संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः १०३ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः १०३ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १०३ Translation - भाषांतर कुंजल उवाच-अशोकसुंदरी जाता सर्वयोषिद्वरा तदारेमे सुनंदने पुण्ये सर्वकामगुणान्विते ॥१॥सुरूपाभिः सुकन्याभिर्देवानां चारुहासिनीसर्वान्भोगान्प्रभुंजाना गीतनृत्यविचक्षणा ॥२॥विप्रचित्तेः सुतो हुंडो रौद्रस्तीव्रश्च सर्वदास्वेच्छाचारो महाकामी नंदनं प्रविवेश ह ॥३॥अशोकसुंदरीं दृष्ट्वा सर्वालंकारसंयुताम्तस्यास्तु दर्शनाद्दैत्यो विद्धः कामस्य मार्गणैः ॥४॥तामुवाच महाकायः का त्वं कस्यासि वा शुभेकस्मात्त्वं कारणाच्चात्र आगतासि वनोत्तमम् ॥५॥अशोकसुंदर्युवाच-शिवस्यापि सुपुण्यस्य सुताहं शृणु सांप्रतम्स्वसाहं कार्तिकेयस्य जननी गोत्रजापि मे ॥६॥बालभावेन संप्राप्ता लीलया नंदनं वनम्भवान्कोहि किमर्थं तु मामेवं परिपृच्छति ॥७॥हुंड उवाच-विप्रचित्तेः सुतश्चाहं गुणलक्षणसंयुतःहुंडेति नाम्ना विख्यातो बलवीर्यमदोद्धतः ॥८॥दैत्यानामप्यहं श्रेष्ठो मत्समो नास्ति राक्षसःदेवेषु मर्त्यलोकेषु तपसा यशसा कुले ॥९॥अन्येषु नागलोकेषु धनभोगैर्वराननेदर्शनात्ते विशालाक्षि हतः कंदर्पमार्गणैः ॥१०॥शरणं ते ह्यहं प्राप्तः प्रसादसुमुखी भवभव स्ववल्लभा भार्या मम प्राणसमा प्रिया ॥११॥अशोकसुंदर्युवाच-श्रूयतामभिधास्यामि सर्वसंबंधकारणम्भवितव्या सुजातस्य लोके स्त्री पुरुषस्य हि ॥१२॥भवितव्यस्तथा भर्ता स्त्रिया यः सदृशो गुणैःसंसारे लोकमार्गोयं शृणु हुंड यथाविधि ॥१३॥अस्त्येव कारणं चात्र यथा तेन भवाम्यहम्सुभार्या दैत्यराजेंद्र शृणुष्व यतमानसः ॥१४॥वृक्षराजादहं जाता यदा काले महामतेशंभोर्भावं सुसंगृह्य पार्वत्या कल्पिता ह्यहम् ॥१५॥देवस्यानुमते देव्या सृष्टो भर्ता ममैव हिसोमवंशे महाप्राज्ञः स धर्मात्मा भविष्यति ॥१६॥जिष्णुर्जिष्णुसमो वीर्ये तेजसा पावकोपमःसर्वज्ञः सत्यसंधश्च त्यागे वैश्रवणोपमः ॥१७॥यज्वा दानपतिः सोपि रूपेण मन्मथोपमःनहुषोनाम धर्मात्मा गुणशील महानिधिः ॥१८॥देव्या देवेन मे दत्तःख्यातोभर्ताभविष्यतितस्मात्सर्वगुणोपेतं पुत्रमाप्स्यामि सुंदरम् ॥१९॥इंद्रोपेंद्र समं लोके ययातिं जनवल्लभम्लप्स्याम्यहं रणे धीरं तस्माच्छंभोः प्रसादतः ॥२०॥अहं पतिव्रता वीर परभार्या विशेषतःअतस्त्वं सर्वथा हुंड त्यज भ्रांतिमितो व्रज ॥२१॥प्रहस्यैव वचो ब्रूते अशोकसुंदरीं प्रतिहुंड उवाच-नैव युक्तं त्वया प्रोक्तं देव्या देवेन चैव हि ॥२२॥नहुषोनाम धर्मात्मा सोमवंशे भविष्यतिभवती वयसा श्रेष्ठा कनिष्ठो न स युज्यते ॥२३॥कनिष्ठा स्त्री प्रशस्ता तु पुरुषो न प्रशस्यतेकदा स पुरुषो भद्रे तव भर्ता भविष्यति ॥२४॥तारुण्यं यौवनं चापि नाशमेवं प्रयास्यतियौवनस्य बलेनापि रूपवत्यः सदा स्त्रियः ॥२५॥पुरुषाणां वल्लभत्वं प्रयांति वरवर्णिनितारुण्यं हि महामूलं युवतीनां वरानने ॥२६॥तस्या धारेण भुंजंति भोगान्कामान्मनोनुगान्कदा सोभ्येष्यते भद्रे आयोः पुत्रः शृणुष्व मे ॥२७॥यौवनं वर्ततेऽद्यैव वृथा चैव भविष्यतिगर्भत्वं च शिशुत्वं च कौमारं च निशामय ॥२८॥कदासौ यौवनोपेतस्तव योग्यो भविष्यतियौवनस्य प्रभावेन पिबस्व मधुमाधवीम् ॥२९॥मया सह विशालाक्षि रमस्व त्वं सुखेन वैहुंडस्य वचनं श्रुत्वा शिवस्य तनया पुनः ॥३०॥उवाच दानवेंद्रं तं साध्वसेन समन्विताअष्टाविंशतिके प्राप्ते द्वापराख्ये युगे तदा ॥३१॥शेषावतारो धर्मात्मा वसुदेवसुतो बलःरेवतस्य सुतां दिव्यां भार्यां स च करिष्यति ॥३२॥सापि जाता महाभाग कृताख्ये हि युगोत्तमेयुगत्रयप्रमाणेन सा हि ज्येष्ठा बलादपि ॥३३॥बलस्य सा प्रिया जाता रेवती प्राणसंमिताभविष्यद्वापरे प्राप्त इह सा तु भविष्यति ॥३४॥मायावती पुरा जाता गंधर्वतनया वराअपहृत्य नियम्यैव शंबरो दानवोत्तमः ॥३५॥तस्या भर्ता समाख्यातो माधवस्य सुतो बलीप्रद्युम्नो नाम वीरेशो यादवेश्वरनंदनः ॥३६॥तस्मिन्युगे भविष्येत भाव्यं दृष्टं पुरातनैःव्यासादिभिर्महाभागैर्ज्ञानवद्भिर्महात्मभिः ॥३७॥एवं हि दृश्यते दैत्य वाक्यं देव्या तदोदितम्मां प्रति हि जगद्धात्र्या पुत्र्या हिमवतस्तदा ॥३८॥त्वं तु लोभेन कामेन लुब्धो वदसि दुष्कृतम्किल्बिषेण समाजुष्टं वेदशास्त्रविवर्जितम् ॥३९॥यद्यस्यदिष्टमेवास्ति शुभं वाप्यशुभं दृढम्पूर्वकर्मानुसारेण तत्तस्य परिजायते ॥४०॥देवानां ब्राह्मणानां च वदने यत्सुभाषितम्निःसरेद्यदि सत्यं तदन्यथा नैव जायते ॥४१॥मद्भाग्यादेवमाज्ञातं नहुषस्यापि तस्य चसमायोगं विचार्यैवं देव्या प्रोक्तं शिवेन च ॥४२॥एवं ज्ञात्वा शमं गच्छ त्यज भ्रांतिं मनःस्थिताम्नैव शक्तो भवान्दैत्य मे मनश्चालितुं ध्रुवम् ॥४३॥पतिव्रता दृढा चित्ते स को मे चालितुं क्षमःमहाशापेन धक्ष्यामि इतो गच्छ महासुर ॥४४॥एवमाकर्ण्य तद्वाक्यं हुंडो वै दानवो बलीमनसा चिंतयामास कथं भार्या भवेदियम् ॥४५॥विचिंत्य हुंडो मायावी अंतर्धानं समागतःततो निष्क्रम्य वेगेन तस्मात्स्थानाद्विहाय ताम्अन्यस्मिन्दिवसे प्राप्ते मायां कृत्वा तमोमयीम् ॥४६॥दिव्यं मायामयं रूपं कृत्वा नार्यास्तु दानवःमायया कन्यका रूपो बभूव मम नंदन ॥४७॥सा कन्यापि वरारोहा मायारूपागमत्ततःहास्यलीला समायुक्ता यत्रास्ते भवनंदिनी ॥४८॥उवाच वाक्यं स्निग्धेव अशोकसुंदरीं प्रतिकासि कस्यासि सुभगे तिष्ठसि त्वं तपोवने ॥४९॥किमर्थं क्रियते बाले कामशोषणकं तपःतन्ममाचक्ष्व सुभगे किंनिमित्तं सुदुष्करम् ॥५०॥तन्निशम्य शुभं वाक्यं दानवेनापि भाषितम्मायारूपेण छन्नेन साभिलाषेण सत्वरम् ॥५१॥आत्मसृष्टि सुवृत्तांतं प्रवृत्तं तु यथा पुरातपसः कारणं सर्वं समाचष्ट सुदुःखिता ॥५२॥उपप्लवं तु तस्यापि दानवस्य दुरात्मनःमायारूपं न जानाति सौहृदात्कथितं तया ॥५३॥हुंड उवाच-पतिव्रतासि हे देवि साधुव्रतपरायणासाधुशीलसमाचारा साधुचारा महासती ॥५४॥अहं पतिव्रता भद्रे पतिव्रतपरायणातपश्चरामि सुभगे भर्तुरर्थे महासती ॥५५॥मम भर्ता हतस्तेन हुंडेनापि दुरात्मनातस्य नाशाय वै घोरं तपस्यामि महत्तपः ॥५६॥एहि मे स्वाश्रमे पुण्ये गंगातीरे वसाम्यहम्अन्यैर्मनोहरैर्वाक्यैरुक्ता प्रत्ययकारकैः ॥५७॥हुंडेन सखिभावेन मोहिता शिवनंदिनीसमाकृष्टा सुवेगेन महामोहेन मोहिता ॥५८॥आनीतात्मगृहं दिव्यमनौपम्यं सुशोभनम्मेरोस्तु शिखरे पुत्र वैडूर्याख्यं पुरोत्तमम् ॥५९॥अस्ति सर्वगुणोपेतं कांचनाख्यं महाशिवम्तुंगप्रासादसंबाधैः कलशैर्दंडचामरैः ॥६०॥नानवृक्षसमोपेतैर्वनैर्नीलैर्घनोपमैःवापीकूपतडागैश्च नदीभिस्तु जलाशयैः ॥६१॥शोभमानं महारत्नैः प्राकारैर्हेमसंयतैःसर्वकामसमृद्धार्थं संपूर्णं दानवस्य हि ॥६२॥ददृशे सा पुरं रम्यमशोकसुंदरी तदाकस्य देवस्य संस्थानं कथयस्व सखे मम ॥६३॥सोवाच दानवेंद्रस्य दृष्टपूर्वस्य वै त्वयातस्य स्थानं महाभागे सोऽहं दानवपुंगवः ॥६४॥मया त्वं तु समानीता मायया वरवर्णिनितामाभाष्य गृहं नीता शातकौंभं सुशोभनम् ॥६५॥नानावेश्मैः समाजुष्टं कैलासशिखरोपमम्निवेश्य सुंदरीं तत्र दोलायां कामपीडितः ॥६६॥पुनः स्वरूपी दैत्येंद्रः कामबाणप्रपीडितःकरसंपुटमाबध्य उवाच वचनं तदा ॥६७॥यं यं त्वं वांछसे भद्रे तं तं दद्मि न संशयःभज मां त्वं विशालाक्षि भजंतं कामपीडितम् ॥६८॥श्रीदेव्युवाच-नैव चालयितुं शक्तो भवान्मां दानवेश्वरःमनसापि न वै धार्यं मम मोहं समागतम् ॥६९भवादृशैर्महापापैर्देवैर्वा दानवाधमैः॥दुष्प्राप्याहं न संदेहो मा वदस्व पुनः पुनः ॥७०॥स्कंदानुजा सा तपसाभियुक्ता जाज्वल्यमाना महता रुषा चसंहर्तुकामा परि दानवं तं कालस्य जिह्वेव यथा स्फुरंती ॥७१॥पुनरुवाच सा देवी तमेवं दानवाधमम्उग्रं कर्म कृतं पाप चात्मनाशनहेतवे ॥७२॥आत्मवंशस्य नाशाय स्वजनस्यास्य वै त्वयादीप्ता स्वगृहमानीता सुशिखा कृष्णवर्त्मनः ॥७३॥यथाऽशुभः कूटपक्षी सर्वशोकैः समुद्गतःगृहं तु विशते यस्य तस्य नाशं प्रयच्छति ॥७४॥स्वजनस्य च सर्वस्य सधनस्य कुलस्य चस द्विजो नाशमिच्छेत विशत्येव यदा गृहम् ॥७५॥तथा तेहं गृहं प्राप्ता तव नाशं समीहतीपुत्राणां धनधान्यस्य तव वंशस्य सांप्रतम् ॥७६॥जीवं कुलं धनं धान्यं पुत्रपौत्रादिकं तवसर्वं ते नाशयित्वाहं यास्यामि च न संशयः ॥७७॥यथा त्वयाहमानीता चरंती परमं तपःपतिकामा प्रवांच्छंती नहुषं चायुनंदनम् ॥७८॥तथा त्वां मम भर्ता च नाशयिष्यति दानवमन्निमित्तउपायोऽयं दृष्टो देवेन वै पुरा ॥७९॥सत्येयं लौकिकी गाथा यां गायंति विदो जनाःप्रत्यक्षं दृश्यते लोके न विंदंति कुबुद्धयः ॥८०॥येन यत्र प्रभोक्तव्यं यस्माद्दुःखसुखादिकम्स एव भुंजते तत्र तस्मादेव न संशयः ॥८१॥कर्मणोस्य फलं भुंक्ष्व स्वकीयस्य महीतलेयास्यसे निरयस्थानं परदाराभिमर्शनात् ॥८२॥सुतीक्ष्णं हि सुधारं तु सुखड्गं च विघट्टतिअंगुल्यग्रेण कोपाय तथा मां विद्धि सांप्रतम् ॥८३॥सिंहस्य संमुखं गत्वा क्रुद्धस्य गर्जितस्य चको लुनाति मुखात्केशान्साहसाकारसंयुतः ॥८४॥सत्याचारां दमोपेतां नियतां तपसि स्थिताम्निधनं चेच्छते यो वै स वै मां भोक्तुमिच्छति ॥८५॥समणिं कृष्णसर्पस्य जीवमानस्य सांप्रतम्गृहीतुमिच्छते सो हि यथा कालेन प्रेषितः ॥८६॥भवांस्तु प्रेषितो मूढ कालेन कालमोहितःतदा ते ईदृशी जाता कुमतिः किं नपश्यसि ॥८७॥ऋते तु आयुपुत्रेण समालोकयते हि कःअन्यो हि निधनं याति ममरूपावलोकनात् ॥८८॥एवमाभाषयित्वा तं गंगातीरं गता सतीसशोका दुःखसंविग्ना नियतानि यमान्विता ॥८९॥पूर्वमाचरितं घोरं पतिकामनया तपःतव नाशार्थमिच्छंती चरिष्ये दारुणं पुनः ॥९०॥यदा त्वां निहतं दुष्टं नहुषेण महात्मनानिशितैर्वज्रसंकाशैर्बाणैराशीविषोपमैः ॥९१॥रणे निपतितं पाप मुक्तकेशं सलोहितम्गतासुं च प्रपश्यामि तदा यास्याम्यहं पतिम् ॥९२॥एवं सुनियमं कृत्वा गंगातीरमनुत्तमम्संस्थिता हुंडनाशाय निश्चला शिवनंदिनी ॥९३॥वह्नेर्यथादीप्तिमती शिखोज्ज्वला तेजोभियुक्ता प्रदहेत्सुलोकान्क्रोधेन दीप्ता विबुधेशपुत्री गंगातटे दुश्चरमाचरत्तपः ॥९४॥कुंजल उवाच-एवमुक्ता महाभाग शिवस्य तनया गतागंगांभसि ततः स्नात्वा स्वपुरे कांचनाह्वये ॥९५॥तपश्चचार तन्वंगी हुंडस्य वधहेतवेअशोकसुंदरी बाला सत्येन च समन्विता ॥९६॥हुंडोपि दुःखितोभूतः शापदग्धेन चेतसाचिंतयामास संतप्त अतीव वचनानलैः ॥९७॥समाहूय अमात्यं तं कंपनाख्यमथाब्रवीत्समाचष्ट स वृत्तांतं तस्याः शापोद्भवं महत् ॥९८॥शप्तोस्म्यशोकसुंदर्या शिवस्यापि सुकन्ययानहुषस्यापि मे भर्त्तुस्त्वं तु हस्तान्मरिष्यसि ॥९९॥नैव जातस्त्वसौ गर्भ आयोर्भार्या च गुर्विणीयथा सत्याद्व्यलीकस्तु तस्याः शापस्तथा कुरु ॥१००॥कंपन उवाच-अपहृत्य प्रियां तस्य आयोश्चापि समानयअनेनापि प्रकारेण तव शत्रुर्न जायते ॥१०१॥नो वा प्रपातयस्व त्वं गर्भं तस्याः प्रभीषणैःअनेनापि प्रकारेण तव शत्रुर्न जायते ॥१०२॥जन्मकालं प्रतीक्षस्व नहुषस्य दुरात्मनःअपहृत्य समानीय जहि त्वं पापचेतनम् ॥१०३॥एवं संमंत्र्य तेनापि कंपनेन स दानवःअभूत्स उद्यमोपेतो नहुषस्य प्रणाशने ॥१०४॥विष्णुरुवाच-एलपुत्रो महाभाग आयुर्नाम क्षितीश्वरःसार्वभौमः स धर्मात्मा सत्यव्रतपरायणः ॥१०५॥इंद्रोपेंद्रसमो राजा तपसा यशसा बलैःदानयज्ञैः सुपुण्यैश्च सत्येन नियमेन च ॥१०६॥एकच्छत्रेण वै राज्यं चक्रे भूपतिसत्तमःपृथिव्यां सर्वधर्मज्ञः सोमवंशस्य भूषणम् ॥१०७॥पुत्रं न विंदते राजा तेन दुःखी व्यजायतचिंतयामास धर्मात्मा कथं मे जायते सुतः ॥१०८॥इति चिंतां समापेदे आयुश्च पृथिवीपतिःपुत्रार्थं परमं यत्नमकरोत्सुसमाहितः ॥१०९॥अत्रिपुत्रो महात्मा वै दत्तात्रेयो महामुनिःक्रीडमानः स्त्रिया सार्द्धं मदिरारुणलोचनः ॥११०॥वारुण्या मत्त धर्मात्मा स्त्रीवृंदैश्च समावृतःअंके युवतिमाधाय सर्वयोषिद्वरां शुभाम् ॥१११॥गायते नृत्यते विप्रः सुरां च पिबते भृशम्विना यज्ञोपवीतेन महायोगीश्वरोत्तमः ॥११२॥पुष्पमालाभिर्दिव्याभिर्मुक्ताहारपरिच्छदैःचंदनागुरुदिग्धांगो राजमानो मुनीश्वरः ॥११३॥तस्याश्रमं नृपो गत्वा तं दृष्ट्वा द्विजसत्तमम्प्रणाममकरोन्मूर्ध्ना दण्डवत्सुसमाहितः ॥११४॥अत्रिपुत्रः स धर्मात्मा समालोक्य नृपोत्तमम्आगतं पुरतो भक्त्या अथ ध्यानं समास्थितः ॥११५॥एवं वर्षशतं प्राप्तं तस्य भूपस्य सत्तमनिश्चलं शांतिमापन्नं मानसं भक्तितत्परम् ॥११६॥समाहूय उवाचेदं किमर्थं क्लिश्यसे नृपब्रह्माचारेण हीनोस्मि ब्रह्मत्वं नास्ति मे कदा ॥११७॥सुरामांसप्रलुब्धोऽस्मि स्त्रियासक्तः सदैव हिवरदाने न मे शक्तिरन्यं शुश्रूष ब्राह्मणम् ॥११८॥आयुरुवाच-भवादृशो महाभाग नास्ति ब्राह्मणसत्तमःसर्वकामप्रदाता वै त्रैलोक्ये परमेश्वरः ॥११९॥अत्रिवंशे महाभाग गोविंदः परमेश्वरःब्राह्मणस्य स्वरूपेण भवान्वै गरुडध्वजः ॥१२०॥नमोऽस्तु देवदेवेश नमोऽस्तु परमेश्वरत्वामहं शरणं प्राप्तः शरणागतवत्सल ॥१२१॥उद्धरस्व हृषीकेश मायां कृत्वा प्रतिष्ठसिविश्वस्थानां प्रजानां तु विद्वांसं विश्वनायकम् ॥१२२॥जानाम्यहं जगन्नाथं भवंतं मधुसूदनम्मामेव रक्ष गोविंद विश्वरूप नमोस्तु ते ॥१२३॥कुंजल उवाच-गते बहुतिथे काले दत्तात्रेयो नृपोत्तमम्उवाच मत्तरूपेण कुरुष्व वचनं मम ॥१२४॥कपाले मे सुरां देहि पाचितं मांसभोजनम्एवमाकर्ण्य तद्वाक्यं स चायुः पृथिवीपतिः ॥१२५॥उत्सुकस्तु कपालेन सुरामाहृत्य वेगवान्पलं सुपाचितं चैव च्छित्त्वा हस्तेन सत्वरम् ॥१२६॥नृपेंद्रः प्रददौ चापि दत्तात्रेयाय सत्तमअथ प्रसन्नचेताः स संजातो मुनिपुंगवः ॥१२७॥दृष्ट्वा भक्तिं प्रभावं च गुरुशुश्रूषणं परम्समुवाच नृपेंद्रं तमायुं प्रणतमानसम् ॥१२८॥वरं वरय भद्रं ते दुर्लभं भुवि भूपतेसर्वमेव प्रदास्यामि यंयमिच्छसि सांप्रतम् ॥१२९॥राजोवाच-भवान्दाता वरं सत्यं कृपया मुनिसत्तमपुत्रं देहि गुणोपेतं सर्वज्ञं गुणसंयुतम् ॥१३०॥देववीर्यं सुतेजं च अजेयं देवदानवैःक्षत्रियै राक्षसैर्घोरैर्दानवैः किन्नरैस्तथा ॥१३१॥देवब्राह्मणसंभक्तः प्रजापालो विशेषतःयज्वा दानपतिः शूरः शरणागतवत्सलः ॥१३२॥दाता भोक्ता महात्मा च वेदशास्त्रेषु पंडितःधनुर्वेदेषु निपुणः शास्त्रेषु च परायणः ॥१३३॥अनाहतमतिर्धीरः संग्रामेष्वपराजितःएवं गुणः सुरूपश्च यस्माद्वंशः प्रसूयते ॥१३४॥देहि पुत्रं महाभाग ममवंशप्रधारकम्यदि चापि वरो देयस्त्वया मे कृपया विभो ॥१३५॥दत्तात्रेय उवाच-एवमस्तु महाभाग तव पुत्रो भविष्यतिगृहे वंशकरः पुण्यः सर्वजीवदयाकरः ॥१३६॥एभिर्गुणैस्तु संयुक्तो वैष्णवांशेन संयुतःराजा च सार्वभौमश्च इंद्रतुल्यो नरेश्वरः ॥१३७॥एवं खलु वरं दत्वा ददौ फलमनुत्तमम्भूपमाह महायोगी सुभार्यायै प्रदीयताम् ॥१३८॥एवमुक्त्वा विसृज्यैव तमायुं प्रणतं पुरःआशीर्भिरभिनंद्यैव अंतर्द्धानमधीयत ॥१३९॥इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे त्र्यधिकशततमोऽध्यायः ॥१०३॥ N/A References : N/A Last Updated : October 29, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP