्यं पुत्रसंभवजं शुभम्
यावज्जीवसि विप्र त्वं तावद्दुःखं न पश्यसि ॥१०॥
दाता भोक्ता गुणग्राही भविष्यसि न संशयः
सुतीर्थे मरणं चापि यास्यसि त्वं परां गतिम् ॥११॥
एवं वरं हरिर्दत्त्वा सप्रियाय द्विजाय सः
अंतर्धानं गतो देवः स्वप्नवत्परिदृश्यते ॥१२॥
तदा सुमनया युक्तः सोमशर्मा द्विजोत्तमः
सुतीर्थे पावने तस्मिन्रेवातीरे सुपुण्यदे ॥१३॥
अमरकंटके विप्रो दानं पुण्यं करोति सः
गते बहुतरे काले तस्य वै सोमशर्मणः ॥१४॥
कपिलारेवयोः संगे स्नानं कृत्वा स निर्गतः
दृष्टवान्पुरतो विप्रः श्वेतमेकं हि कुंजरम् ॥१५॥
सुप्रभं सुंदरं दिव्यं सुमदं चारुलक्षणम्
नानाभरणशोभांगं बहुलक्ष्म्या समन्वितम् ॥१६॥
सिंदूरैः कुंकुमैस्तस्य कुंभस्थले विराजिते
कर्णनीलोत्पलयुतं पताकादंडसंयुतम् ॥१७॥
नागोपरिस्थितो दिव्यः पुरुषो दृढसुप्रभः
दिव्यलक्षणसंपन्नः सर्वाभरणभूषितः ॥१८॥
दिव्यमाल्यांबरधरो दिव्यगंधानुलेपनः
सुसौम्यं सोमवत्पूर्णच्छत्रचामरसंयुतम् ॥१९॥
नागारूढं प्रयांतं तं पुनः पश्यति सत्तमः
सिद्धचारणगंधर्वैः स्तूयमानं सुमंगलम् ॥२०॥
सगजं सुंदरं दृष्ट्वा पुरुषं दिव्यलक्षणम्
व्यतर्कयत्सोमशर्मा विस्मयाविष्टमानसः ॥२१॥
कोऽयं प्रयाति दिव्यांगः पंथानं प्राप्य सुव्रतः
एवं चिंतयतस्तस्य यावद्गृहं समाप्तवान् ॥२२॥
प्रविशंतं गृहद्वारं देवरूपं मनोहरम्
हर्षेण महताविष्टः सोमशर्मा द्विजोत्तमः ॥२३॥
स्वगृहं प्रति धर्मात्मा त्वरमाणः प्रयाति च
गृहद्वारं गतो यावत्तावत्तं तु न पश्यति ॥२४॥
पतितान्येव पुष्पाणि सौहृद्यानि महामतिः
दिव्यानि वासयुक्तानि प्रांगणे द्विजसत्तमः ॥२५॥
चंदनैः कुंकुमैः पुण्यैः सुगंधैस्तु विलेपितम्
स्वकीयं प्रांगणे दृष्ट्वा दूर्वाक्षतसमन्वितम् ॥२६॥
स एवं विस्मयाविष्टश्चिंतयानः पुनः पुनः
ददर्श सुमनां प्राज्ञो दिव्यमंगलसंपदम् ॥२७॥
सोमशर्मोवाच-
केन दत्तानि दिव्यानि एतान्याभरणानि च
शृंगारंरूपसौभाग्यं वस्त्रालंकारभूषणम् ॥२८॥
तन्मे त्वं कारणं भद्रे कथयस्वाविशंकिता
एवं संभाष्यतां भार्यां विरराम द्विजोत्तमः ॥२९॥
सुमनोवाच-
शृणु कांत समायातः कश्चिद्देववरोत्तमः
श्वेतनागसमारूढो दिव्याभरणभूषितः ॥३०॥
दिव्यगंधानुलिप्तांगो दिव्याश्चर्यसमन्वितः
न जाने को हि देवोसौ विप्रगंधर्वसेवितः ॥३१॥
स्तूयमानः समायातो देवगंधर्वचारणैः
योषितः पुण्यरूपाढ्या रूपशृंगारसंयुताः ॥३२॥
सर्वाभरणशोभाढ्याः सर्वाः पूर्णमनोरथाः
ताभिः सह समक्षं मे पुरुषेण महात्मना ॥३३॥
चतुष्कं पूरितं रत्नैः सर्वशोभासमन्वितम्
तत्राहमासने पुण्ये स्थापिता ब्राह्मणैः किल ॥३४॥
वस्त्रालंकारभूषां मे ददुस्ते सर्व एव हि
वेदमंगलगीतैस्तु शास्त्रगीतैश्च पुण्यदैः ॥३५॥
अभिषिक्तास्मि तैः सर्वैरंतर्धानं पुनर्गताः
मामेवं परितः सर्वे पुनरूचुर्द्विजोत्तम ॥३६॥
तव गेहं वयं सर्वे वसिष्यामः सदैव हि
शुचिर्भव सुकल्याणि भर्त्रा सार्द्धं सदैव हि ॥३७॥
एवमुक्त्वा गताः सर्वे एवं दृष्टं मयैव हि
तया यत्कथितं वृत्तं समाकर्ण्य महामतिः ॥३८॥
पुनश्चिंतां प्रपन्नोऽसौ किमिदं देवनिर्मितम्
विचिन्तयित्वाथ तदा सोमशर्मा महामतिः ॥३९॥
ब्रह्मकर्मणि संयुक्तः साधर्म्यं धर्ममुत्तमम्
तस्माद्गर्भं महाभागा दधार व्रतशालिनी ॥४०॥
तेन गर्भेण सा देवी अधिकं शुशुभे तदा
संदीप्तपुत्रसंयुक्त तेजोज्वालासमन्विता ॥४१॥
सा हि जज्ञे च तपसा तनयं देवसन्निभम्
अंतरिक्षे ततो नेदुर्देवदुंदुभयस्तदा ॥४२॥
शंखान्दध्मुर्महादेवा गंधर्वा ललितं जगुः
अप्सरसस्तथा सर्वा ननृतुस्तास्तदा किल ॥४३॥
अथ ब्रह्मासुरैः सार्द्धं समायातो द्विजोत्तमः
चकार नाम तस्यैव सुव्रतेति समाहितः ॥४४॥
नाम कृत्वा ततो देवा जग्मुः सर्वे महौजसः
गतेषु तेषु देवेषु सोमशर्मासु तस्य च ॥४५॥
जातकर्मादिकं कर्म चकार द्विजसत्तमः
जाते पुत्रे महाभागे सुव्रते देवनिर्मिते ॥४६॥
तस्य गेहे महालक्ष्मीर्धनधान्यसमाकुला
गजाश्वमहिषी गावः कांचनं रत्नमेव च ॥४७॥
यथा कुबेरभवनं शुशुभे धनसंचयैः
तत्सोमशर्मणो गेहं तथैव परिराजते ॥४८॥
ध्यानपुण्यादिकं कर्म चका रद्विजसत्तमः
तीर्थयात्रां गतो विप्रो नानापुण्यसमाकुलः ॥४९॥
अन्यानि यानि पुण्यानि दानानि द्विजसत्तमः
चकार तत्र मेधावी ज्ञानपुण्य समन्वितः ॥५०॥
एवं साधयते धर्मं पालयेच्च पुनःपुनः
पुत्रस्य जातकर्मादि कर्माणि द्विजसत्तमः ॥५१॥
विवाहं कारयामास हर्षेण महता किल
पुत्रस्य पुत्राः संजाताः सगुणा लक्षणान्विताः ॥५२॥
सत्यधर्मतपोपेता दानधर्मरताः सदा
स तेषां पुण्यकर्माणि सोमशर्मा चकार ह ॥५३॥
पौत्राणां तु महाभागस्तेषां सुखेन मोदते
सर्वं सौख्यं च संभुज्य जरारोगविवर्जितः ॥५४॥
पंचविंशाब्दिको यद्वत्तद्वत्कायं तु तस्य हि
सूर्यतेजः प्रतीकाशः सोमशर्मा महामतिः ॥५५॥
सा चापि शुशुभे देवी सुमना पुण्यमंगलैः
पुत्रपौत्रैर्महाभागा दानव्रतैश्च संयमैः ॥५६॥
अतिभाति विशालाक्षी पुण्यैः पतिव्रतादिभिः
तारुण्येन समायुक्ता यथा षोडशवार्षिकी ॥५७॥
मोदमानौ महात्मानौ दंपती चारुमंगलौ
हर्षेण च समायुक्तौ पुण्यात्मानौ महोदयौ ॥५८॥
एवं तयोस्तु वृत्तांतं पुण्याचारसमन्वितम्
सुव्रतस्य प्रवक्ष्यामि व्रतचर्यां द्विजोत्तमाः ॥५९॥
यथा तेन समाराध्य नारायणमनामयम् ॥६०॥

इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे एद्रे सुमनो-पाख्याने सुव्रतोत्पत्तिर्नाम विंशोऽध्यायः ॥२०॥

N/A

References : N/A
Last Updated : October 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP