संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ३०

भूमिखंडः - अध्यायः ३०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


ऋषय ऊचुः-
योऽसौ वेनस्त्वयाख्यातः पापाचारेण वर्तितः
तस्य पापस्य का वृत्तिः किं फलं प्राप्तवान्द्विज ॥१॥
चरित्रं तस्य वेनस्य समाख्याहि यथा पुरा
विस्तरेण विदां श्रेष्ठ त्वं न एतन्महामते ॥२॥
सूत उवाच-
चरित्रं तस्य वेनस्य वैन्यस्यापि महात्मनः
प्रवक्ष्यामि सुपुण्यं च यथान्यायं श्रुतं पुरा ॥३॥
जाते पुत्रे महाभागस्तस्मिन्पृथौ महात्मनि
विमलत्वं गतो राजा धर्मत्वं गतवान्पुनः ॥४॥
महापापानि सर्वाणि अर्जितानि नराधमैः
तीर्थसंगप्रसंगेन तेषां पापं प्रयाति च ॥५॥
सतां संगात्प्रजायेत पुण्यमेव न संशयः
पापानां तु प्रसंगेन पापमेव प्रजायते ॥६॥
संभाषाद्दर्शनात्स्पर्शादासनाद्भोजनात्किल
पापिनां संगमाच्चैव किल्बिषं परिसंचरेत् ॥७॥
तथा पुण्यात्मकानां च पुण्यमेव प्रसंचरेत्
महातीर्थप्रसंगेन पापाः शुध्यंति नान्यथा ॥८॥
पुण्यां गतिं प्रयान्त्येते निर्द्धूताशेष कल्मषाः
ऋषय ऊचुः-
तत्कथं यांति ते पापाः परां सिद्धिं द्विजोत्तम ॥९॥
तन्नो विस्तरतो ब्रूहि श्रोतुं श्रद्धा प्रवर्तते ॥१०॥
सूत उवाच-
लुब्धकाश्च महापापाः संजाता दासधीवराः
रेवा च यमुना गंगास्तासामंभसि संस्थिताः ॥११॥
ज्ञानतोऽज्ञानतः स्नात्वा संक्रीडंति च वै जले
महानद्याः प्रसंगेन ते यांति परमां गतिम् ॥१२॥
दासत्वं पापसंघातं परित्यज्य व्रजंति ते
पुण्यतोयप्रसंगाच्च ह्याप्लुताः सर्व एव ते ॥१३॥
महानद्याः प्रसंगाच्च अन्यासां नैव सत्तमाः
महापुण्यजनस्यापि पापं नश्यति पापिनाम् ॥१४॥
प्रसंगाद्दर्शनात्स्पर्शान्नात्र कार्या विचारणा
अत्रार्थे श्रूयते विप्रा इतिहासोऽघनाशनः ॥१५॥
तं वो अद्य प्रवक्ष्यामि बहुपुण्यप्रदायकम्
कश्चिदस्ति मृगव्याधः सुलोभाख्यो महावने ॥१६॥
श्वभिर्वागुरिजालैश्च धनुर्बाणैस्तथैव च
मृगान्घातयते नित्यं पिशितास्वादलंपटः ॥१७॥
एकदा तु सुदुष्टात्मा बाणपाणिर्धनुर्धरः
श्वभिः परिवृतो दुर्गं वनं विंध्यस्य वै गतः ॥१८॥
मृगान्रुरून्वराहांश्च भीतान्सूदितवान्बहून्
रेवातीरं समासाद्य कश्चिच्छफरघातकः ॥१९॥
शफरान्सूदयित्वा स निर्जगाम बहिर्जलात्
मृगव्याधस्य लोभस्य भयत्रस्ता ततो मृगी ॥२०॥
जीवत्राणपरा सार्ता भीता चलितचेतना
त्वरमाणा पलायंती रेवातीरं समाश्रिता ॥२१॥
श्वभिश्च चालिता सा तु बाणघातक्षतातुरा
श्वसनस्यापि वेगेन सुलभो मृगघातकः ॥२२॥
पृष्ठ एव समायाति पुरतो याति सा मृगी
दृष्टवांस्तां शफरहा बाणपाणिः समुद्यतः ॥२३॥
धनुरानम्य वेगेन अनुरुध्य च तां मृगीम्
तावल्लुब्धक लोभाख्यः श्वभिः सार्द्धं समागतः ॥२४॥
न हंतव्या मदीयेयं मृगयां मे समागता
तस्य वाक्यं समाकर्ण्य मीनहा मांसलंपटः ॥२५॥
बाणं मुमोच दुष्टात्मा तामुद्दिश्य महाबलः
निहता मृगलुब्धेन बाणेन निशितेन च ॥२६॥
प्रमृता सा मृगी तत्र बाणाभ्यां पापचेतसोः
श्वभिर्दंतैः समाक्रांता त्वरमाणा पपात सा ॥२७॥
शिखराच्च ह्रदे पुण्ये रेवायाः पापनाशने
श्वानश्च त्वरमाणास्ते पतिता विमले ह्रदे ॥२८॥
मृगव्याधो वदत्येव धीवरं क्रोधमूर्च्छितः
मदीयेयं मृगी दुष्ट कस्माद्बाणैर्हता त्वया ॥२९॥
तमुवाच पुनः सोऽपि मीनहा मृगघातकम्
मदीयेयं न संदेहो अवलिप्त प्रभाषसे ॥३०॥
युध्यमानौ ततस्तौ तु द्वावेतौ तु परस्परम्
क्रोधलोभान्महाभागौ पतितौ विमले जले ॥३१॥
तस्मिन्काले महापर्व वर्तते गतिदायकम्
अमावास्या समायोगं महापुण्यफलप्रदम् ॥३२॥
वेलायां पतिताः सर्वे पर्वणस्तस्य सत्तम
जपध्यानविहीनास्ते भावसत्यविवर्जिताः ॥३३॥
तीर्थस्नानप्रसंगेन मृगी श्वा च स लुब्धकः
सर्वपापविनिर्मुक्तास्ते गताः परमां गतिम् ॥३४॥
तीर्थानां च प्रभावेण सतां संगाद्द्विजोत्तमाः
नाशयेत्पापिनां पापं दहेदग्निरिवेंधनम् ॥३५॥
सूत उवाच-
तेषामेवं हि संसर्गादृषीणां च महात्मनाम्
संभाषाद्दर्शनान्नष्टं स्पर्शाच्चैव नृपस्य च ॥३६॥
वेनस्य कल्मषं नष्टं सतां संगात्पुरा किल
अत्युग्रपुण्यसंसर्गात्पापं नश्यति पापिनाम् ॥३७॥
अत्युग्रपापिनां संगात्पापमेव प्रसंचरेत्
मातामहस्य दोषेण संलिप्तो वेन एव सः ॥३८॥
ऋषय ऊचुः-
मातामहस्य को दोषस्तं नो विस्तरतो वद
स मृत्युः स च वै कालः स यमो धर्म एव च ॥३९॥
न हिंसको हि कस्यापि पदे तस्मिन्प्रतिष्ठितः
चराचराश्च ये लोकाः स्वकर्मवशवर्तिनः ॥४०॥
जीवंति च म्रियंते च भुंजंत्येवं स्वकर्मभिः
पापाः पश्यंति तं घोरं तेषां कर्मविपाकतः ॥४१॥
निरयेषु च सर्वेषु कर्मणैवं सुपुण्यवान्
योजयेत्ताडयेत्सूत यम एष दिनेदिने ॥४२॥
सर्वेष्वेव सुपुण्येषु कर्मस्वेवं सपुण्यवान्
योजयत्येव धर्मात्मा तस्य दोषो न दृश्यते ॥४३॥
स मृत्योः केन दोषेण पापी वेनस्त्वजायत
सूत उवाच-
स मृत्युः शासको नित्यं पापानां दुष्टचेतसाम् ॥४४॥
वर्तते कालरूपेण तेषां कर्म विमृश्यति
दुष्कृतं कर्म यस्यापि कर्मणा तेन घातयेत् ॥४५॥
तस्य पापं विदित्वाऽसौ नयत्येवं हि तं यमः
सुकृतात्मा लभेत्स्वर्गं कर्मणा सुकृतेन वै ॥४६॥
योजयत्येष तान्सर्वान्मृत्युरेव सुदूतकैः
महता सौख्यभावेन गीतमंगलकारिणा ॥४७॥
दानभोगादिभिश्चैव योजयेच्च कृतात्मकान्
पीडाभिर्विविधाभिश्च क्लेशैः काष्ठैश्च दारुणैः ॥४८॥
त्रासयेत्ताडयेद्विप्रान्स क्रोधो मृत्युरेव तान्
कर्मण्येवं हि तस्यापि व्यापारः परिवर्तते ॥४९॥
मृत्योश्चापि महाभाग लोभात्पुण्यात्प्रजायते
सुनीथा नाम वै कन्या संजातैषा महात्मनः ॥५०॥
पितुःकर्म विमृश्यैव क्रीडमाना सदैव सा
प्रजानां शास्ति कर्तारं पुण्यपापनिरीक्षणम् ॥५१॥
सा तु कन्या महाभागा सुनीथा नाम तस्य सा
रममाणा वनं प्राप्ता सखीभिः परिवारिता ॥५२॥
तत्रापश्यन्महाभागं गंधर्वतनयं वरम्
गीतकोलाहलस्यापि सुशंखं नाम सा तदा ॥५३॥
ददर्श चारुसर्वांगं तप्यंतं सुमहत्तपः
गीतविद्यासु सिद्ध्यर्थं ध्यायमानं सरस्वतीम् ॥५४॥
तस्योपघातमेवासौ सा चकार दिने दिने
सुशंखः क्षमते नित्यं गच्छगच्छेति सोऽब्रवीत् ॥५५॥
प्रेषिता नैव गच्छेत्सा विघ्नमेव समाचरेत्
तेनाप्युक्ता सा हि क्रुद्धा ताडयत्तपसि स्थितम् ॥५६॥
तामुवाच ततः क्रुद्धः सुशंखः क्रोधमूर्च्छितः
दुष्टे पापसमाचारे कस्माद्विघ्नस्त्वया कृतः ॥५७॥
ताडनात्ताडनं दुष्टे न कुर्वंति महाजनाः
आक्रुष्टा नैव कुप्यंति इति धर्मस्य संस्थितिः ॥५८॥
त्वयाहं घातितः पापे निर्दोषस्तपसान्वितः
एवमुक्त्वा स धर्मात्मा सुनीथां पापचारिणीम् ॥५९॥
विरराम महाक्रोधाज्ज्ञात्वा नारीं निवर्तितः
ततः सा पापमोहाद्वा बाल्याद्वा तमिहैव च ॥६०॥
समुवाच महात्मानं सुशंखं तपसि स्थितम्
त्रैलोक्यवासिनां तातो ममैव परिघातकः ॥६१॥
असतो घातयेन्नित्यं सत्यान्स परिपालयेत्
नैव दोषो भवेत्तस्य महापुण्येन वर्तयेत् ॥६२॥
एवमुक्त्वा गता सा तु पितरं वाक्यमब्रवीत्
मया हि ताडितस्तात गंधर्वतनयो वने ॥६३॥
तपस्तपन्सदैकांते कामक्रोधविवर्जितः
स मामुवाच धर्मात्मा क्रोधरागसमन्वितः ॥६४॥
ताडयेन्नैव ताडंतं क्रोशंतं नैव क्रोशयेत्
इत्युवाच स मां तात तन्मे त्वं कारणं वद ॥६५॥
एवमुक्तः स वै मृत्युः सुनीथां द्विजसत्तमाः
किंचिन्नोवाच धर्मात्मा प्रश्नप्रत्युत्तरं ततः ॥६६॥
वनं प्राप्ता पुनः सा हि सुशंखो यत्र संस्थितः
कराघातैस्ततो दौष्ट्याद्घातितस्तपतां वरः ॥६७॥
सुशंखस्ताडितो विप्रा मृत्योश्चैव हि कन्यया
ततः क्रुद्धो महातेजाः शशाप तनुमध्यमाम् ॥६८॥
निर्दोषो हि यतो दुष्टे त्वयैव परिताडितः
अहमत्र वने संस्थस्तस्माच्छापं ददाम्यहम् ॥६९॥
गार्हस्थ्यं च समास्थाय सह भर्त्रा यदा शृणु
पापाचारमयः पुत्रो देवब्राह्मणनिंदकः ॥७०॥
सर्वपापरतो दुष्टे तव गर्भे भविष्यति
एवं शप्त्वा गतः सोपि तप एव समाश्रितः ॥७१॥
गते तस्मिन्महाभागे सा सुनीथा गृहं गता
समाचष्ट महात्मानं पितरं तप्तमानसा ॥७२॥
यथा शप्ता तदा तेन गंधर्वतनयेन सा
तत्सर्वं संश्रुतं तेन मृत्युना परिभाषितम् ॥७३॥
कस्मात्कृतस्त्वयाघातस्तपति दोषवर्जिते
युक्तं नैव कृतं पुत्रि सत्यस्यैव हि ताडनम् ॥७४॥
एवमाभाष्य धर्मात्मा मृत्युः परमदुःखितः
बभूव स हि तत्तस्यादिष्टमेवं विचिंतयन् ॥७५॥
सूत उवाच-
अत्रिपुत्रो महातेजा अंगो नाम प्रतापवान्
एकदा तु गतो विप्रा नंदनं प्रति स द्विजः ॥७६॥
तत्र दृष्ट्वा देवराजं तमिंद्रं पाकशासनम्
अप्सरसां गणैर्युक्तं गंधर्वैः किन्नरैस्तथा ॥७७॥
गीयमानं गीतगैश्च सुस्वरैः सप्तकैस्तथा
वीज्यमानं सुगंधैश्च व्यजनैः सर्व एव सः ॥७८॥
योषिद्भी रूपयुक्ताभिश्चामरैर्हंसगामिभिः
छत्रेण हंसवर्णेन चंद्रबिंबानुकारिणा ॥७९॥
राजमानं सहस्राक्षं सर्वाभरणभूषितम्
कामक्रीडागतं देवं दृष्टवानमितौजसम् ॥८०॥
तस्य पार्श्वे महाभागां पौलोमीं चारुमंगलाम्
रूपेण तेजसा चैव तपसा च यशस्विनीम् ॥८१॥
सौभाग्येन विराजंतीं पातिव्रत्येन तां सतीम्
तया सह सहस्राक्षः स रेमे नंदने वने ॥८२॥
तस्य लीलां समालोक्य अंगश्चैव द्विजोत्तमः
धन्यो वै देवराजोऽयमीदृशैः परिवारितः ॥८३॥
अहोऽस्य तपसो वीर्यं येन प्राप्तं महत्पदम्
यदा ममेदृशः पुत्रः सर्वलोकप्रधारकः ॥८४॥
भवेत्तदा महत्सौख्यं प्राप्स्यामीह न संशयः
इति चिंतापरो भूत्वा त्वरमाणो गृहागतः ॥८५॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने त्रिंशोऽध्यायः ॥३०॥

N/A

References : N/A
Last Updated : October 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP