संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः ४० भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः ४० भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ४० Translation - भाषांतर वेन उवाच-नित्यदानफलं देव त्वत्तः पूर्वं मया श्रुतम्नैमित्तिकस्य दानस्य दत्तस्यापि हि यत्फलम् ॥१॥तत्फलं मे समाचक्ष्व त्वत्प्रसादात्प्रयत्नतःमहातृप्तिं न गच्छामि श्रोतुं श्रद्धा प्रवर्तते ॥२॥विष्णुरुवाच-नैमित्तिकं प्रवक्ष्यामि दानमेव नृपोत्तममहापर्वणि संप्राप्ते येन दानानि श्रद्धया ॥३॥सत्पात्रेभ्यः प्रदत्तानि तस्य पुण्यफलं शृणुगजं रथं प्रदत्ते यो ह्यश्वं चापि नृपोत्तम ॥४॥स च भृत्यैस्तु संयुक्तः पुण्यदेशे नृपोत्तमःजायते हि महाराज मत्प्रसादान्न संशयः ॥५॥राजा भवति धर्मात्मा ज्ञानवान्बलवान्सुधीःअजेयः सर्वभूतानां महातेजाः प्रजायते ॥६॥महापर्वणि संप्राप्ते भूमिदानं ददाति यःगोदानं वा महाराज सर्वभोगपतिर्भवेत् ॥७॥ब्राह्मणाय सुपुण्याय दानं दद्यात्प्रयत्नतःमहादानानि यो दद्यात्तीर्थे पर्वणि पात्रवित् ॥८॥तेषां चिह्नं प्रवक्ष्यामि भूपतित्वं प्रजायतेतीर्थे पर्वणि संप्राप्ते गुप्तदानं ददाति यः ॥९॥निधीनामाशुसंप्राप्तिरक्षरा परिजायतेमहापर्वणि संप्राप्ते तीर्थेषु ब्राह्मणाय च ॥१०॥सुचैलं च महादानं कांचनेन समन्वितम्पुण्यं फलं प्रवक्ष्यामि तस्य दानस्य भूपते ॥११॥जायंते बहवः पुत्राः सुगुणा वेदपारगाःआयुष्मंतः प्रजावंतो यशः पुण्यसमन्विताः ॥१२॥विपुलाश्चैव जायंते स्फीता लक्ष्मीर्महामतेसौख्यं च लभते पुण्यं धर्मवान्परिजायते ॥१३॥महापर्वणि संप्राप्ते तीर्थे गत्वा प्रयत्नतःकपिलां कांचनीं दद्याद्ब्राह्मणाय महात्मने ॥१४॥तस्य पुण्यं प्रवक्ष्यामि दानस्य च महामतेकपिलादो महाराज सर्वसौख्यान्प्रभुंजति ॥१५॥यावद्ब्रह्मा प्रजीवेत्स तावत्तिष्ठति तत्र सःमहापर्वणि संप्राप्ते अलंकृत्य च गां तदा ॥१६॥कांचनेनापि संयुक्तां वस्त्रालंकारभूषणैःतस्य दानस्य राजेंद्र फलभोगं वदाम्यहम् ॥१७॥विपुला जायते लक्ष्मीर्दानभोगसमाकुलासर्वविद्यापतिर्भूत्वा विष्णुभक्तो भवेत्किल ॥१८॥विष्णुलोके वसेन्मर्त्यो यावत्तिष्ठति मेदिनीतीर्थं गत्वा तु यो दद्याद्ब्राह्मणाय विभूषणम् ॥१९॥भुक्त्वा तु विपुलान्भोगानिन्द्रेण क्रीडते सहमहापर्वणि संप्राप्ते वस्त्रं च द्विजपुंगवे ॥२०॥दत्त्वान्नं भूमिसंयुक्तं पात्रे श्रद्धासमन्वितःमोदते स तु वैकुंठे विष्णुतुल्यपराक्रमः ॥२१॥सवस्त्रं कांचनं दत्त्वा द्विजाय परिशांतयेस्वेच्छया अग्निसदृशो वैकुंठे स वसेत्सुखी ॥२२॥सुवर्णस्य सुकुंभं च घृतेन परिपूरयेत्पिधानं रौप्यं कर्तव्यं वस्त्रहारैरलंकृतम् ॥२३॥पुष्पमालान्वितं कुर्याद्ब्रह्मसूत्रेण शोभितम्प्रतिष्ठितं वेदमंत्रैस्तं संपूज्य महामते ॥२४॥उपचारैः पवित्रैश्च षोडशैः परिपूजयेत्स्वलंकृत्य ततो दद्याद्ब्राह्मणाय महात्मने ॥२५॥षोडशैव ततो गावः सवस्त्राः कांस्यदोहनाःकुंभयुक्ताश्च चत्वारो दक्षिणां च सकांचनाम् ॥२६॥तथा द्वादशका गावो वस्त्रालंकारभूषणाःपृथग्भूताय विप्राय दातव्या नात्र संशयः ॥२७॥एवमादीनि दानानि अन्यानि नृपनंदनतीर्थकालं सुसंप्राप्य विप्रावसथमेव च ॥२८॥श्रद्धाभावेन दातव्यं बहुपुण्यकरं भवेत्विष्णुरुवाच-विष्णुमुद्दिश्य यद्दानं कामनापरिकल्पितम् ॥२९॥तस्य दानस्य भावेन भावनापरिभावितःतादृक्फलं समश्नाति मानुषो नात्र संशयः ॥३०॥अभ्युदयं प्रवक्ष्यामि यज्ञादिषु प्रवर्ततेतेन दानेन तस्यापि श्रद्धया च द्विजोत्तम ॥३१॥प्रज्ञावृद्धिं समाप्नोति न च दुःखं प्रविंदतिभोगान्भुनक्ति धर्मात्मा जीवमानस्तु सांप्रतम् ॥३२॥ऐंद्रांस्तु भुंक्ते भोगान्स दाता दिव्यां गतिं गतःस्वकुलं नयते स्वर्गं कल्पानां च सहस्रकम् ॥३३॥एवमाभ्युदयं प्रोक्तं प्राप्तं तेषु वदाम्यहम्कायस्य च क्षयं ज्ञात्वा जरया परिपीडितः ॥३४॥दानं तेन प्रदातव्यमाशां कस्य न कारयेत्मृते च मयि मे पुत्रा अन्ये स्वजनबांधवाः ॥३५॥कथमेते भविष्यंति मां विना सुहृदो ममतेषां मोहात्प्रमुग्धो वै न ददाति स किंचन ॥३६॥मृत्युं प्रयाति मोहात्मा रुदंति मित्रबांधवाःदुःखेन पीडिताः सर्वे मायामोहेन पीडिताः ॥३७॥संकल्पयंति दानानि मोक्षं वै चिंतयंति चतस्मिन्मृते महाराज मायामोहे गते सति ॥३८॥विस्मरंति च दानानि लोभात्मानो ददंति नयोऽसौ मृतो महाराज यमपंथं सुदुःखितः ॥३९॥तृषाक्षुधासमाक्रांतो बहुदुःखैः प्रपीडितःतस्माद्दानं प्रदातव्यं स्वयमेव न संशयः ॥४०॥कस्य पुत्राश्च पौत्राश्च कस्य भार्या नृपोत्तमसंसारे नास्ति कः कस्य तस्माद्दानं प्रदीयते ॥४१॥ज्ञानवता प्रदातव्यं स्वयमेव न संशयःअन्नं पानं च तांबूलमुदकं कांचनं तथा ॥४२॥युग्मं वस्त्रं च छत्रं च स्वयमेव न संशयःजलपात्राण्यनेकानि सोदकानि नृपोत्तम ॥४३॥वाहनानि विचित्राणि यानान्येव महामतेनानागंधान्सकर्पूरं यमपंथ सुखप्रदे ॥४४॥उपानहौ प्रदातव्ये यदीच्छेद्विपुलं सुखम्एतैर्दानैर्महाराज यमपंथं सुखेन वै ॥४५॥प्रयाति मानवो राजन्यमदूतैरलंकृतम् ॥४६॥इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे वेनोपाख्याने चत्वारिंशोऽध्यायः ॥४०॥ N/A References : N/A Last Updated : October 26, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP