संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ८

भूमिखंडः - अध्यायः ८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


कश्यप उवाच-
स गर्भे व्याकुलो जातः खिद्यमानो दिने दिने
दुःखाक्रांतो हि धर्मात्मा सर्वपीडाभिपीडितः ॥१॥
अधोमुखस्तु गर्भस्थो मोहजालेन बंधितः
आधिव्याधिसमाक्रांतो हाहाभूतो विचेतनः ॥२॥
दुःखेन महताविष्टो ज्ञानमाह प्रपीडितः
आत्मोवाच-
तव वाक्यं महाप्राज्ञ न कृतं तु मया तदा ॥३॥
ध्यानेन वार्यमाणोपि पतितो मोहसंकटे
तस्माद्रक्ष महाप्राज्ञ गर्भवासात्सुदारुणात् ॥४॥
ज्ञानमुवाच-
मया त्वं वारितो ह्यात्मन्कृतं वाक्यं न चैव मे
पंचात्मकैर्महाक्रूरैः पातितो गर्भसंकटे ॥५॥
इदानीं गच्छ त्वं ध्यानं तस्मात्संप्राप्स्यसे सुखम्
गर्भवासाद्भविष्यस्ते मोक्ष एव न संशयः ॥६॥
तस्य तद्वचनं श्रुत्वा ज्ञात्वा ज्ञानस्य तत्त्वताम्
ध्यानमाहूय प्रोवाच श्रूयतां वचनं मम ॥७॥
त्वामहं शरणं प्राप्तो ध्यान मां रक्ष नित्यशः
एवमस्तु महाप्राज्ञ ध्यानमाह महामतिम् ॥८॥
एतद्वाक्यं ततः श्रुत्वा आत्मा वै ध्यानमागतः
ध्यानेन हि समं गर्भे संस्थितो मोहवर्जितः ॥९॥
यदा ध्यानं गतो ह्यात्मा विस्मृतं गर्भजं भयम्
स द्वाभ्यां सहितस्तत्र आत्मा मोह विना कृतः ॥१०॥
चिंतयन्नेव वै नित्यमात्मकं सुखमेव हि
इतो निष्क्रांतमात्रस्तु त्यजे पंचात्मकं वपुः ॥११॥
एवं चिंतयते नित्यं गर्भवासगतः प्रभुः
सूतिकाले तु संप्राप्ते प्राजापत्ये वरानने ॥१२॥
वायुना चलितो गर्भः प्राणेनापि बलीयसा
योनिर्विकासमायाति चतुर्विंशांगुलं तदा ॥१३॥
पंचविंशांगुलो गर्भस्तेन पीडा विजायते
एवं संपीड्यमानस्तु मूर्च्छया मूर्च्छितः प्रिये ॥१४॥
पतितो भूमिभागे तु ज्ञानध्यानसमन्वितः
प्राजापत्येन दिव्येन वायुना स पृथक्कृतः ॥१५॥
भूमिसंस्पर्शमात्रेण ज्ञानध्याने तु विस्मृते
संसारबंधसंदिग्ध आत्मा प्रियतया स्थितः ॥१६॥
गुणदोषसमाक्रांतो महामोहसमन्वितः
खाद्यं पानादिकं सर्वमिच्छत्येव दिनेदिने ॥१७॥
एवं संपुष्यमाणस्तु आत्मा पंचात्मकैः सह
व्यापितो हींद्रियैः सर्वैर्विषयैः पापकारिभिः ॥१८॥
बांधवानां समोहेन भार्यादीनां तथैव च
आकुलव्याकुलो देवि जायते च दिनेदिने ॥१९॥
महामोहेन संदिग्धो मोहजालगतः प्रभुः
कैवर्तेन यथा बद्धः शकुलो जालबंधनैः ॥२०॥
चलितुं नैव शक्तोस्ति तथात्मासीत्प्रबंधितः
मोहजालैस्तु तैः सर्वैर्दृढबंधैस्तु बंधितः ॥२१॥
एवमादिप्रपंचेन व्यापितो व्यापकेन हि
ज्ञानविज्ञानविभ्रष्टो रागद्वेषादिभिर्हतः ॥२२॥
कामेन पीड्यमानस्तु क्रोधेनैव तथैव वा
प्रकृत्या कर्मणाबद्धो महामूढो व्यजायत ॥२३॥
सूत उवाच-
एवं मूढो यदात्मासौ कामक्रोधवशंगतः
लोभरागादिभिः सर्वैर्व्यापृतस्तैर्दुरात्मभिः ॥२४॥
इयं भार्या ह्ययं पुत्र इदं मित्रमिदं गृहम्
एवं संसारजालेन महामोहेन बंधितः ॥२५॥
पुत्रशोकादिभिर्दुःखैर्विविधैराकुलस्तदा
जरयाव्याधिभिश्चैव संग्रस्तश्चाधिभिस्तथा ॥२६॥
एवमात्मा संप्रतप्तो दुःखमोहैः सुदारुणैः
अभिमानैर्मानभंगैर्नानादुःखैश्च खंडितः ॥२७॥
वृद्धत्वेन तथा देवि शबलत्वेन पीडितः
दुःखं चिंतयते नित्यं हाहाभूतो विचेतनः ॥२८॥
रात्रौ स्वप्नान्प्रपश्येत दिवा चैतन्यवर्जितः
वैकल्येन तथांगानां व्याप्तो देवि दिनेदिने ॥२९॥
संसारे भ्रममाणेन वैराग्यं तत्र दर्शितम्
निःशंकं बंधुहीनं च प्रशांतं तुष्टमेव च ॥३०॥
तमुवाच तदात्मा वै कामक्रोधविवर्जितम्
को भवान्नग्नरूपेण कथं मित्रैर्न लज्जसे ॥३१॥
यत्र लोकाः स्त्रियो वृद्धा युवत्यो मातरस्तथा
एतासां हि गतो मध्ये न बिभेषि अनावृतः ॥३२॥
वीतराग उवाच-
को ह्यत्र नग्नो दृश्येत न नग्नोस्मीति वै कदा
सुसंबद्धस्त्वमेवापि परिधान समन्वितः ॥३३॥
न नग्नोस्मि कदा दिव्यभवान्नग्नः प्रदृश्यते
इंद्रियार्थवशेवर्ती मर्यादापरिवर्जितः ॥३४॥
आत्मोवाच-
पुरुषस्य का हि मर्यादा तामाचक्ष्व च सुव्रत
विस्तरेण महाप्राज्ञ यदि जानासि निश्चितम् ॥३५॥
वीतरागो महाप्राज्ञस्तमुवाच महामतिः
सुस्थैर्यं भजते चित्तं सुखदुःखेषु नित्यदा ॥३६॥
क्लेशितं सर्वभावैश्च तेषुतेषु परित्यजेत्
अथ लज्जां प्रवक्ष्यामि मनो या निर्विशत्यलम् ॥३७॥
मयाद्यैवं न कर्तव्यं नग्नः स्थानविवर्जितः
पश्चात्तापे सुसंलीनः सा लज्जा परिकथ्यते ॥३८॥
कस्य लज्जा प्रकर्तव्या द्वितीयो नास्ति सर्वदा
एकश्च पुरुषो दिव्यः कस्य किंचिन्न नाशयेत् ॥३९॥
अथ लोकान्प्रवक्ष्यामि ये त्वया परिकीर्तिताः
यथा कुलालकश्चक्रे मृत्पिंडं च निधापयेत् ॥४०॥
भ्रामयित्वा तु सूत्रेण नानाभेदान्प्रकाशयेत्
भांडानां तु सहस्राणि स्वेच्छया मतिसंस्थितः ॥४१॥
तथायं सृजते धाता नानारूपाणि नान्यथा
पश्चाद्विनाशमायांति येनकेनापि हेतुना ॥४२॥
सर्वदैव स्थिता ये च ये लोकाश्च सनातनाः
तेषां लज्जा प्रकर्तव्या नावर्तंते हि ते भुवि ॥४३॥
आकाशवायुतेजांसि पृथ्वी चापश्च पंचमः
अमी लोकाः प्रकाशंते ये च सर्वत्र संस्थिताः ॥४४॥
सत्त्वानामंगदेशेषु पंचैतेषु सुसंस्थिताः
सर्वत्रैव च वर्तंते कस्य लज्जा विधीयते ॥४५॥
स्त्रीणां रूपं प्रवक्ष्यामि श्रूयतां तात सांप्रतम्
यथाघटसहस्रेषुसोदकेषुविराजते ॥४६॥
एकश्चंद्रो हि सर्वत्र भवांस्तद्वद्विराजते
गतो जंतुसहस्रेषु मोहचक्रे महात्मवान् ॥४७॥
स्थावरेषु च सर्वेषु जंगमेषु तथा भवान्
योनिद्वारेण पापेन मायामोहमयेन वै ॥४८॥
कुचाभ्यां च नितंबाभ्यां वयसा च विराजते
हृन्मांसस्याधिका वृद्धिर्दृष्टा चात्र न संशयः ॥४९॥
पतनाय च लोकानां मोहरूपं विदर्शितम्
नभवत्येव सा नारी या त्वया परिकीर्तिता ॥५०॥
लीलया कुरुते धाता विनोदाय सदात्मनः
यथा नार्यास्तथा पुंसो जीवः सर्वत्र संस्थितः ॥५१॥
कुचयोनिविहीना ये जीवन्मुक्ताः सदैव हि
नरस्तु पुरुषः प्रोक्तो नारी प्रकृतिरुच्यते ॥५२॥
रमते तेन वै सार्द्धं न मुक्ता हि कदाचन
भवान्प्रकृतिसंयुक्तः पुरुषेषु प्रदृश्यते ॥५३॥
कः कस्य कुरुते लज्जामेवं ज्ञात्वा सुखं व्रज
वृद्धां स्त्रियं प्रवक्ष्यामि सदावृद्धां वरानने ॥५४॥
त्वचा जर्जरतां याता यस्याप्यंगे वरानने
श्वेतैश्चैव तथाकेशैः पलितैश्च समाकुला ॥५५॥
बलहीनाथ दीनापि व्यापिता वलिना तदा
नेयं वृद्धा भवेन्नारी परं वृद्धा च कथ्यते ॥५६॥
एतस्या लक्षणं प्रोक्तं युवतीं प्रवदाम्यहम्
ज्ञानेन वर्द्धते नित्यं जीवपार्श्वे समाश्रिता ॥५७॥
सुमतिर्नाम संप्रोक्ता सा वृद्धा युवतीति च
नारी पुरुषलोकेषु सर्वदैव प्रतिष्ठिता ॥५८॥
लज्जा तस्याः प्रकर्तव्या अन्यच्चैव वदाम्यहम्
मातरं वै प्रवक्ष्यामि या त्वया परिकीर्तिता ॥५९॥
प्राणिनामंगदेशेषु सदैव चेतना स्थिता
परज्ञानप्रदा या च सा प्रज्ञा परिकथ्यते ॥६०॥
प्रज्ञा माता समाख्याता प्राणिनां पालनाय सा
संस्थिता सर्वलोकेषु पोषणाय हिताय वा ॥६१॥
सुमतिर्नाम या प्रोक्ता सा माता परिकथ्यते
संसारद्वारमार्गाणि यानि रूपाणि नित्यशः ॥६२॥
भवंति मातरो ह्येता बहुदुःखप्रदर्शिकाः
मातृरूपं समाख्यातमन्यत्किं ते वदाम्यहम् ॥६३॥
आत्मोवाच-
भवान्को हि समायातो मम संतापनाशकः
विस्तरेण समाख्याहि स्वरूपमात्मनः स्वयम् ॥६४॥
वीतराग उवाच-
यस्मात्कामानि वर्तंते निराशाः सर्व एव ते
यं दुष्टत्वान्न पश्यंति कर्माण्येतानि नान्यथा ॥६५॥
यत्समीपं हि नायाति आशा चैव कदाचन
क्रोधो लोभस्तथा मोहो यद्भयात्प्रलयं गताः ॥६६॥
वीतरागोस्मि भद्रं ते विवेको मम बांधवः
आत्मोवाच-
कीदृशोऽसौ तव भ्राता विवेको नाम नामतः ॥६७॥
तस्य त्वं लक्षणं ब्रूहि भ्रातुरात्मन एव च
वीतराग उवाच-
तस्यैव लक्षणं रूपं न वदामि तवाग्रतः ॥६८॥
भ्रातुस्तस्य महाभाग आह्वानं च करोम्यहम्
भोभो विवेक मे भ्रातरावयोस्त्वं वचः शृणु ॥६९॥
एह्येहि सुमहाभाग मम स्नेहान्महामते
कश्यप उवाच-
शांतिक्षमाभ्यां संयुक्तो भार्याभ्यां च समागतः ॥७०॥
सर्वदृक्सर्वगो व्यापी सर्वतत्त्वपरायणः
संदेहानां च सर्वेषां यो रिपुर्ज्ञानवत्सलः ॥७१॥
धारणा धीश्च द्वे पुत्र्यौ तस्यैव हि महात्मनः
तस्य योगः सुतो ज्येष्ठो मोक्षो यस्य महागुरुः ॥७२॥
निर्मलो निरहंकारो निराशो निष्परिग्रहः
सर्ववेलाप्रसन्नात्मा गतद्वंद्वो महामतिः ॥७३॥
स विवेकः समायातो गुणरत्नैर्विभूषितः
यस्यामात्यौ महात्मानौ धर्मसत्यौ महामती ॥७४॥
क्षमाशांतिसमायुक्तः स विवेकः समागतः
वीतरागमुवाचेदमाहूतोहं समागतः ॥७५॥
तद्भ्रातः कारणं सर्वं कथ्यतां हि ममाग्रतः
यमाश्रित्य त्वयाद्यैव कृतमाह्वानमेव मे ॥७६॥
वीतराग उवाच-
पुमान्स्थितो यः पुरतो महापाशैर्नियंत्रितः
मोहस्य बाणैः संभ्रांतः संसारस्य च बंधनैः ॥७७॥
सर्वस्य व्यापकः स्वामी अयमात्मा ममैव च
पंचतत्त्वैः समाविष्टो ज्ञानध्यानविवर्जितः ॥७८॥
पृच्छतामेनमात्मानं भवांस्तत्त्वेषु पंडितः
वीतरागवचः श्रुत्वा विवेको वाक्यमब्रवीत् ॥७९॥
विवेक उवाच-
सुखेन स्थीयते देव भवता विश्वनायक
आगते त्वयि संसारे किं किं भुक्तं सुखं स्वयम् ॥८०॥
आत्मोवाच-
गर्भवासो महद्दुःखमसह्यं दारुणं मया
भुक्तमेव महाप्राज्ञ ज्ञानहीनेन वै सदा ॥८१॥
देहेपि ज्ञानविभ्रष्टः सोहं जातो ह्यनेकधा
बाल्यावस्थां गतेनाथ कृत्याकृत्यं कृतं मया ॥८२॥
तारुण्येन कृता क्रीडा भुक्ता भार्या ह्यनेकशः
वार्धकं प्राप्य संतप्तः पुत्रशोकादिभिस्तथा ॥८३॥
भार्यादीनां वियोगैस्तु दग्धोस्म्यहमहर्निशम्
दुःखैरनेकसंवर्णैः संतप्तोस्मि दिनेदिने ॥८४॥
दिवारात्रौ महाप्राज्ञ न विंदामि सुखं क्वचित्
एवं दुःखै सुसंतप्तः किं करोमि महामते ॥८५॥
तमुपायं वदस्वैव सुखं विंदामि येन वै
अस्मात्संसारजालौघान्मोचयाद्य सुबंधनात् ॥८६॥
विवेक उवाच-
भवाञ्छुद्धोसि निर्द्वन्द्वो ह्यपापोसि जगत्पते
एनं गच्छ महात्मानं वीतरागं सुखप्रदम् ॥८७॥
निःसंशयं त्वया दृष्टं नग्नमाचारवर्जितम्
सुखप्रदर्शको ह्येष सर्वसंतापनाशकः ॥८८॥
एवमाकर्ण्य शुद्धात्मा वीतरागं गतः पुनः
तमुवाच श्वसन्दीनः श्रूयतां वचनं मम ॥८९॥
सुखं विंदामि येनाहं तं मार्गं मम दर्शय
एवमस्तु महाप्राज्ञ करिष्ये वचनं तव ॥९०॥
पुनर्गच्छ विवेकं हि सुखवार्ता कृता त्वया
सुखमार्गस्य वै वक्ता तव एष भविष्यति ॥९१॥
वीतरागेण पुण्येन प्रेषितो गतवान्प्रभुः
तमुवाच महात्मानं विवेकं शुद्धसत्तमम् ॥९२॥
सुखं मे दर्शय त्वं हि वीतरागेण प्रेषितः
भवच्छरणमापन्नो रक्ष संसारदारुणात् ॥९३॥
विवेक उवाच-
ज्ञानं गच्छमहाप्राज्ञ स ते सर्वं वदिष्यति
आत्मा तथोक्तः संप्राप्तो यत्र ज्ञानं प्रतिष्ठितम् ॥९४॥
भोभो ज्ञान महातेजः सर्वभावप्रदर्शक
शरणं त्वामहं प्राप्तः सुखमार्गं प्रदर्शय ॥९५॥
ज्ञानमुवाच-
भृत्योहं तव लोकेश त्वं मां वेत्सि न सुव्रत
मया ध्यानेन वै पूर्वं वारितस्त्वं पुनःपुनः ॥९६॥
पंचात्मकानां संगेन आपदं प्राप्तवान्भवान्
ध्यानं गच्छ महाप्राज्ञ स ते दाता सुखस्य च ॥९७॥
ज्ञानेन प्रेषितो ह्यात्मा ध्यानमाश्रित्य संस्थितः
सुखमत्यंतसिद्धं च ध्यानं मे दर्शयस्व ह ॥९८॥
भवच्छरणमायातं मामेवं परिरक्षय
एवं संभाषितं तस्य ध्यानमाकर्ण्य तद्वचः ॥९९॥
समुवाच पुनश्चापि तमात्मानं प्रहृष्टवान्
नैव त्याज्योस्म्यहं तात सर्वकर्मसुनिश्चितः ॥१०॥०॥
त्वयैव वीतरागेण विवेकेन सदैव हि
ध्यानयुक्तो भवस्व त्वमात्मानमवलोकय ॥१०१॥
आत्मवांस्त्वं स्थिरो भूत्वा निरातंको विकल्पितः
यथा दीपो निवातस्थः कज्जलं वमते स्थिरः ॥१०२॥
तथा दोषान्प्रज्वलित्वा निर्वाणं हि प्रयास्यति
एकांतस्थो निराहारो मिताशी भव सर्वदा ॥१०३॥
निर्द्वंद्वः शब्दसंहीनो निश्चलो ह्यासने स्थितः
आत्मानमात्मना ध्यायन्ममैव स्थिरबुद्धिना ॥१०४॥
प्राप्स्यसे परमं स्थानं तद्विष्णोः परमं पदम् ॥१०५॥

इति श्रीपद्मपुराणे भूमिखंडेऽध्यात्मवर्णनेऽष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : October 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP