संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः ८६ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः ८६ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ८६ Translation - भाषांतर कुंजलशुकस्य पुत्र उज्ज्वलेन सह संवादम्कुंजल उवाच-तस्यास्तु चेष्टितं वत्स दिव्या देव्या वदाम्यहम्पूर्वजन्मकृतं सर्वं तन्मे निगदतः शृणु ॥१॥अस्ति वाराणसी पुण्या नगरी पापनाशिनीतस्यामास्ते महाप्राज्ञः सुवीरो नाम नामतः ॥२॥वैश्यजात्यां समुत्पन्नो धनधान्यसमाकुलःतस्य भार्या महाप्राज्ञ चित्रा नाम सुविश्रुता ॥३॥कुलाचारं परित्यज्य अनाचारेण वर्ततेन मन्यते हि भर्तारं स्वैरवृत्त्या प्रवर्तते ॥४॥धर्मपुण्यविहीना तु पापमेव समाचरेत्भर्तारं कुत्सते नित्यं नित्यं च कलहप्रिया ॥५॥नित्यं परगृहे वासो भ्रमते सा गृहे गृहेपरच्छिद्रं समापश्येत्सदा दुष्टा च प्राणिषु ॥६॥साधुनिंदापरा दुष्टा सदा हास्यकरा च साअनाचारां महापापां ज्ञात्वा वीरेण निंदिता ॥७॥स तां त्यक्त्वा महाप्राज्ञ उपयेमे महामतिःअन्य वैश्यस्य वै कन्यां तया सह प्रवर्तते ॥८॥धर्माचारेण पुण्यात्मा सत्यधर्ममतिः सदानिरस्ता तेन सा चित्रा प्रचंडा भ्रमते महीम् ॥९॥दुष्टानां संगतिं प्राप्ता नराणां पापिनां सदादूतीकर्म चकाराथ सा तेषां पापनिश्चया ॥१०॥गृहभंगं चकाराथ साधूनां पापकारिणीसाध्वीं नारीं समाहूय पापवाक्यैः सुलोभयेत् ॥११॥धर्मभंगं चकाराथ वाक्यैः प्रत्ययकारकैःसाधूनां सा स्त्रियं चित्रा अन्यस्मै प्रतिपादयेत् ॥१२॥एवं गृहशतं भग्नं चित्रया पापनिश्चयात्संग्रामं सा महादुष्टाऽकारयत्पतिपुत्रकैः ॥१३॥मनांसि चालयेत्पापा पुरुषाणां स्त्रियः प्रतिअकारयच्च संग्रामं यमग्रामविवर्धनम् ॥१४॥एवं गृहशतं भंक्त्वा पश्चात्सा निधनं गताशासिता यमराजेन बहुदंडैः सुनंदन ॥१५॥अभोजयत्सुनरकान्रौरवांस्तरणेः सुतःपाचिता रौरवे चित्रा चित्राः पीडाः प्रदर्शिताः ॥१६॥यादृशं क्रियते कर्म तादृशं परिभुज्यतेतया गृहशतं भग्नं चित्रया पापनिश्चयात् ॥१७॥तत्तत्कर्मविपाकोऽयं तया भुक्तो द्विजोत्तमयस्माद्गृहशतं भग्नं तस्माद्दुःखं प्रभुंजति ॥१८॥विवाहसमये प्राप्ते दैवं च पाकतां गतम्प्राप्ते विवाहसमये भर्ता मृत्युं प्रयाति च ॥१९॥यथा गृहशतं भग्नं तथा वरशतं मृतम्स्वयंवरे तदा वत्स विवाहे चैकविंशतिः ॥२०॥दिव्या देव्या मया ख्यातं यथा मे पृच्छितं त्वयाएतत्ते सर्वमाख्यातं तस्याः पूर्वविचेष्टितम् ॥२१॥उज्ज्वल उवाच-दिव्या देव्यास्त्वया ख्यातं यत्पूर्वं पूर्वचेष्टितम्तथा पापं कृतं घोरं गृहभंगाख्यमेव च ॥२२॥प्लक्षद्वीपस्य भूपस्य दिवोदासस्य वै सुताकेन पुण्यप्रभावेण तया प्राप्तं महाकुलम् ॥२३॥एतन्मे संशयं तात तदेतत्प्रब्रवीतु मेएवं पापसमाचारा कथं जाता नृपात्मजा ॥२४॥कुंजल उवाच-चित्रायाश्चेष्टितं पुण्यं तत्सर्वं प्रवदाम्यहम्श्रूयतामुज्ज्वल सुत चित्रया यत्कृतं पुरा ॥२५॥भ्रममाणो महाप्राज्ञः कश्चित्सिद्धः समागतःकुचैलो वस्त्रहीनश्च संन्यासी स च दंडधृक् ॥२६॥कौपीनेन समायुक्तः पाणिपात्रो दिगंबरःगृहद्वारं समाश्रित्य चित्रायाः परिसंश्रितः ॥२७॥स मौनी सर्वमुंडस्तु विजितात्मा जितेंद्रियःनिराहारो जिताहारः सर्वतत्त्वार्थदर्शकः ॥२८॥दूराध्वानपरिश्रांत आतपाकुलमानसःश्रमेण खिद्यमानश्च तृषाक्रांतः सुपुत्रक ॥२९॥चित्रा द्वारं समाश्रित्य च्छायामाश्रित्य संस्थितःतया दृष्टो महात्मा स चित्रया श्रमपीडितः ॥३०॥सेवां चक्रे च चित्रा सा तस्यैव सुमहात्मनःपादप्रक्षालनं कृत्वा दत्वा आसनमुत्तमम् ॥३१॥आस्यतामासने तात सुखेनापि सुकोमलेक्षुधापनोदनार्थं हि भुज्यतामन्नमुत्तमम् ॥३२॥स्वेच्छया परितुष्टश्च शीतलं सलिलं पिबएवमुक्त्वा तथा कृत्वा देववत्पूज्य तं सुत ॥३३॥अंगसंवाहनं कृत्वा नाशितश्रम एव चतयोक्तो हि महात्मा स भुक्त्वा पीत्वा द्विजोत्तम ॥३४॥एवं संतोषितः सिद्धस्तया तत्त्वार्थदर्शकःसंतुष्टः सर्वधर्मात्मा किंचित्कालं स्थिरोभवत् ॥३५॥स्वेच्छया स गतो विप्रो महायोगी यथागतम्गते तस्मिन्महाभागे सिद्धे चैव महात्मनि ॥३६॥सा चित्रा मरणं प्राप्ता स्वकर्मवशमागताशासिता धर्मराजेन महादंडैः सुदुःखदैः ॥३७॥सा चित्रा नरकं प्राप्ता वेदना व्रातदायकम्भुंक्ते दुःखं महाराज सा वै युगसहस्रकम् ॥३८॥भोगांते तु पुनर्जन्म संप्राप्तं मानुषस्य चपूर्वं संपूजितः सिद्धस्तया पुण्यवतां वरः ॥३९॥तस्य कर्मविपाकोयं प्राप्ता पुण्यवतां कुलेक्षत्रियाणां महाराज्ञो दिवोदासस्य वै गृहे ॥४०॥दिव्यादेवी च तन्नाम जातं तस्या नरोत्तमसा हि दत्तवती चान्नं पानं पुण्यं महात्मने ॥४१॥तस्य दानस्य सा भुंक्ते महत्पुण्यफलोदयम्पिबते शीतलं तोयं मिष्टान्नं च भुनक्ति वै ॥४२॥दिव्यान्भोगान्प्रभुंजाना वर्तते पितृमंदिरेसिद्धस्यास्य प्रभावाच्च राजकन्या व्यजायत ॥४३॥पापकर्मप्रभावाच्च गृहभंगान्महीपतेविधवात्वं भुंजते सा दिव्यादेवी सुपुत्रक ॥४४॥एतत्ते सर्वमाख्यातं दिव्यादेव्या विचेष्टितम्अन्यत्किन्ते प्रवक्ष्यामि यत्त्वं पृच्छसि मामिह ॥४५॥उज्ज्वल उवाच-कथं सा मुच्यते शोकान्महादुःखाद्वदस्व मेसास्याच्च कीदृशी बाला महादुःखेन पीडिता ॥४६॥तत्सुखं कीदृशं तस्माद्विपाकश्च भविष्यतिएतन्मे संशयं तात सांप्रतं छेत्तुमर्हसि ॥४७॥कथं सा लभते मोक्षं तंचोपायं वदस्व मेएकाकिनी महाभागा महारण्ये प्ररोदिति ॥४८॥विष्णुरुवाच-पुत्रवाक्यं महच्छ्रुत्वा क्षणमेकं विचिंत्य सःप्रत्युवाच महाप्राज्ञः कुंजलः पुत्रकं प्रति ॥४९॥शृणु वत्स महाभाग सत्यमेतद्वदाम्यहम्पापयोनिं तु संप्राप्य पूर्वकर्मसमुद्भवाम् ॥५०॥तिर्यक्त्वेन च मे ज्ञानं नष्टं संप्रति पुत्रकअस्य वृक्षस्य संगाच्च प्रयतस्य महात्मनः ॥५१॥रेवायाश्च प्रसादेन विष्णोश्चैव प्रसादतःयेन सा लभते ज्ञानं मोक्षस्थानं निवर्तते ॥५२॥उपदेशं प्रवक्ष्यामि मोक्षमार्गमनुत्तमम्यास्यते कल्मषान्मुक्ता यथा हेम हुताशनात् ॥५३॥शुद्धं च जायते वत्स संगाद्वह्नेः स्वरूपवत्हरेर्ध्यानान्महाप्राज्ञ शीघ्रं तस्य महात्मनः ॥५४॥जपहोमव्रतात्पापं नाशं याति हि पापिनाम्मदं त्यजेद्यथा नागो भयात्सिंहस्य सर्वदा ॥५५॥नामोच्चारेण कृष्णस्य तत्प्रयाति हि किल्बिषम्तेजसा वैनतेयस्य विषहीना इवोरगाः ॥५६॥ब्रह्महत्यादिकाः पापाः प्रलयं यांति नान्यथानामोच्चारेण तस्यापि चक्रपाणेः प्रयांति ते ॥५७॥यदा नामशतं पुण्यमघराशिविनाशनम्सा जपेत स्थिरा भूत्वा कामक्रोधविवर्जिता ॥५८॥सर्वेंद्रियाणि संयम्य आत्मज्ञानेन गोपयेत्तस्य ध्यानप्रविष्टा सा एकभूता समाहिता ॥५९॥सा जपेत्परमं ज्ञानं तदा मोक्षं प्रयाति चतन्मनास्तत्पदे लीना योगयुक्ता यदा भवेत् ॥६०॥उज्ज्वल उवाच-वद तात परं ज्ञानं परमं मम सांप्रतम्पश्चाद्ध्यान व्रतं पुण्यं नाम्नां शतमिहैव च ॥६१॥कुंजल उवाच-परं ज्ञानं प्रवक्ष्यामि यन्न दृष्टं तु केनचित्श्रूयतां पुत्र कैवल्यं केवलं मलवर्जितम् ॥६२॥सूत उवाच-यथा दीपो निवातस्थो निश्चलो वायुवर्जितःप्रज्वलन्नाशयेत्सर्वमंधकारं महामते ॥६३॥तद्वद्दोषविहीनात्मा भवत्येव निराश्रयःनिराशो निर्मलो वत्स न मित्रं न रिपुः कदा ॥६४॥न शोको न च हर्षश्च न लोभो न च मत्सरःएको विषादहर्षैश्च सुखदुःखैर्विमुच्यते ॥६५॥विषयैश्चापि सर्वैश्च इंद्रियाणि स संहरेत्तदा स केवलो जातः केवलत्वं प्रजायते ॥६६॥अग्निकर्मप्रसंगेन दीपस्तैलं प्रशोषयेत्वर्त्याधारेण राजेंद्र निःसंगो वायुवर्जितः ॥६७॥कज्जलं वमते पश्चात्तैलस्यापि महामतेकृष्णासौ दृश्यते रेखा दीपस्याग्रे महामते ॥६८॥स्वयमाकृष्यते तैलं तेजसा निर्मलो भवेत्कायवर्तिस्थितस्तद्वत्कर्मतैलं प्रशोषयेत् ॥६९॥विषयान्कज्जलीकृत्य प्रत्यक्षं संप्रदर्शयेत्जनयेन्निर्मलोभूत्वा स्वयमेव प्रकाशयेत् ॥७०॥क्रोधादिभिः क्लेशसंज्ञैर्वायुभिः परिवर्जितःनिःस्पृहो निश्चलो भूत्वा तेजसा स्वयमुज्ज्वलेत् ॥७१॥त्रैलोक्यं पश्यते सर्वं स्वस्थानस्थः स्वतेजसाकेवलज्ञानरूपोऽयं मया ते परिकीर्तितः ॥७२॥ध्यानं तस्य प्रवक्ष्यामि द्विविधं तस्य चक्रिणःकेवलज्ञानरूपेण दृश्यते ज्ञानचक्षुषा ॥७३॥योगयुक्ता महात्मानः परमार्थपरायणाःयं पश्यंति विनिद्रास्तु यत्तपः सर्वदर्शकम् ॥७४॥हस्तपादविहीनं च सर्वत्र परिगच्छतिसर्वं गृह्णाति त्रैलोक्यं स्थावरं जंगमं सुत ॥७५॥नासामुखविहीनस्तु घ्राति जक्षिति पुत्रकअकर्णः शृणुते सर्वं सर्वसाक्षी जगत्पतिः ॥७६॥अरूपो रूपसंबद्धः पंचवर्गवशंगतःसर्वलोकस्य यः प्राणः पूजितः स चराचरैः ॥७७॥अजिह्वो वदते सर्वं वेदशास्त्रानुगं सुतअत्वचः स्पर्शनं चापि सर्वेषामेव जायते ॥७८॥सदानंदो विरक्तात्मा एकरूपो निराश्रयःनिर्जरो निर्ममो न्यायी सगुणो निर्ममोमलः ॥७९॥अवश्यः सर्ववश्यात्मा सर्वदः सर्ववित्तमःतस्य धाता न चैवास्ति स वै सर्वमयो विभुः ॥८०॥एवं सर्वमयं ध्यानं पश्यते यो महात्मनःस याति परमं स्थानममूर्तममृतोपमम् ॥८१॥द्वितीयं तु प्रवक्ष्यामि अस्य ध्यानं महात्मनःमूर्ताकारं तु साकारं निराकारं निरामयम् ॥८२॥ब्रह्माण्डं सर्वमतुलं वासितं यस्य वासनास तस्माद्वासुदेवेति उच्यते मम नंदन ॥८३॥वर्षमाणस्य मेघस्य यद्वर्णं तस्य तद्भवेत्सूर्यतेजःप्रतीकाशं चतुर्बाहुं सुरेश्वरम् ॥८४॥दक्षिणे शोभते शंखो हेमरत्नविभूषितःसूर्यबिंबसमाकारं चक्रं पद्मप्रतिष्ठितम् ॥८५॥कौमोदकी गदा तस्य महासुरविनाशिनीवामे च शोभते वत्स हस्ते तस्य महात्मनः ॥८६॥महापद्मं सुगंधाढ्यं तस्य दक्षिणहस्तगम्शोभमानः सदैवास्ते सायुधः कमलाप्रियः ॥८७॥कंबुग्रीवं वृत्तमास्यं पद्मपत्रनिभेक्षणम्राजमानं हृषीकेशं दशनै रत्नसन्निभैः ॥८८॥गुडाकेशाः सन्ति यस्य अधरो विद्रुमाकृतिःशोभते पुंडरीकाक्षः किरीटेनापि पुत्रक ॥८९॥विशालेनापि रूपेण केशवस्तु सुवर्चसाकौस्तुभेनांकितेनैव राजमानो जनार्दनः ॥९०॥सूर्यतेजः प्रतीकाश कुंडलाभ्यां प्रभाति चश्रीवत्सांकेन पुण्येन सर्वदा राजते हरिः ॥९१॥केयूरकंकणैर्हारैर्मौक्तिकैरृक्षसन्निभैःवपुषा भ्राजमानस्तु विजयो जयतां वरः ॥९२॥भ्राजते सोपि गोविंदो हेमवर्णेन वाससामुद्रिकारत्नयुक्ताभिरंगुलीभिर्विराजते ॥९३॥सर्वायुधैः सुसंपूर्णैर्दिव्यैराभरणैर्हरिःवैनतेयसमारूढो लोककर्ता जगत्पतिः ॥९४॥एवंतं ध्यायते नित्यमनन्यमनसा नरःमुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥९५॥एतत्ते सर्वमाख्यातं ध्यानमेव जगत्पतेःव्रतं चैव प्रवक्ष्यामि सर्वपापनिवारणम् ॥९६॥इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थवर्णने षडशीतितमोऽध्यायः ॥८६॥ N/A References : N/A Last Updated : October 29, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP