संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ५८

भूमिखंडः - अध्यायः ५८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


विष्णुरुवाच-
क्रीडाप्रयुक्तासु वनं प्रविष्टा वैश्यस्य भार्या सुकला सुतन्वी
ददर्श सर्वं गहनं मनोरमं तामेव पप्रच्छ सखीं सती सा ॥१॥
अरण्यमेतत्प्रवरं सुपुण्यं दिव्यं सखे कस्य मनोभिरामम्
सिद्धंसुकामैः प्रवरैः समस्तैः पप्रच्छ हर्षात्सुकला सखीं ताम् ॥२॥
क्रीडोवाच-
एतद्वनं दिव्यगुणैः प्रयुक्तं सिद्धस्वभावैः परिभावनेन
पुष्पाकुलं कामफलोपयुक्तं विपश्य सर्वं मकरध्वजस्य ॥३॥
एवं वाक्यं ततः श्रुत्वा हर्षेण महतान्विता
समालोक्य महद्वृत्तं कामस्य च दुरात्मनः ॥४॥
वायुना नीयमानं तं समाघ्राति न सौरभम्
वाति वायुः स्वभावेन सौरभेण समन्वितः ॥५॥
तद्बाणो विशतेनासां यथा तथा सुलीलया
सा गंधं नैव गृह्णाति पुष्पाणां च वरानना ॥६॥
न चास्वादयते सा तु सुरसान्सा महासती
स सखा कामदेवस्य रममाणो विनिर्जितः ॥७॥
लज्जितः पराङ्मुखो भूत्वा भूं पपात लवच्छदैः
फलेभ्यो हि सुपक्वेभ्यः पुष्पमंजरिसंस्कृतः ॥८॥
लवरूपोपतद्भूमौ रसस्त्वेष तया जितः
मकरंदः सुदीनात्मा फलाद्भूमिं ततः पुनः ॥९॥
भक्ष्यते मक्षिकाभिश्च यथामृतो रणे तथा
मक्षिकाभक्ष्यमाणस्तु प्रवाहेन प्रयाति सः ॥१०॥
मंदंमंदं प्रयात्येव तं हसंति च पक्षिणः
नानारुतैः प्रचलंति सुखमानंदनिर्भरैः ॥११॥
प्रीत्या शकुनयस्तत्र वनमध्यनगस्थिताः
सुकलया जितो ह्येष निम्नं पंथानमाश्रितः ॥१२॥
प्रीत्या समेता रतिः कामभार्या गत्वाब्रवीत्सा सुकलां विहस्य
स्वस्त्यस्तु ते स्वागतमेव भद्रे रमस्व प्रीत्या नयनाभिरामम् ॥१३॥
ते रूपमिष्टममलमिंद्रस्यापि महात्मनः
यदेष्टं ते तदा ब्रूहि समानेष्ये न संशयः ॥१४॥
सूत उवाच-
वदंत्यौ ते स्त्रियौ दृष्ट्वा श्रुत्वोवाच सुभाषितम्
रतिं प्रतिगृहीत्वा मे गतो भर्त्ता महामतिः ॥१५॥
यत्र मे तिष्ठते भर्त्ता तत्राहं पतिसंयुता
तत्र कामश्च मे प्रीतिरयं कायो निराश्रयः ॥१६॥
द्वे अप्युक्तं समाकर्ण्य रतिप्रीती विलज्जिते
व्रीडमाने गते ते द्वे यत्र कामो महाबलः ॥१७॥
ऊचतुस्तं महावीरमिंद्रकाय समाश्रितम्
चापमाकर्षमाणं तं नेत्रलक्ष्यं महाबलम् ॥१८॥
दुर्जयेयं महाप्राज्ञ त्यज पौरुषमात्मनः
पतिकामा महाभागा पतिव्रता सदैव सा ॥१९॥
काम उवाच-
अनया लोक्यते रूपमिंद्रस्यास्य महात्मनः
यदि देवि तदा चाहं हनिष्यामि न संशयः ॥२०॥
अथ वेषधरो देवो महारूपः सुराधिपः
स तयानुगतस्तूर्णं परया लीलया तदा ॥२१॥
सर्वभोगसमाकीर्णः सर्वाभरणशोभितः
दिव्यमाल्यांबरधरो दिव्यगंधानुलेपनः ॥२२॥
तया रत्या समायातो यत्रास्ते पतिदेवता
प्रत्युवाच महाभागां सुकलां सत्यचारिणीम् ॥२३॥
पूर्वं दूती समक्षं ते प्रीत्या च प्रहिता मया
कस्मान्न मन्यसे भद्रे भजंतं त्वामिहागतम् ॥२४॥
सुकलोवाच-
रक्षायुक्तास्मि भद्रं ते भर्तुः पुत्रैर्महात्मभिः
एकाकिनीसहायैश्च नैव कस्य भयं मम ॥२५॥
शूरैश्च पुरुषाकारैः सर्वत्र परिरक्षिता
नाति प्रस्तावये वक्तुं व्यग्रा कर्मणि तस्य च ॥२६॥
यावत्प्रस्यंदते नेत्रं तावत्कालं महामते
भवान्न लज्जते कस्माद्रममाणो मया सह ॥२७॥
भवान्को हि समायातो निर्भयो मरणादपि
इंद्र उवाच-
त्वामेवं हि प्रपश्यामि वनमध्ये समागताम् ॥२८॥
समाख्यातास्त्वया शूरा भर्तुश्च तनयाः पुनः
कथं पश्याम्यहं तावद्दर्शयस्व ममाग्रतः ॥२९॥
सुकलोवाच-
सनिजसकलवर्गस्याधिपत्ये निवेश्य धृतिमतिगतिबुद्ध्य्ख्यैस्तु संन्यस्य सत्यम्
अचलसकलधर्मो नित्ययुक्तो महात्मा मदनसबलधर्मात्मा सदामां जुगोप ॥३०॥
मामेवं परिरक्षते दमगुणैः शौचैस्तु धर्मः सदा सत्यं पश्य समागतं मम पुरः शांतिक्षमाभ्यांयुतम्
बोधश्चातिमहाबलः पृथुयशा यो मां न मुंचेत्कदा बद्धाहं दृढबंधनैः स्वगुणजैः सांनिध्यमेवं गतः ॥३१॥
रक्षायुक्ताः कृताः सर्वे सत्याद्या मम सांप्रतम्
धर्मलाभादिकाः सर्वे दमबुद्धिपराक्रमाः ॥३२॥
मामेवं हि प्ररक्षंति किं मां प्रार्थयसे बलात्
को भवान्निर्भयो भूत्वा दूत्या सार्धं समागतः ॥३३॥
सत्यं धर्मस्तथा पुण्यं ज्ञानाद्याः प्रबलास्तथा
मम भर्तुः सहायाश्च ते मां रक्षंति वेश्मनि ॥३४॥
अहं रक्षायुता नित्यं दमशांतिपरायणा
न मां जेतुं समर्थश्च अपि साक्षाच्छचीपतिः ॥३५॥
यदि वा मन्मथो वापि समागच्छति वीर्यवान्
दंशिताहं सदा सत्यं सत्यकेनैव नान्यथा ॥३६॥
निरर्थकास्तस्य बाणा भविष्यंति न संशयः
त्वामेवं हि हनिष्यंति धर्मादयो महाभटाः ॥३७॥
दूरं गच्छ पलायत्वमत्र मा तिष्ठ सांप्रतम्
वार्यमाणो यदा तिष्ठेर्भस्मीभूतो भविष्यसि ॥३८॥
भर्त्रा विना निरीक्षेत मम रूपं यदा भवान्
यथा दारु दहेदग्निस्तथा धक्ष्यामि नान्यथा ॥३९॥
एवं श्रुत्वा सहस्राक्षो मन्मथस्यापि सम्मुखम्
पश्य पौरुषमेतस्या युध्यस्व निजपौरुषैः ॥४०॥
यथागतास्तथा सर्वे महाशापभयातुराः
स्वंस्वं स्थानं महाराज इंद्राद्याः प्रययुस्तदा ॥४१॥
गतेषु तेषु सर्वेषु सुकला सा पतिव्रता
स्वगृहं पुण्यसंयुक्ता पतिध्यानेन चागता ॥४२॥
स्वगृहं पुण्यसंयुक्तं सर्वतीर्थमयं तदा
सर्वयज्ञमयं राजन्संप्राप्ता पतिदेवता ॥४३॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रेष्टपंचाशत्तमोऽध्यायः ॥५८॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP