संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः ५ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः ५ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ५ Translation - भाषांतर शिवशर्मोवाच-तपसा दमशौचाभ्यांगुरुशुश्रूषया तथाभक्त्याभावेन तुष्टोस्मि तवाद्य चसुपुत्रक ॥१॥त्यजामि वैकृतं रूपं मत्तः सुखमवाप्नुहिएवमुक्वा सुतं विप्रो दर्शयामास तां तनुम् ॥२॥यथापूर्वं स्थितौ तौ तु तथा स दृष्टवान्गुरूदीप्तिमंतौ महात्मानौ सूर्यबिंबोपमावुभौ ॥३॥ननाम पादौ सद्भक्त्या उभयोस्तु महात्मनोःततः सुतं समामंत्र्य हर्षेण महतान्वितः ॥४॥विष्णोः प्रसादाद्धर्मात्मा भार्यया सह केशवम्जगाम निजपुण्यैश्च योगाभ्यासेन सत्तमः ॥५॥प्रविष्टो वैष्णवं धाम स मुनिर्दुर्लभं पदम्नत्वन्यैः प्राप्यते पुण्यैस्तपोभिर्मुक्तिदं पदम् ॥६॥विष्णोस्तु चिंतनैर्न्यासध्यानज्ञानैः स्तवैस्तथान दानैस्तीर्थयात्राभिर्दृश्यते मधुसूदनः ॥७॥समाधिज्ञानयोगेन दृश्यते परमं पदम्महायोगैर्यथा विप्रः प्रविष्टो वैष्णवीं तनुम् ॥८॥सूत उवाच-ततस्तत्र तपस्तेपे सोमशर्मा महाद्युतिःअश्मलोष्टसमं मेने कांचनंभूषणं पुनः ॥९॥जिताहारः स धर्मात्मा निद्रया परिवर्जितःस सर्वान्विषयांस्त्यक्त्वा एकांतमपि सेवते ॥१०॥योगासनसमारूढो निराशो निःपरिग्रहःतस्य वेला सुसंप्राप्ता मृत्युकालस्य वै तदा ॥११॥आगता दानवा विप्रं सोमशर्माणमंतिकेमृत्युकाले तु संप्राप्ते प्राणयात्रा प्रवर्तिनः ॥१२॥शालिग्रामे महाक्षेत्रे ऋषीणां मानवर्द्धनेकेचिद्वदंति वै दैत्याः केचिद्वदंति दानवाः ॥१३॥एवंविधो महाशब्दः कर्णरंध्रं गतस्तदातस्यैव विप्रवर्यस्य सुचिरात्सोमशर्मणः ॥१४॥ज्ञानध्यानविलग्नस्य प्रविष्टं दैत्यजं भयम्तेन ध्यानेन तस्यापि दैत्यभीत्यैव वै तदा ॥१५॥सत्वरं चैव तत्प्राणा गतास्तस्य महात्मनःदैत्यभयेन संयुक्तः स हि मृत्युवशं गतः ॥१६॥तस्माद्दैत्यगृहे जातो हिरण्यकशिपोः सुतःदेवासुरे महायुद्धे निहतश्चक्रपाणिना ॥१७॥युद्ध्यमानेन तेनापि प्रह्लादेन महात्मनासुदृष्टं वासुदेवत्वं विश्वरूपसमन्वितम् ॥१८॥योगाभ्यासेन पूर्वेण ज्ञानमासीन्महात्मनःसस्मार पूर्वकं सर्वं चरितं शिवशर्मणः ॥१९॥प्रागहं सोमशर्माख्यः प्रविष्टो दानवीं तनुम्अस्मात्कायात्कदा पुण्यं केवलं धाम उत्तमम् ॥२०॥प्रयास्यामि महापुण्यैर्ज्ञानाख्यैर्मोक्षदायकम्समरे म्रियमाणेन प्रह्लादेन महात्मना ॥२१॥एवं चिंता कृता पूर्वं श्रूयतां द्विजसत्तमाःएवं तु च समाख्यातं सर्वसंदेहनाशनम् ॥२२॥सूत उवाच-प्रह्लादे निहते संख्ये देवदेवेन चक्रिणारुरुदे कमला सा तु हतपुत्रा च कामिनी ॥२३॥प्रह्लादस्य तु या माता हिरण्यकशिपोः प्रियाप्रह्लादस्य महाशोकैर्दिवारात्रौ प्रशोचति ॥२४॥पतिव्रता महाभागा कमला नाम तत्प्रियारोदमानां दिवारात्रौ नारदस्तामुवाच ह ॥२५॥मा शुचस्त्वं महाभागे पुत्रार्थं पुण्यभागिनिनिहतो वासुदेवेन तव पुत्रः समेष्यति ॥२६॥भूयः स्वलक्षणोपेतस्त्वत्सुतश्च महामतिःप्रह्लादेति च वै नाम पुनरस्य भविष्यति ॥२७॥विहीनश्चासुरैर्भावैर्देवत्वेन समन्वितःइंद्रत्वे मोदते भद्रे सर्वदेवैर्नमस्कृतः ॥२८॥सुखीभवमहाभागेतेनपुत्रेणवैसदान प्रकाश्या त्वया देवि सुवार्तेयं च कस्यचित् ॥२९॥कर्त्तव्यमज्ञानभावैः सुगोप्यं कुरु त्वं सदाएवमुक्त्वा गतो विप्रो नारदो मुनिसत्तमः ॥३०॥कमलायाश्चोदरे तु जन्मा स्यानुत्तमं पुनःप्रह्लादेति च वै नाम तस्याख्यानं महात्मनः ॥३१॥बाल्यं भावं गतो विप्राः कृष्णमेव व्यचिंतयत्नरसिंहप्रसादेन देवराजो भवेद्दिवि ॥३२॥देवत्वं लभ्य चैवासावैंद्रं पदमनुत्तमम्मोक्षं यास्यति ज्ञानात्मा वैष्णवं धाम चोत्तमम् ॥३३॥असंख्याता महाभागाः सृष्टेर्भावा ह्यनेकशःमोह एवं न कर्त्तव्यो ज्ञानवद्भिर्महात्मभिः ॥३४॥एतद्वः सर्वमाख्यातं यथापृष्टं द्विजोत्तमाःअन्यं पृच्छ महाभाग संदेहं ते भिनद्म्यहम् ॥३५॥विजयं देवतानां तु दानवानां महत्क्षयम्कृतं हि देवदेवेन स्थापितं भुवनत्रयम् ॥३६॥ऋषय ऊचुः-इन्द्रत्वं कस्य संजातं देवानां शब्दधारकम्केन दत्तं त्वमाचक्ष्व विस्तराद्द्विजसत्तम ॥३७॥सूत उवाच-विस्तरेण प्रवक्ष्यामि इन्द्रत्वे येन सत्तमःप्राप्त एष महाभागो यथा पुण्यतमेन च ॥३८॥हतेषु तेषु दैत्येषु समस्तेषुमहाहवेअतिनष्टेषु पापेषु गोविंदेन महात्मना ॥३९॥ततो देवाः सगंधर्वा नागा विद्याधरास्तथासंप्रोचुर्माधवं सर्वे बद्धप्रांजलयस्ततः ॥४०॥भगवन्देवदेवेश हृषीकेश नमोस्तु तेविज्ञापयामहे त्वां वै तत्सर्वमवधार्यताम् ॥४१॥शास्ता गोप्ता च पुण्यात्मा अस्माकं कुरु केशवराजानं पुण्यधर्माणं त्वमिंद्रं लोकशासनम् ॥४२॥त्रैलोक्यस्य प्रजा देव यमाश्रित्य सुखं लभेत्वासुदेव उवाच-मम लोके महाभागा वैष्णवेन समन्वितः ॥४३॥तेजसा ब्राह्मणश्रेष्ठश्चिरकालं निवासितःतस्य कालः प्रपूर्णश्च मम लोके महात्मनः ॥४४॥वसतस्तस्य विप्रस्य मद्भक्तस्य सुरोत्तमाःतेजसा वैष्णवेनैव भवतां पालको हि सः ॥४५॥भविष्यति स धर्मात्मा स च धर्मानुरंजकःपालको धारकश्चैव स च ब्राह्मणसत्तमः ॥४६॥भविष्यति स धर्मात्मा भवतां त्राणकारणात्अदित्यास्तनयश्चैव सुव्रताख्यो महामनाः ॥४७॥महाबलो महावीर्यः स व इंद्रो भविष्यतिसूत उवाच-एवं वरान्स देवेशो दत्वा देवेभ्य उत्तमम् ॥४८॥देवा विजयिनः सर्वे विष्णुना सह सत्तमाःकश्यपं पितरं दृष्टुं मातरं च ततो गताः ॥४९॥प्रणेमुस्ते महात्मान उभावेतौ सुखासनौऊचुः प्रांजलयः सर्वे हर्षेण महतान्विताः ॥५०॥युवयोश्च प्रसादेन देवत्वं हि गता वयम्हर्षेण महताविष्टो देवान्वाक्यमुवाच सः ॥५१॥कश्यप उवाच-यूयं वै सत्यधर्मेण वर्तमानाः सदैव हिआवयोश्च प्रसादेन तपसश्च प्रभावतः ॥५२॥प्राप्तवंतो भवंतस्तु देवत्वं चाक्षयं पदम्वरमेव ददाम्येषां बहुप्रीतिसमन्विताः ॥५३॥अमरा निर्जराश्चैव अक्षयाश्च भविष्यथसर्वकामसमृद्धार्थाः सर्वसिद्धिसमन्विताः ॥५४॥देवा नागाश्च गंधर्वा मत्प्रसादान्महासुराःविष्णुरुवाच-वरं वरय भद्रं ते देवमातर्यशस्विनि ॥५५॥मनसा चेप्सितं सर्वं तत्ते दद्मि सुनिश्चितम्अदितिरुवाच-पूर्वं पुत्रवती भूता प्रसादात्तव माधव ॥५६॥अमरा निर्जराः सर्वे अक्षयाः पुण्यवत्सलाःअमी पुत्रा मया लब्धाः श्रूयतां मधुसूदन ॥५७॥सुतरां त्वं च गोविंद सर्वकामसमृद्धिदःमम गर्भे वसंश्चैव भवांश्च मम नंदनः ॥५८॥त्वया पुत्रेण नित्यं च यथा नंदामि केशवएवं महोदयं नाथ पूरयस्व मनोरथम् ॥५९॥वासुदेव उवाच-भवत्या देवकार्यार्थं गंतव्यं मानुषीं तनुम्तदाहं तव गर्भे वै वासं यास्यामि निश्चितम् ॥६०॥युगे द्वादशके प्राप्ते भूभारहरणाय वैजमदग्निसुतो देवि रामो नाम द्विजोत्तमः ॥६१॥प्रतापतेजसायुक्तः सर्वक्षत्रवधाय चतव पुत्रो भविष्यामि सर्वशस्त्रभृतां वरः ॥६२॥सप्तविंशतिके प्राप्ते त्रेताख्ये तु तथा युगेरामो नाम भविष्यामि तव पुत्रः पतिव्रते ॥६३॥पुनः पुत्रो भविष्यामि तवैव शृणु पुण्यधेःअष्टाविंशतिके प्राप्ते द्वापरांते युगे तदा ॥६४॥सर्वदैत्यविनाशार्थे भूभारहरणाय चवासुदेवाख्यस्ते पुत्रो भविष्यामि न संशयः ॥६५॥इदानीं कुरु कल्याणि मद्वाक्यं धर्मसंयुतम्सर्वलक्षणसंपन्नं सत्यधर्मसमन्वितम् ॥६६॥सर्वज्ञं सर्वदे देवि पुत्रमुत्पाद्य सुंदरम्इंद्रत्वं तस्य दास्यामि इंद्रः सोपि भविष्यति ॥६७॥एवं संभाषितं श्रुत्वा महाहर्षसमन्वितादेवदेवप्रसादेन इंद्रः पुत्रो भविष्यति ॥६८॥एवमस्तु महाभाग तव वाक्यं करोम्यहम्ततस्ता देवताः सर्वा जग्मुः स्वस्थानमेव हि ॥६९॥हरिणा सह ते सर्वे निरातंका मुदान्विताःसूत उवाच-अदितिः कश्यपं प्राह ऋतुं प्राप्य मनस्विनी ॥७०॥भगवन्दीयतां पुत्रः सुरेंद्रपदभोजकःचिंतयित्वा क्षणं विप्रस्तामुवाच मनस्विनीम् ॥७१॥एवमस्तु महाभागे तव पुत्रो भविष्यतित्रैलोक्यस्यापि कर्ता स यज्ञभोक्ता स एव च ॥७२॥तस्याः शिरसि सन्यस्य स्वहस्तं च द्विजोत्तमःतपश्चचार तेजस्वी सत्यधर्मसमन्वितः ॥७३॥सुव्रतो नाम तेजस्वी विष्णुलोके वसेत्सदातस्य पुण्यक्षये जाते विष्णुलोकाद्द्विजोत्तमाः ॥७४॥पतनं कर्मवशतस्ततस्तस्य द्विजोत्तमाःपुण्यगर्भं गतो विप्र अदित्यास्तु महातपाः ॥७५॥इंद्रत्वं भोक्तुकामार्थं सत्यपुण्येन कर्मणागर्भं दधार सा देवी पुण्येन तपसा किल ॥७६॥तपस्तेपे निरालस्या वनवासं गता सतीदिव्यं वर्षशतं यातं तपंत्यां देवमातरि ॥७७॥तपंत्यथ तपस्तीव्रं दुष्करं देवतासुरैःततः सा तपसा तेन तेजसा च प्रभान्विता ॥७८॥सूर्यतेजः प्रतीकाशा द्वितीय इव भास्करःशुशुभे सा यथा दीप्ता परमं ध्यानमास्थिता ॥७९॥रूपेणाधिकतां याता तपसस्तेजसा तदातपोध्यानपरा सा च वायुभक्षा तपस्विनी ॥८०॥अधिकं शुशुभे देवी दक्षस्य तनया तदासिद्धाश्च ऋषयः सर्वे देवाश्चापि महौजसः ॥८१॥स्तुवंति तां महाभागां रक्षंति च सुतत्पराःपूर्णे वर्षशते तस्या विष्णुस्तत्र समागतः ॥८२॥तामुवाच महाभागामदितिं तपसान्विताम्देवि गर्भः सुसंपूर्णः सूतिकालः प्रवर्तते ॥८३॥तवैव तपसा पुष्टस्तेजसा च प्रवर्द्धितःअद्यैव गर्भमेतं त्वं मुंच मुंच यशस्विनि ॥८४॥एवमाभाष्य देवेशः स जगाम स्वकं गृहम्असूत पुत्रं सा देवी काले प्राप्ते महोदये ॥८५॥सा पुत्रं दीप्तिसंयुक्तं द्वितीयमिव भास्करम्सुभगं चारुसर्वांगं सर्वलक्षणसंयुतम् ॥८६॥चतुर्बाहुं महाकायं लोकपालं सुरेश्वरम्तेजोज्वालासमाकीर्णं चक्रपद्मसुहस्तकम् ॥८७॥चंद्रबिंबानुकारेण वदनेन महामतिःराजमानं महाप्राज्ञं तेजसा वैष्णवेन च ॥८८॥अन्यैश्च लक्षणैर्दिव्यैर्दिव्यभावैरलंकृतम्सर्वलक्षणसंपूर्णं चंद्रास्यं कमलेक्षणम् ॥८९॥आजग्मुस्ते त्रयो देवा ऋषयो वेदपारगाःगंधर्वाश्च ततो नागाः सिद्धाविद्याधरास्तथा ॥९०॥ऋषयः सप्त ते दिव्याः पूर्वापरमहौजसःअन्ये च मुनयः पुण्याः पुण्यमंगलदायिनः ॥९१॥आजग्मुस्ते महात्मानो हर्षनिर्भरमानसाःतस्मिञ्जाते महाभागे भगवंतो महौजसि ॥९२॥आजग्मुर्देवताः सर्वे पर्वतास्तु तपस्विनःक्षीराद्याः सागराः सर्वे नद्यश्चैव तथामलाः ॥९३॥प्रीतिमंतस्ततः सर्वे ये चान्ये हि चराचराःमंगलैस्तु महोत्साहं चक्रुः सर्वे सुरेश्वराः ॥९४॥ननृतुश्चाप्सराः संघा गंधर्वा ललितं जगुःवेदमंत्रैस्ततो देवा ब्राह्मणा वेदपारगाः ॥९५॥स्तुवंति तं महात्मानं सुतं वै कश्यपस्य चब्रह्मा विष्णुश्च रुद्रश्च वेदाश्चैव समागताः ॥९६॥सांगोपांगैश्च संयुक्तास्तस्मिञ्जाते महौजसित्रैलोक्ये यानि सत्वानि पुण्ययुक्तानि सत्तम ॥९७॥समागतानि तत्रैव तस्मिञ्जाते महौजसिमंगलं चक्रिरे सर्वे गीतपुण्यैर्महोत्सवैः ॥९८॥हर्षेण निर्भराः सर्वे पूजयंतो महौजसःब्रह्माद्याश्च त्रयो देवाः कश्यपोथ बृहस्पतिः ॥९९॥चक्रिरे नामकर्माणि तस्यैव हि महात्मनःवसुदत्तेति विख्यातो वसुदेति पुनस्तव ॥१००॥आखंडलेति तन्नाम मरुत्वान्नाम ते पुनःमघवांश्च बिडौजास्त्वं पाकशासन इत्यपि ॥१०१॥शक्रश्चैव हि विख्यात इंद्रश्चैवेति ते सुतःइत्येतानि च नामानि तस्यैव च महात्मनः ॥१०२॥चक्रुश्च देवताः सर्वाः संतुष्टा हृष्टमानसाःस्नानं तु कारयामासुः संस्काराणि महासुरः ॥१०३॥विश्वकर्माणमाहूय ददुराभरणानि चतानि पुण्यानि दिव्यानि तस्मै ते तु महात्मने ॥१०४॥जाते तस्मिन्महाभागे देवराजे महात्मनिएवं मुदं ततः प्रापुः सर्वे देवा महौजसः ॥१०५॥पुण्ये तिथौ तथा ऋक्षे सुमुहूर्ते महात्मभिःइंद्रत्वे स्थापितो देवैरभिषिक्तः सुमंगलैः ॥१०६॥प्राप्तमैंद्रपदं तेन प्रसादात्तस्य चक्रिणःतपश्चकार तेजस्वी वसुदत्तः सुरेश्वरः ॥१०७॥उग्रेण तेजसा युक्तो वज्रपाशांकुशायुधः ॥१०८॥सूत उवाच-उग्रं समस्तं तपसः प्रभावं विलोक्य शुक्रो निजगाद गाथाम्लोकेषु कोन्यो न भविष्यतीति यथा हि चायं च सुदर्शनीयः ॥१०९॥विष्णोः प्रसादान्न परो महात्मा संप्राप्तमैश्वर्यमिहैव दिव्यम् ॥११०॥अनेन तुल्यो न भविष्यतीति लोकेषु चान्यस्तपसोग्रवीर्यः ॥१११॥इति श्रीपद्मपुराणे भूमिखंडे देवासुरे इंद्राभिषेकोनाम पंचमोऽध्यायः ॥५॥ N/A References : N/A Last Updated : October 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP