संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ९९

भूमिखंडः - अध्यायः ९९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


विष्णुरुवाच-
स्तोत्रं पवित्रं परमं पुराणं पापापहं पुण्यमयं शिवं च
धन्यं सुसूक्तं परमं सुजाप्यं निशम्य राजा स सुखी बभूव ॥१॥
गतासु तृष्णा क्षुधया समेता देवोपमो भूमिपतिर्बभूव
भार्या च तस्यापि विभाति रूपैर्युक्तावुभौ पापविबंधमाप्तौ ॥२॥
देवः सुदेवैः परिवारितोसौ विप्रैः सुसिद्धैर्हरिभक्तियुक्तैः
आगत्य भूपं गतकल्मषं तं श्रीशंखचक्राब्जगदासिधर्ता ॥३॥
श्रीनारदो भार्गव व्यास पुण्या समागतस्तत्र मृकंडसूनुः
वाल्मीकि नामा मुनिर्विष्णुभक्तः समागतो ब्रह्मसुतो वसिष्ठः ॥४॥
गर्गो महात्मा हरिभक्तियुक्तो जाबालिरैभ्यावथ कश्यपश्च
आजग्मुरेते हरिणा समेता विष्णुप्रिया भागवतां वरिष्ठाः ॥५॥
पुण्याः सुधन्या गतकल्मषास्ते हरेः सुपादांबुजभक्तियुक्ताः
श्रीवासुदेवं परिवार्य तस्थुः स्तुवंति भूपं विविधप्रकारैः ॥६॥
देवाश्च सर्वे हुतभुङ्मुखाश्च ब्रह्मा हरिश्चापि सुदिव्यदेव्यः
गायंति दिव्यं मधुरं मनोहरं गंधर्वराजादिसुगायनाश्च ॥७॥
सुवेद युक्तैः परमार्थसंमितैः स्तवैः सुपुण्यैर्मुनयः स्तुवंति
दृष्ट्वा पतिं भूपतिमेव देवो हरिर्बभाषे वचनं मनोहरम् ॥८॥
वरं यथेष्टं वरयस्व भूपते ददाम्यहं ते परितोषितो यतः
हरेस्तु वाक्यं स निशम्य राजा दृष्ट्वा मुरारिं वदमानमग्रे ॥९॥
नीलोत्पलाभं मुरघातिनं प्रभुं तं शंखचक्रासिगदाप्रधारिणम्
श्रियासमेतं परमेश्वरं तं रत्नोज्ज्वलं कंकणहारभूषितम् ॥१०॥
रविप्रभं देवगणैः सुसेवितं महार्घहाराभरणैः सुभूषितम्
सुदिव्यगंधैर्वरलेपनैर्हरिं सुभक्तिभावैरवनीं गतो नृपः ॥११॥
दंडप्रणामैः सततं नमाम जयेति वाचाथ महानृपस्तदा
दासोस्मि भृत्योस्मि पुरः स ते सदा भक्तिं न जाने न च भावमुत्तमम् ॥१२॥
जायान्वितं मामिह चागतं हरे प्रपाहि वै त्वां शरणं प्रपन्नम्
धन्यास्तु ते माधव मानवा द्विजाः सदैव ते ध्यानमनोविलीनाः ॥१३॥
समुच्चरंतो भव माधवेति प्रयांति वैकुंठमितः सुनिर्मलाः
तवैव पादांबुजनिर्गतं पयः पुण्यं तथा ये शिरसा वहंति ॥१४॥
समस्ततीर्थोद्भव तोय आप्लुतास्ते मानवा यांति हरेः सुधाम ॥१५॥
नास्ति योगो न मे भक्तिर्ज्ञानं नास्ति न मे क्रिया
कस्य पुण्यस्य संगेन वरं मह्यं प्रयच्छसि ॥१६॥
हरिरुवाच-
वासुदेवाभिधानं यन्महापातकनाशनम्
भवता विज्वलात्पुण्याच्छ्रुतं राजन्विकल्मषः ॥१७॥
तेन त्वं मुक्तिभागी च संजातो नात्र संशयः
मम लोके प्रभुंक्ष्व त्वं दिव्यान्भोगान्मनोनुगान् ॥१८॥
राजोवाच-
यदिदेववरोदेयोममदीनस्यवैत्वया
विज्वलायप्रयच्छत्वंप्रथमंवरमुत्तमम् ॥१९॥
हरिरुवाच-
विज्वलस्य पिता पुण्यः कुंजलो ज्ञानमंडितः
वासुदेवमहास्तोत्रं नित्यं पठति भूपते ॥२०॥
पुत्रैः प्रियासमेतोऽसौ मम गेहं प्रयास्यति
एतत्तु जपते स्तोत्रं सदा दास्याम्यहं फलम् ॥२१॥
एवमुक्ते शुभे वाक्ये राजा केशवमब्रवीत्
इदं स्तोत्रं महापुण्यं सफलं कुरु केशव ॥२२॥
हरिरुवाच-
कृते युगे महाराज यदा स्तोष्यंति मानवाः
तदा मोक्षं प्रयास्यंति तत्क्षणान्नात्र संशयः ॥२३॥
त्रेतायां मासमात्रेण षड्भिर्मासैस्तु द्वापरे
वर्षेणैकेन च कलौ ये जपंति च मानवाः ॥२४॥
स्वर्गं प्रयांति राजेंद्र वैष्णवं गतिदायकम्
त्रिकालमेककालं वा स्नातो जपति ब्राह्मणः ॥२५॥
यं यं तु वांछते कामं स स तस्य भविष्यति
क्षत्रियो जयमाप्नोति धनधान्यैरलंकृतः ॥२६॥
वैश्यो भविष्यति श्रीमान्सुखी शूद्रो भविष्यति
अंत्यजं श्रावयेद्योयं पापान्मुक्तो भविष्यति ॥२७॥
श्रावको नरकं घोरं कदाचिन्नैव पश्यति
मम स्तोत्रप्रसादाच्च सर्वसिद्धो भविष्यति ॥२८॥
ब्राह्मणैर्भोज्यमानैश्च श्राद्धकाले पठिष्यति
पितरो वैष्णवं लोकं तृप्ता यास्यंति भूपते ॥२९॥
तर्पणांते जपं कुर्याद्ब्राह्मणो वाथ क्षत्रियः
पिबंति चामृतं तस्य पितरो हृष्टमानसाः ॥३०॥
होमेषु यज्ञमध्ये च भावाज्जपति मानवः
तत्र विघ्ना न जायंते सर्वसिद्धिर्भविष्यति ॥३१॥
विषमे दुर्गसंस्थाने हिंस्रव्याघ्रस्य संकटे
चौराणां संकटे प्राप्ते तत्र स्तोत्रमुदीरयेत् ॥३२॥
तत्र शांतिर्महाराज भविष्यति न संशयः
अन्येष्वेव सुभव्येषु राजद्वारे गते नरे ॥३३॥
वासुदेवाभिधानस्य अयुतं जपते नरः
ब्रह्मचर्येण संस्नातः क्रोधलोभविवर्जितः ॥३४॥
तिलतंडुलकैर्होमं दशांशमाज्यमिश्रितम्
वासुदेवं प्रपूज्यैव दद्यात्प्रयतमानसः ॥३५॥
श्लोकं प्रति ततो देयं होमं ध्यानेन मानवैः
तेषां सुभृत्यवन्नित्यं पार्श्वं नैव त्यजाम्यहम् ॥३६॥
कलौ युगे सुसंप्राप्ते स्तोत्रे दास्यं प्रयास्यति
वेदभंगप्रसंगेन यस्य कस्य न दीयते ॥३७॥
सर्वकामसमृद्धार्थः स चैव हि भविष्यति
एवं हि सफलं स्तोत्रं मया भूप कृतं शृणु ॥३८॥
ब्रह्मणा निर्मितं तेन जप्तं रुद्रेण वै पुरा
ब्रह्महत्याविनिर्मुक्त इंद्रो मुक्तश्च किल्बिषात् ॥३९॥
देवाश्च ऋषयो गुह्याः सिद्धविद्याधरामराः
नागैस्तु पूजितं स्तोत्रमापुः सिद्धिं मनीप्सिताम् ॥४०॥
पुण्यो धन्यः स वै दाता पुत्रवान्हि भविष्यति
जपिष्यति मम स्तोत्रं नात्र कार्या विचारणा ॥४१॥
आगच्छ त्वं स्त्रिया सार्धं मम स्थानं नृपोत्तम
हस्तावलंबनं दत्तं हरिणा तस्य भूपतेः ॥४२॥
नेदुर्दुंदुभयस्तत्र गंधर्वा ललितं जगुः
ननृतुश्चाप्सरः श्रेष्ठाः पुष्पवृष्टिं प्रचक्रिरे ॥४३॥
देवाश्च ऋषयः सर्वे वेदस्तोत्रैः स्तुवंति ते
ततो दयितया सार्द्धं जगाम नृपतिर्हरिम् ॥४४॥
तं स्तूयमानं सुरसिद्धसंघैः स विज्वलः पश्यति हृष्टमानसः
समागतस्तिष्ठति यत्र वै पिता माता च वेगेन महाप्रभावः ॥४५॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे नवनवतितमोऽध्यायः ॥९९॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP