संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ५३

भूमिखंडः - अध्यायः ५३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सुकलोवाच-
एवं धर्मं श्रुतं पूर्वं पुराणेषु तदा मया
पतिहीना कथं भोगं करिष्ये पापनिश्चया ॥१॥
कांतेन तु विना तेन जीवं काये न धारये
विष्णुरुवाच-
एवमुक्त्वा परं धर्मं पतिव्रतमनुत्तमम् ॥२॥
तास्तु सख्यो वरा नार्यो हर्षेण महतान्विताः
श्रुत्वा धर्मं परं पुण्यं नारीणां गतिदायकम् ॥३॥
स्तुवंति तां महाभागां सुकलां धर्मवत्सलाम्
ब्राह्मणाश्च सुराः सर्वे पुण्यस्त्रियो नरोत्तम ॥४॥
तस्या ध्यानं प्रकुर्वंति पतिकामप्रभावतः
अत्यर्थं दृढतामिंद्र सुःविचिंत्य सुरेश्वरः ॥५॥
सुकलायाः परं भावं सुविचार्यामरेश्वरः
चालये धैर्यमस्याश्च पतिस्नेहं न संशयः ॥६॥
सस्मार मन्मथं देवं त्वरमाणः सुराधिपः
पुष्पचापं स संगृह्य मीनकेतुः समागतः ॥७॥
प्रियया च तया युक्तो रत्या दृष्टमहाबलः
बद्धांजलिपुटो भूत्वा सहस्राक्षमुवाच सः ॥८॥
कस्मादहं त्वया नाथ अधुना संस्मृतो विभो
आदेशो दीयतां मेद्य सर्वभावेन मानद ॥९॥
इंद्र उवाच-
सुकलेयं महाभागा पतिव्रतपरायणा
शृणुष्व कामदेव त्वं कुरु साहाय्यमुत्तमम् ॥१०॥
निष्कर्षय महाभागां सुकलां पुण्यमंगलाम्
तच्छ्रुत्वा वचनं तस्य शक्रस्य तमथाब्रवीत् ॥११॥
एवमस्तु सहस्राक्ष करिष्यामि न संशयः
साहाय्यं देवदेवेश तव कौतुककारणात् ॥१२॥
एवमुक्त्वा महातेजाः कंदर्पो मुनिदुर्जयः
देवाञ्जेतुं समर्थोऽहं समुनीनृषिसत्तमान् ॥१३॥
किं पुनः कामिनीं देव यस्या अंगे न वै बलम्
कामिनीनामहं देव अंगेषु निवसाम्यहम् ॥१४॥
भाले कुचेषु नेत्रेषु कचाग्रेषु च सर्वदा
नाभौ कट्यां पृष्ठदेशे जघने योनिमंडले ॥१५॥
अधरे दंतभागेषु कक्षायां हि न संशयः
अंगेष्वेवं प्रत्यंगेषु सर्वत्र निवसाम्यहम् ॥१६॥
नारी मम गृहं देव सदा तत्र वसाम्यहम्
तत्रस्थः पुरुषान्सर्वान्मारयामि न संशयः ॥१७॥
स्वभावेनाबलादेव संतप्ता मम मार्गणैः
पितरं मातरं दृष्ट्वा अन्यं स्वजनबांधवम् ॥१८॥
सुरूपं सगुणं देव मम बाणा हता सती
चलते नात्र संदेहो विपाकं नैव चिंतयेत् ॥१९॥
योनिः स्पंदेत नारीणां स्तनाग्रौ च सुरेश्वर
नास्ति धैर्यं सुरेशान सुकलां नाशयाम्यहम् ॥२०॥
इंद्र उवाच-
पुरुषोहं भविष्यामि रूपवान्गुणवान्धनी
कौतुकार्थमिमां नारीं चालयामि मनोभव ॥२१॥
नैव कामान्न संत्रासान्न वा लोभान्न कारणात्
न वै मोहान्न वै क्रोधात्सत्यं सत्यं रतिप्रिय ॥२२॥
कथं मे दृश्यते तस्या महत्सत्यं पतिव्रतम्
निष्कर्षिष्य इतो गत्वा भवन्मोहोत्र कारणम् ॥२३॥
एवं कामं च संदिश्य जगाम सुरराट्स्वयम्
आत्मविकृतिसंभूतो रूपवान्गुणवान्स्वयम् ॥२४॥
सर्वाभरणशोभांगः सर्वभोगसमन्वितः
भोगलीलासमाकीर्णः सर्वदौदार्यसंयुतः ॥२५॥
यत्र सा तिष्ठते देवी कृकलस्य प्रिया नृप
आत्मलीलां स्वरूपं च गुणं भावं प्रदर्शयेत् ॥२६॥
नैव पश्यति सा तं तु पुरुषं रूपसंपदम्
यत्रयत्र व्रजेत्सा हि तत्र तां पश्यते नृप ॥२७॥
साभिलाषेण मनसा तामेवं परिपश्यति
कामचेष्टां सहस्राक्षोऽदर्शयत्सर्वभावकैः ॥२८॥
चतुष्पथे पथे तीर्थे यत्र देवी प्रयाति सा
तत्रतत्र सहस्राक्षस्तामेव परिपश्यति ॥२९॥
इंद्रेण प्रेषिता दूती सुकलां प्रति सा गता
सुकलां सुमहाभागां प्रत्युवाच प्रहस्य वै ॥३०॥
अहो सत्यमहोधैर्यमहो कांतिरहो क्षमा
अस्या रूपेण संसारे नास्ति नारी वरानना ॥३१॥
का त्वं भवसि कल्याणि कस्य भार्या भविष्यसि
यस्य त्वं सगुणा भार्या स धन्यः पुण्यभाग्भुवि ॥३२॥
तस्यास्तु वचनं श्रुत्वा तामुवाच मनस्विनी
वैश्यजात्यां समुत्पन्नो धर्मात्मा सत्यवत्सलः ॥३३॥
तस्याहं हि प्रिया भार्या सत्यसंधस्य धीमतः
कृकलस्यापि वैश्यस्य सत्यमेव वदामि ते ॥३४॥
मम भर्ता स धर्मात्मा तीर्थयात्रां गतः सुधीः
तस्मिन्गते महाभागे मम भर्तरि संप्रति ॥३५॥
अतिक्रांताः शृणुष्व त्वं त्रयश्चैवापि वत्सराः
ततोहं दुःखिता जाता विना तेन महात्मना ॥३६॥
एतत्ते सर्वमाख्यातमात्मवृत्तांतमेव ते
भवती पृच्छते मां का भविष्यति वदस्व मे ॥३७॥
सुकलाया वचः श्रुत्वा दूत्या आभाषितं पुनः
मामेवं पृच्छसे भद्रे तत्ते सर्वं वदाम्यहम् ॥३८॥
अहं तवांतिकं प्राप्ता कार्यार्थं वरवर्णिनि
श्रूयतामभिधास्यामि श्रुत्वा चैवाव धार्यताम् ॥३९॥
गतस्ते निर्घृणो भर्ता त्वां त्यक्त्वा तु वरानने
किं करिष्यसि तेनापि प्रियाघातकरेण च ॥४०॥
यस्त्वां त्यक्त्वा गतः पापी साध्व्याचारसमन्विताम्
किं वा स ते गतो बाले तत्र जीवति वै मृतः ॥४१॥
किं करिष्यति तेनैवं भवती खिद्यते वृथा
कस्मान्नाशयते चांगं दिव्यं हेमसमप्रभम् ॥४२॥
बाल्ये वयसि संप्राप्ते मानवो न च विंदति
एकं सुखं महाभागे बालक्रीडां विना शुभे ॥४३॥
वार्द्धके दुःखसंप्राप्तिर्जरा कायं प्रहिंसयेत्
तारुण्ये भुज्यते भोगः सुखात्सर्वो वरानने ॥४४॥
यावत्तिष्ठति तारुण्यं तावद्भुंजंति मानवाः
सुखभोगादिकं सर्वं स्वेच्छया रमते नरः ॥४५॥
यावत्तिष्ठति तारुण्यं तावद्भोगान्प्रभुंजते
वयस्यपि गते भद्रे तारुण्ये किं करिष्यति ॥४६॥
संप्राप्ते वार्द्धके देवि किंचित्कार्यं न सिध्यति
स्थविरश्चिंतयेन्नित्यं सुखकार्यं न गच्छति ॥४७॥
वयस्यपि गते बाले क्रियते सेतुबंधनम्
तादृशोयं भवेत्कायस्तारुण्ये तु गते शुभे ॥४८॥
तस्माद्भुंक्ष्व सुखेनापि पिबस्व मधुमाधवीम्
कामाबाणा दहंत्यंगं तवेमे चारुलोचने ॥४९॥
अयमेकः समायातः पुरुषो रूपवान्गुणी
अयं हि पुरुषव्याघ्रः सर्वज्ञो गुणवान्धनी ॥५०॥
तवार्थे नित्यसंयुक्तः स्नेहेन वरवर्णिनि
सुकलोवाच-
बाल्यं नास्त्यपि जीवस्य तारुण्यं नास्ति जीविते ॥५१॥
वृद्धत्वं नास्ति चैवास्य स्वयंसिद्धः सुसिद्धिदः
अमरो निर्जरो व्यापी सुसिद्धः सर्ववित्तमः ॥५२॥
अकामः कामदो लोके आत्मरूपेण वर्तते
यथा गेहस्य संस्थानं तथा कायस्य दृश्यते ॥५३॥
यथा वार्द्धकिना कायस्तथा सूत्रेण मंदिरम्
अनेककाष्ठसंघातैर्नाना दारुसमुच्चयैः ॥५४॥
मृत्तिकयोदकेनापि समंतात्परिणामयेत्
लिपितं लेपकैः काष्ठं चित्रं भवति चित्रकैः ॥५५॥
प्रथमं रूपमायाति गृहं सूत्रेण सूत्रितम्
पुष्णंति च स्वयं तत्तु लेपनाद्वै दिने दिने ॥५६॥
वायुनांदोलितं नित्यं गृहं च मलिनायते
मध्यमो वर्तुतः कालो गृहस्य परिकथ्यते ॥५७॥
रूपहानिर्भवेत्तस्य गृहस्वामी विलेपयेत्
स्वेच्छया च गृहस्वामी रूपवत्त्वं नयेद्गृहम् ॥५८॥
तारुण्यं तस्य गेहस्य दूतिके परिकथ्यते
काष्ठसंघैश्च जीर्णत्वं बहुकालैः प्रयाति सः ॥५९॥
स्थानभ्रष्टाः प्रजायंते मूलाग्रे प्रचलंति ते
न सहेल्लेपनाभारमाधारेण प्रतिष्ठति ॥६०॥
एतद्गृहस्य वार्द्धक्यं कथितं शृणु दूतिके
पतमानं गृहं दृष्ट्वा गृहस्वामी परित्यजेत् ॥६१॥
गृहमन्यं प्रवेशाय प्रयात्येव हि सत्वरम्
तथा बाल्यं च तारुण्यं नृणां वृद्धत्वमेव च ॥६२॥
स बाल्ये बालरूपश्च ज्ञानहीनं प्रकारयेत्
चित्रयेत्कायमेवापि वस्त्रालंकारभूषणैः ॥६३॥
लेपनैश्चंदनैश्चान्यैस्तांबूलप्रभवादिभिः
कायस्तरुणतां याति अतिरूपो विजायते ॥६४॥
बाह्याभ्यंतरमेवापि रसैः सर्वैः प्रपोषयेत्
तेन पोषणभावेन परिपुष्टः प्रजायते ॥६५॥
जायते मांसवृद्धिस्तु रसैश्चापि नवोत्तमा
यांति विस्तरतां राजन्नंगान्याप्यायितान्यपि ॥६६॥
प्रत्यंगानि रसैश्चैव स्वंस्वं रूपं प्रयांति वै
दंताधरौ स्तनौ बाहू कटिपृष्ठमुरू उभे ॥६७
हस्तपादतलौ तद्वद्वृद्धित्वं प्रतिपेदिरे
उभाभ्यामपि तान्येव वृद्धिमायांति तानि वै ॥६८॥
अंगानि रसमांसाभ्यां सुरूपाणि भवंति ते
तैः स्वरूपैर्भवेन्मर्त्यो रसबद्धश्च दूतिके ॥६९॥
सुरूपः कथ्यते मर्त्यो लोके केन प्रियो भवेत्
विष्ठामूत्रस्य वै कोशः काय एष च दूतिके ॥७०॥
अपवित्रशरीरोयं सदा स्रवति निर्घृणः
तस्य किं वर्ण्यते रूपं जलबुद्बुदवच्छुभे ॥७१॥
यावत्पंचाशद्वर्षाणि तावत्तिष्ठति वै दृढः
पश्चाच्च जायते हानिस्तस्यैवापि दिनेदिने ॥७२॥
दंताः शिथिलतां यांति तथा लालायते मुखम्
चक्षुर्भ्यामपि पश्येन्न कर्णाभ्यां न शृणोति च ॥७३॥
गतिं कर्तुं न शक्नोति हस्तपादैश्च दूतिके
अक्षमो जायते कायो जराकालेन पीडितः ॥७४॥
तद्रसः शोषमायाति जराग्नितापशोषितः
अक्षमो जायते दूति केन रूपत्वमिष्यते ॥७५॥
यथा जीर्णं गृहं याति क्षयमेवं न संशयः
तथा संक्षयमायाति वार्द्धके तु कलेवरम् ॥७६॥
ममरूपं समायातं वर्णस्येवं दिने दिने
केनाहं रूपसंयुक्ता केन रूपत्वमिष्यते ॥७७॥
यथा जीर्णं गृहं याति केनासौ पुरुषो बली
यस्यार्थमागता दूति भवती केन शंसति ॥७८॥
किमु चैव त्वया दृष्टं ममांगे वद सांप्रतम्
तस्यांगादिह हीनं च दूति नास्त्यधिकं तथा ॥७९॥
यथा त्वं च तथासौवै तथाहं नात्र संशयः
कस्य रूपं न विद्येत रूपवान्नास्ति भूतले ॥८०॥
उच्छ्रायाः पतनांताश्च नगास्तु गिरयः शुभे
कालेन पीडिता यांति तद्वद्भूताश्च नान्यथा ॥८१॥
अरूपो रूपवान्दिव्य आत्मा सर्वगतः शुचिः
स्थावरेष्वेव सर्वेषु जंगमेषु च दूतिके ॥८२॥
एको निवसते शुद्धो घटेष्वेकं यथोदकम्
घटनाशात्प्रयात्येकमेकत्वं त्वं न बुध्यसे ॥८३॥
पिंडनाशादयं चात्मा एकरूपो विजायते
एकं रूपं मया दृष्टं संसारे वसता सदा ॥८४॥
एवं वद स्वतं ज्ञात्वा यस्यार्थमिह चागता
दर्शयस्व अपूर्वं मे यदि भोक्तुमिहेच्छसि ॥८५॥
व्याधिना पीड्यमानस्य कफेनापि वृतस्य च
अंगाद्विचलते शोणः स्थानभ्रष्टोभिजायते ॥८६॥
अंगसंधिषु सर्वासु पलत्वं चांतरं गतः
एकतो नाशमायाति स्वं हि रूपं परित्यजेत् ॥८७॥
विष्ठात्वं जायते शीघ्रं कृमिभिश्च भवेत्किल
तद्वद्दुःखकरं वापि निजरूपं परित्यजेत् ॥८८॥
श्रूयतां जायते पश्चात्कृमिदुर्गंधसंकुलम्
जायंते तत्र वै यूकाः कृमयो वा न संशयः ॥८९॥
सकृमिः कुरुते स्फोटं कंडूं च परिदारुणाम्
व्यथामुत्पादयेद्यूका सर्वांगं परिचालयेत् ॥९०॥
नखाग्रैर्घृष्यमाणा सा कंडूः शांता प्रजायते
तद्वत्तैश्च शृणुष्वैव सुरतस्य न संशयः ॥९१॥
भुंजत्येव रसान्मर्त्यः सुभिक्षान्पिबते पुनः
वायुना तेन प्राणेन पाकस्थानं प्रणीयते ॥९२॥
यद्भक्तं प्राणिभिर्दूति पाकस्थानं गतं पुनः
सर्वं तत्पिहितं तत्र वायुर्वै पातयेन्मलम् ॥९३॥
सारभूतो रसस्तत्र तद्रक्तश्च प्रजायते
निर्मलः शुद्धवीर्यस्तु ब्रह्मस्थानं प्रयाति च ॥९४॥
आकृष्टः स समानेन नीतस्तेनापि वायुना
स्थानं न लभते वीर्यं चंचलत्वेन वर्तते ॥९५॥
प्राणिनां हि कपालेषु कृमयः संति पंच वै
द्वावेतौ कर्णमूले तु नेत्रस्थाने ततः पुनः ॥९६॥
कनिष्ठांगुलिमानेन रक्तपुच्छाश्च दूतिके
नवनीतस्य वर्णेन कृष्णपुच्छा न संशयः ॥९७॥
तेषां नामापि भद्रे त्वं मत्तो निगदितं शृणु
पिंगली शृंखली नाम द्वौ कृमी कर्णमूलयोः ॥९८॥
चपलः पिप्पलश्चैव द्वावेतौ नासिकाग्रयोः
शृंगली जंगली चान्यौ नेत्रयोरंतरस्थितौ ॥९९॥
कृमीणां शतपंचाशत्तादृग्भूता न संशयः
भालांतेवस्थिताः सर्वे राजिकायाः प्रमाणतः ॥१००॥
कपालरोगिणः सर्वे विकुर्वंति न संशयः
केशद्वयं मुखे तस्य विद्यते शृणु दूतिके ॥१०१॥
प्राणिनां संक्षयं विद्धि तत्क्षणे हि न संशयः
स्वस्थाने संस्थितस्यापि प्राजापत्यस्य वै मुखे ॥१०२॥
तद्वीर्यं रसरूपेण पतते नात्र संशयः
मुखेन पिबते वीर्यं तेन मत्तः प्रजायते ॥१०३॥
तालुमध्यप्रदेशे च चंचलत्वेन वर्तते
इडा च पिंगला नाडी सुषुम्णाख्या च संस्थिता ॥१०४॥
सुबलेनापि तस्यैव नाडिका जालपंजरे
कामकंडूर्भवेद्दूति सर्वेषां प्राणिनां किल ॥१०५॥
पुंसश्च स्फुरते लिंगं नार्या योनिश्च दूतिके
स्त्रीपुंसौ संप्रमत्तौ तु व्रजतः संगमं ततः ॥१०६॥
कायेन कायसंघृष्टिर्मैथुनेन हि जायते
क्षणमात्रं सुखं काये पुनः कंडूश्च तादृशी ॥१०७॥
सर्वत्र दृश्यते दूति भाव एवंविधः किल
व्रज त्वमात्मनः स्थानं नैवास्त्यत्र अपूर्वता ॥१०८॥
अपूर्वं नास्ति मे किंचित्करोम्येव न संशयः ॥१०९॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे त्रिपंचाशत्तमोऽध्यायः ॥५३॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP