संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ७८

भूमिखंडः - अध्यायः ७८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


ययातिरुवाच-
एकेन गृह्यतां पुत्रा जरा मे दुःखदायिनी
धीरेण भवतां मध्ये तारुण्यं मम दीयताम् ॥१॥
स्वकीयं हि महाभागाः स्वरूपमिदमुत्तमम्
संतप्तं मानसं मेद्य स्त्रियां सक्तं सुचंचलम् ॥२॥
भाजनस्था यथा आप आवर्त्तयति पावकः
तथा मे मानसं पुत्राः कामानलसुचालितम् ॥३॥
एको गृह्णातु मे पुत्रा जरां दुःखप्रदायिनीम्
स्वकं ददातु तारुण्यं यथाकामं चराम्यहम् ॥४॥
यो मे जरापसरणं करिष्यति सुतोत्तमः
स च मे भोक्ष्यते राज्यं धनुर्वंशं धरिष्यति ॥५॥
तस्य सौख्यं सुसंपत्तिर्धनं धान्यं भविष्यति
विपुला संततिस्तस्य यशः कीर्तिर्भविष्यति ॥६॥
पुत्रा ऊचुः-
भवान्धर्मपरो राजन्प्रजाः सत्येन पालकः
कस्मात्ते हीदृशो भावो जातः प्रकृतिचापलः ॥७॥
राजोवाच-
आगता नर्तकाः पूर्वं पुरं मे हि प्रनर्तकाः
तेभ्यो मे कामसंमोहे जातो मोहश्च ईदृशः ॥८॥
जरया व्यापितः कायो मन्मथाविष्टमानसः
संबभूव सुतश्रेष्ठाः कामेनाकुलव्याकुलः ॥९॥
काचिद्दृष्टा मया नारी दिव्यरूपा वरानना
मया संभाषिता पुत्राः किंचिन्नोवाच मे सती ॥१०॥
विशालानाम तस्याश्च सखी चारुविचक्षणा
सा मामाह शुभं वाक्यं मम सौख्यप्रदायकम् ॥११॥
जराहीनो यदा स्यास्त्वं तदा ते सुप्रिया भवेत्
एवमंगीकृतं वाक्यं तयोक्तं गृहमागतः ॥१२॥
मया जरापनोदार्थं तदेवं समुदाहृतम्
एवं ज्ञात्वा प्रकर्तव्यं मत्सुखं हि सुपुत्रकाः ॥१३॥
तुरुरुवाच-
शरीरं प्राप्यते पुत्रैः पितुर्मातुः प्रसादतः
धर्मश्च क्रियते राजञ्शरीरेण विपश्चिता ॥१४॥
पित्रोः शुश्रूषणं कार्यं पुत्रैश्चापि विशेषतः
न च यौवनदानस्य कालोऽयं मे नराधिप ॥१५॥
प्रथमे वयसि भोक्तव्यं विषयं मानवैर्नृप
इदानीं तन्न कालोयं वर्तते तव सांप्रतम् ॥१६॥
जरां तात प्रदत्वा वै पुत्रे तात महद्गताम्
पश्चात्सुखं प्रभोक्तव्यं न तु स्यात्तव जीवितम् ॥१७॥
तस्माद्वाक्यं महाराज करिष्ये नैव ते पुनः
एवमाभाषत नृपं तुरुर्ज्येष्ठसुतस्तदा ॥१८॥
तुरोर्वाक्यं तु तच्छ्रुत्वा क्रुद्धो राजा बभूव सः
तुरुं शशाप धर्मात्मा क्रोधेनारुणलोचनः ॥१९॥
अपध्वस्तस्त्वयाऽदेशो ममायं पापचेतन
तस्मात्पापी भव स्वत्वं सर्वधर्मबहिष्कृतः ॥२०॥
शिखया त्वं विहीनश्च वेदशास्त्रविवर्जितः
सर्वाचारविहीनस्त्वं भविष्यसि न संशयः ॥२१॥
ब्रह्मघ्नस्त्वं देवदुष्टः सुरापः सत्यवर्जितः
चंडकर्मप्रकर्ता त्वं भविष्यसि नराधमः ॥२२॥
सुरालीनः क्षुधी पापी गोघ्नश्च त्वं भविष्यसि
दुश्चर्मा मुक्तकच्छश्च ब्रह्मद्वेष्टा निराकृतिः ॥२३॥
परदाराभिगामी त्वं महाचंडः प्रलंपटः
सर्वभक्षश्च दुर्मेधाः सदात्वं च भविष्यसि ॥२४॥
सगोत्रां रमसे नारीं सर्वधर्मप्रणाशकः
पुण्यज्ञानविहीनात्मा कुष्ठवांश्च भविष्यसि ॥२५॥
तव पुत्राश्च पौत्राश्च भविष्यंति न संशयः
ईदृशाः सर्वपुण्यघ्ना म्लेच्छाः सुकलुषीकृताः ॥२६॥
एवं तुरुं सुशप्त्वैव यदुं पुत्रमथाब्रवीत्
जरां वै धारयस्वेह भुंक्ष्व राज्यमकंटकम् ॥२७॥
बद्धाञ्जलिपुटो भूत्वा यदू राजानमब्रवीत्
यदुरुवाच-
जराभारं न शक्नोमि वोढुं तात कृपां कुरु ॥२८॥
शीतमध्वा कदन्नं च वयोतीताश्च योषितः
मनसः प्रातिकूल्यं च जरायाः पंचहेतवः ॥२९॥
जरादुःखं न शक्नोमि नवे वयसि भूपते
कः समर्थो हि वै धर्तुं क्षमस्व त्वं ममाधुना ॥३०॥
यदुं क्रुद्धो महाराजः शशाप द्विजनंदन
राज्यार्हो न च ते वंशः कदाचिद्वै भविष्यति ॥३१॥
बलतेजः क्षमाहीनः क्षात्रधर्मविवर्जितः
भविष्यति न संदेहो मच्छासनपराङ्मुखः ॥३२॥
यदुरुवाच-
निर्दोषोहं महाराज कस्माच्छप्तस्त्वयाधुना
कृपां कुरुष्व दीनस्य प्रसादसुमुखो भव ॥३३॥
राजोवाच-
महादेवः कुले ते वै स्वांशेनापि हि पुत्रक
करिष्यति विसृष्टिं च तदा पूतं कुलं तव ॥३४॥
यदुरुवाच-
अहं पुत्रो महाराज निर्दोषः शापितस्त्वया
अनुग्रहो दीयतां मे यदि मे वर्त्तते दया ॥३५॥
राजोवाच-
यो भवेज्ज्येष्ठपुत्रस्तु पितुर्दुःखापहारकः
राज्यदायं सुभुंक्ते च भारवोढा भवेत्स हि ॥३६॥
त्वया धर्मं न प्रवृत्तमभाष्योसि न संशयः
भवता नाशिताज्ञा मे महादंडेन घातिनः ॥३७॥
तस्मादनुग्रहो नास्ति यथेष्टं च तथा कुरु
यदुरुवाच-
यस्मान्मे नाशितं राज्यं कुलं रूपं त्वया नृप ॥३८॥
तस्माद्दुष्टो भविष्यामि तव वंशपतिर्नृप
तव वंशे भविष्यंति नानाभेदास्तु क्षत्त्रियाः ॥३९॥
तेषां ग्रामान्सुदेशांश्च स्त्रियो रत्नानि यानि वै
भोक्ष्यंति च न संदेहो अतिचंडा महाबलाः ॥४०॥
मम वंशात्समुत्पन्नास्तुरुष्का म्लेच्छरूपिणः
त्वया ये नाशिताः सर्वे शप्ताः शापैः सुदारुणैः ॥४१॥
एवं बभाषे राजानं यदुः क्रुद्धो नृपोत्तम
अथ क्रुद्धो महाराजः पुनश्चैवं शशाप ह ॥४२॥
मत्प्रजानाशकाः सर्वे वंशजास्ते शृणुष्व हि
यावच्चंद्रश्च सूर्यश्च पृथ्वी नक्षत्रतारकाः ॥४३॥
तावन्म्लेच्छाः प्रपक्ष्यंते कुंभीपाके चरौ रवे
कुरुं दृष्ट्वा ततो बालं क्रीडमानं सुलक्षणम् ॥४४॥
समाह्वयति तं राजा न सुतं नृपनंदनम्
शिशुं ज्ञात्वा परित्यक्तः सकुरुस्तेन वै तदा ॥४५॥
शर्मिष्ठायाः सुतं पुण्यं तं पूरुं जगदीश्वरः
समाहूय बभाषे च जरा मे गृह्यतां पुनः ॥४६॥
भुंक्ष्व राज्यं मया दत्तं सुपुण्यं हतकंटकम्
पूरुरुवाच-
राज्यं देवे न भोक्तव्यं पित्रा भुक्तं यथा तव ॥४७॥
त्वदादेशं करिष्यामि जरा मे दीयतां नृप
तारुण्येन ममाद्यैव भूत्वा सुंदररूपदृक् ॥४८॥
भुंक्ष्व भोगान्सुकर्माणि विषयासक्तचेतसा
यावदिच्छा महाभाग विहरस्व तया सह ॥४९॥
यावज्जीवाम्यहं तात जरां तावद्धराम्यहम्
एवमुक्तस्तु तेनापि पूरुणा जगतीपतिः ॥५०॥
हर्षेण महताविष्टस्तं पुत्रं प्रत्युवाच सः
यस्माद्वत्स ममाज्ञा वै न हता कृतवानिह ॥५१॥
तस्मादहं विधास्यामि बहुसौख्यप्रदायकम्
यस्माज्जरागृहीता मे दत्तं तारुण्यकं स्वकम् ॥५२॥
तेन राज्यं प्रभुंक्ष्व त्वं मया दत्तं महामते
एवमुक्तः सुपूरुश्च तेन राज्ञा महीपते ॥५३॥
तारुण्यंदत्तवानस्मै जग्राहास्माज्जरां नृप
ततः कृते विनिमये वयसोस्तातपुत्रयोः ॥५४॥
तस्माद्वृद्धतरः पूरुः सर्वांगेषु व्यदृश्यत
नूतनत्वं गतो राजा यथा षोडशवार्षिकः ॥५५॥
रूपेण महताविष्टो द्वितीय इव मन्मथः
धनूराज्यं च छत्रं च व्यजनं चासनं गजम् ॥५६॥
कोशं देशं बलं सर्वं चामरं स्यंदनं तथा
ददौ तस्य महाराजः पूरोश्चैव महात्मनः ॥५७॥
कामासक्तश्च धर्मात्मा तां नारीमनुचिंतयन्
तत्सरः सागरप्रख्यंकामाख्यं नहुषात्मजः ॥५८॥
अश्रुबिंदुमती यत्र जगाम लघुविक्रमः
तां दृष्ट्वा तु विशालाक्षीं चारुपीनपयोधराम् ॥५९॥
विशालां च महाराजः कंदर्पाकृष्टमानसः
राजोवाच-
आगतोऽस्मि महाभागे विशाले चारुलोचने ॥६०॥
जरात्यागःकृतो भद्रे तारुण्येन समन्वितः
युवा भूत्वा समायातो भवत्वेषा ममाधुना ॥६१॥
यंयं हि वांछते चैषा तंतं दद्मि न संशयः
विशालोवाच-
यदा भवान्समायातो जरां दुष्टां विहाय च ॥६२॥
दोषेणैकेनलिप्तोसि भवंतं नैव मन्यते
राजोवाच-
मम दोषं वदस्व त्वं यदि जानासि निश्चितम् ॥६३॥
तं तु दोषं परित्यक्ष्येगुणरूपंनसंशयः ॥६४॥

इति श्रीपद्मपुराणेभूमिखंडेवेनोपाख्यानेमातापितृतीर्थवर्णने ययातिचरितेऽष्टसप्ततितमोऽध्यायः ॥७८॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP