संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ६९

भूमिखंडः - अध्यायः ६९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


मातलिरुवाच-
अथ धर्माः शिवेनोक्ताः शिवधर्मागमोत्तमाः
ज्ञेया बहुविधास्ते च कर्मयोगप्रभेदतः ॥१॥
हिंसादिदोषनिर्मुक्ताः क्लेशायासविवर्जिताः
सर्वभूतहिताः शुद्धाः सूक्ष्मायासा महत्फलाः ॥२॥
अनंतशाखाकलिताः शिवमूलैकसंश्रिताः
ज्ञानध्यानसुपुष्पाढ्याः शिवधर्माः सनातनाः ॥३॥
धारयंति शिवं यस्माद्धार्यते शिवभाषितैः
शिवधर्माः स्मृतास्तस्मात्संसारार्णवतारकाः ॥४॥
तथाऽहि सा क्षमा सत्यं ह्रीः श्रद्धेन्द्रियसंयमः
दानमिज्यातपोदानं दशकं धर्मसाधनम् ॥५॥
अथ व्यस्तैः समस्तैर्वा शिवधर्मैरनुष्ठितैः
शिवैकरस्य संप्राप्तैर्गतिरेकैव कल्पिता ॥६॥
यथा भूः सर्वभूतानां स्थानं साधारणं स्मृतम्
तत्तथा शिवभक्तानां तुल्यं शिवपुरंस्मृतम् ॥७॥
यथेह सर्वभूतानां भोगाः सातिशयाः स्मृताः
नानापुण्यविशेषेण भोगाः शिवपुरे तथा ॥८॥
शुभाशुभफलं चापि भुज्यते सर्वदेहिभिः
शिवधर्मस्य चैकस्य फलं तत्रोपभुज्यते ॥९॥
यस्य यादृग्भवेत्पुण्यं श्रद्धापात्रविशेषतः
भोगाः शिवपुरे तस्य ज्ञेयाः सातिशयाः शुभाः ॥१०॥
स्थानप्राप्तिः परं तुल्या भोगाः शांतिमयाः स्थिताः
कुर्यात्पुण्यं महत्तस्मान्महाभोगजिगीषया ॥११॥
सर्वातिशयमेवैकं भावितं च सुरोत्तमैः
आत्मभोगाधिपत्यं स्याच्छिवः सर्वजगत्पतिः ॥१२॥
केचित्तत्रैव मुच्यंते ज्ञानयोगरता नराः
आवर्तंते पुनश्चान्ये संसारे भोगतत्पराः ॥१३॥
तस्माद्विमुक्तिमिच्छंस्तु भोगासक्तिं च वर्जयेत्
विरक्तः शांतचित्तात्मा शिवज्ञानमवाप्नुयात् ॥१४॥
ये चापीशान्यहृदया यजंतीशं प्रसंगतः
तेषामपि ददातीशः स्थानं भावानुरूपतः ॥१५॥
तत्रार्चयंति ये रुद्रं सकृदुच्छिन्नकल्मषाः
तेषां पिशाचलोकेषु भोगानीशः प्रयच्छति ॥१६॥
संतप्ता दुःखभारेण म्रियंते सर्वदेहिनः
अन्नदः पुण्यदः प्रोक्तः प्राणदश्चापि सर्वदः ॥१७॥
तस्मादन्नप्रदानेन सर्वदानफलं लभेत्
त्रैलोक्ये यानि रत्नानि भोगस्त्रीवाहनानि च ॥१८॥
अन्नदानप्रदः सर्वमिहामुत्र फलं लभेत्
यस्यान्नपानपुष्टांगः कुरुते पुण्यसंचयम् ॥१९॥
अन्नप्रदातुस्तस्यार्धं कर्तुश्चार्धं न संशयः
धर्मार्थकाममोक्षाणां देहः परमसाधनम् ॥२०॥
स्थितिस्तस्यान्नपानाभ्यामतस्तत्सर्वसाधनम्
अन्नं प्रजापतिः साक्षादन्नं विष्णुः शिवः स्वयम् ॥२१॥
तस्मादन्नसमं दानं न भूतं न भविष्यति
त्रयाणामपि लोकानामुदकं जीवनं स्मृतम् ॥२२॥
पवित्रमुदकं दिव्यं शुद्धं सर्वरसायनम्
अन्नपानाश्व गो वस्त्र शय्या सूत्रासनानि च ॥२३॥
प्रेतलोके प्रशस्तानि दानान्यष्टौ विशेषतः
एवं दानविशेषेण धर्मराजपुरं नरः ॥२४॥
यस्माद्याति सुखेनैव तस्माद्धर्मं समाचरेत्
ये पुनः क्रूरकर्माणः पापादानविवर्जिताः ॥२५॥
भुंजते दारुणं दुःखं नरके नृपनंदन
तथा सुखं प्रभुंजंति दानकर्तार एव तु ॥२६॥
तेषां तु संभवेत्सौख्यं कर्मयोगरतात्मनाम्
अप्रमेयगुणैर्दिव्यैर्विमानैः सर्वकामकैः ॥२७॥
असंख्यैस्तत्पुरं व्याप्तं प्राणिनामुपकारकैः
सहस्रसोमदिव्यं वा सूर्यतेजः समप्रभम् ॥२८॥
रुद्रलोकमिति प्रोक्तमशेषगुणसंयुतम्
सर्वेषां शिवभक्तानां तत्पुरं परिकीर्तितम् ॥२९॥
रुद्रक्षेत्रे मृतानां च जंगमस्थावरात्मनाम्
अप्येकदिवसं भक्त्या यः पूजयति शंकरम् ॥३०॥
सोपि याति शिवस्थानं किं पुनर्बहुशोर्चयन्
वैष्णवा विष्णुभक्ताश्च विष्णुध्यानपरायणाः ॥३१॥
तेपि गच्छंति वैकुंठे समीपं देवचक्रिणः
ब्रह्मवादी च धर्मात्मा ब्रह्मलोकं प्रयाति सः ॥३२॥
पुण्यकर्ता सुपुण्येन पुण्यलोकं प्रयाति च
तस्मादीशे सदा भक्तिं भावयेदात्मनात्मनि ॥३३॥
हरौ वापि महाराज युक्तात्मा ज्ञानवान्स्वयम्
तस्मात्सर्वविचारेण भावदोषविचारतः ॥३४॥
एवं विष्णुप्रभावेण विशिष्टेनापि कर्मणा
नरः स्थानमवाप्येतदेशभावानुरूपतः ॥३५॥
इत्येतदपरं प्रोक्तं श्रीमच्छिवपुरं महत्
देहिनां कर्मनिष्ठानां पुनरावर्त्तकं स्मृतम् ॥३६॥
ऊर्ध्वं शिवपुराज्ज्ञेयं वैष्णवं लोकमुत्तमम्
वैष्णवा मानवा यांति विष्णुध्यानपरायणाः ॥३७॥
ब्राह्मणा ब्रह्मलोकं तु सदाचारा नरोत्तमाः
प्रयांति यज्विनः सर्वे पुरीं तां तत्त्वकोविदाः ॥३८॥
ऐंद्रं लोकं तथा यांति क्षत्रिया युद्धशालिनः
अन्ये च पुण्यकर्त्तारः पुण्यलोकान्प्रयांति ते ॥३९॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृतीर्थे ययाति-
चरिते एकोनसप्ततितमोऽध्यायः ॥६९॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP