संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ११

भूमिखंडः - अध्यायः ११

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


ऋषय ऊचुः-
सर्वज्ञेन त्वया प्रोक्तं दैत्यदानवसंगरम्
इदानीं श्रोतुमिच्छामः सुव्रतस्य महात्मनः ॥१॥
कस्य पुत्रो महाप्राज्ञः कस्य गोत्रसमुद्भवः
किं तपस्तस्य विप्रस्य कथमाराधितो हरिः ॥२॥
सूत उवाच-
कथा प्रज्ञाप्रभावेण पूर्वमेव यथा श्रुता
तथा विप्राः प्रवक्ष्यामि सुव्रतस्य महात्मनः ॥३॥
चरितं पावनं दिव्यं वैष्णवं श्रेयआवहम्
भवतामग्रतः सर्वं विष्णोश्चैव प्रसादतः ॥४॥
पूर्वकल्पे महाभागाः सुक्षेत्रे पापनाशने
रेवातीरे सुपुण्ये च तीर्थे वामनसंज्ञके ॥५॥
कौशिकस्य कुले जातः सोमशर्मा द्विजोत्तमः
स तु पुत्रविहीनस्तु बहुदुःखसमन्वितः ॥६॥
दारिद्रेण स दुःखेन सर्वदैवप्रपीडितः
पुत्रोपायं धनस्यापि दिवारात्रौ प्रचिंतयेत् ॥७॥
एकदा तु प्रिया तस्य सुमना नाम सुव्रता
भर्तारं चिंतयोपेतमधोमुखमलक्षयत् ॥८॥
समालोक्य तदा कांतं तमुवाच तपस्विनी
दुःखजालैरसंख्यैस्तु तव चित्तं प्रधर्षितम् ॥९॥
व्यामोहेन प्रमूढोसि त्यज चिंतां महामते
मम दुःखं समाचक्ष्व स्वस्थो भव सुखं व्रज ॥१०॥
नास्ति चिंतासमं दुःखं कायशोषणमेव हि
यश्चिंतां त्यज्य वर्तेत स सुखेन प्रमोदते ॥११॥
चिंतायाः कारणं विप्र कथयस्व ममाग्रतः
प्रियावाक्यं समाकर्ण्य सोमशर्माब्रवीत्प्रियाम् ॥१२॥
सोमशर्मोवाच-
इच्छया चिंतितं भद्रे चिंता दुःखस्य कारणम्
तत्सर्वं तु प्रवक्ष्यामि श्रुत्वा चैवावधार्यताम् ॥१३॥
न जाने केन पापेन धनहीनोस्मि सुव्रते
तथा पुत्रविहीनश्च एतद्दुःखस्य कारणम् ॥१४॥
सुमनोवाच-
श्रूयतामभिधास्यामि सर्वसंदेहनाशनम्
स्वरूपमुपदेशस्य सर्वविज्ञानदर्शनम् ॥१५॥
लोभः पापस्य बीजं हि मोहो मूलं च तस्य हि
असत्यं तस्य वै स्कंधो माया शाखा सुविस्तरा ॥१६॥
दंभकौटिल्यपत्राणि कुबुद्ध्या पुष्पितः सदा
अनृतं तस्य सौगंधं फलमज्ञानमेव च ॥१७॥
छद्मपाखंडशौर्येर्ष्याः क्रूराः कूटाश्च पापिनः
पक्षिणो मोहवृक्षस्य मायाशाखा समाश्रिताः ॥१८॥
अज्ञानं सुफलं तस्य रसोऽधर्मः फलस्य हि
तृष्णोदकेन संवृद्धाऽश्रद्धा तस्य द्रवः प्रिय ॥१९॥
अधर्मः सुरसस्तस्य उत्कटो मधुरायते
यादृशैश्च फलैश्चैव सुफलो लोभपादपः ॥२०॥
अस्यच्छायां समाश्रित्य यो नरः परितुष्यते
फलानि तस्य चाश्नाति सुपक्वानि दिनेदिने ॥२१॥
फलानां तु रसेनापि अधर्मेण तु पालितः
स संतुष्टो भवेन्मर्त्यः पतनायाभिगच्छति ॥२२॥
तस्माच्चिंतां परित्यज्य पुमाँल्लोभं न कारयेत्
धनपुत्रकलत्राणां चिंतामेकां न कारयेत् ॥२३॥
यो हि विद्वान्भवेत्कांत मूर्खाणां पथमेति हि
मूर्खश्चिंतयते नित्यं कथमर्थं ममैव हि ॥२४॥
सुभार्यामिह विंदामि कथं पुत्रानहं लभे
एवं चिंतयते नित्यं दिवारात्रौ विमोहितः ॥२५॥
क्षणमेकं प्रपश्येत चिंतामध्ये महत्सुखम्
पुनश्चैतन्यमायाति महादुःखेन पीड्यते ॥२६॥
चिंतामोहौ परित्यज्य अनुवर्तस्व च द्विज
संसारे नास्ति संबंधः केन सार्धं महामते ॥१७॥
मित्राश्च बांधवाः पुत्राः पितृमातृसभृत्यकाः
संबंधिनो भवंत्येव कलत्राणि तथैव च ॥२८॥
सोमशर्मोवाच-
संबंधः कीदृशो भद्रे तथा विस्तरतो वद
येन संबंधिनः सर्वे धनपुत्रादिबांधवाः ॥२९॥
सुमनोवाच-
ऋणसंबंधिनः केचित्केचिन्न्यासापहारकाः
लाभप्रदा भवंत्येके उदासीनास्तथापरे ॥३०॥
भेदैश्चतुर्भिर्जायंते पुत्रमित्रस्त्रियस्तथा
भार्या पिता च माता च भृत्याः स्वजनबांधवाः ॥३१॥
स्वेनस्वेन हि जायंते संबंधेन महीतले
न्यासापहारभावेन यस्य येन कृतं भुवि ॥३२॥
न्यासस्वामी भवेत्पुत्रो गुणवान्रूपवान्भुवि
येनैवापह्रतं न्यासं तस्य गेहे न संशयः ॥३३॥
न्यासापहरणाद्दुःखं स दत्वा दारुणं गतः
न्यासस्वामी सुपुत्रोभून्न्यासापहारकस्य च ॥३४॥
गुणवान्रूपवांश्चैव सर्वलक्षणसंयुतः
भक्तिं तु दर्शयंस्तस्य पुत्रो भूत्वा दिनेदिने ॥३५॥
प्रियवाङ्मधुरो रोगी बहुस्नेहं विदर्शयन्
स्वीयं द्रव्यं समुद्गृह्य प्रीतिमुत्पाद्य चोत्तमाम् ॥३६॥
यथा येन प्रदत्तं स्यान्न्यासस्य हरणात्पुरा
दुःखमेव महाभाग दारुणं प्राणनाशनम् ॥३७॥
तादृशं तस्य सौहृद्यात्पुत्रो भूत्वा महागुणैः
अल्पायुषस्तथा भूत्वा मरणं चोपगच्छति ॥३८॥
दुःखं दत्वा प्रयात्येवं भूत्वाभूत्वा पुनःपुनः
यदा हा पुत्रपुत्रेति प्रलापं हि करोति सः ॥३९॥
तदा हास्यं करोत्येव कस्य पुत्रो हि कः पिता
अनेनापहृतं न्यासं मदीयस्योपकारणम् ॥४०॥
द्रव्यापहरणेनापि न मे प्राणा गताः किल
दुःखेन महता चैव असह्येन च वै पुरा ॥४१॥
तथा दुःखं प्रदत्वाहं द्रव्यमुद्गृह्य चोत्तमम्
गंतास्मि सुभृशं चाद्य कस्याहं सुत ईदृशः ॥४२॥
न चैष मे पिता पुत्रः पूर्वमेव न कस्यचित्
पिशाचत्वं मया दत्तमस्यैवेति दुरात्मनः ॥४३॥
एवमुक्त्वा प्रयात्येवं तं प्रहस्य पुनःपुनः
प्रयात्यनेन मार्गेण दुःखं दत्वा सुदारुणम् ॥४४॥
एवं न्यासं समुद्धर्तुः पुत्राः कांत भवंति वै
संसारे दुःखबहुला दृश्यंते यत्रतत्र च ॥४५॥
ऋणसंबंधिनः पुत्रान्प्रवक्ष्यामि तवाग्रतः ॥४६॥

इति श्रीपद्मपुराणे भूमिखंडे सुव्रतोपाख्याने एकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : October 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP