संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः २२

भूमिखंडः - अध्यायः २२

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


व्यास उवाच-
प्रश्नमेकं महाभाग करिष्ये सांप्रतं वद
त्वयैव पूर्वमुक्तं हि सुव्रतं च प्रतीश्वरम् ॥१॥
पूर्वाभ्यासेन संध्यायन्नारायणमनामयम्
कस्यां ज्ञात्यां समुत्पन्नः सुव्रतः पूर्वजन्मनि ॥२॥
तन्मे त्वं सांप्रतं ब्रूहि कथमाराधितो हरिः
अनेनापि स देवेश कोयं पुण्यसमाविलः ॥३॥
ब्रह्मोवाच-
वैदिशे नगरे पुण्ये सर्वऋद्धिसमाकुले
तत्र राजा महातेजा ऋतध्वजसुतो बली ॥४॥
तस्यात्मजो महाप्राज्ञो रुक्मभूषणविश्रुतः
संध्यावली तस्य भार्या धर्मपत्नी यशस्विनी ॥५॥
तस्यां पुत्रं समुत्पाद्य स आत्मसदृशं ततः
तस्य धर्मांगदं नाम चकार नृपनंदनः ॥६॥
सर्वलक्षणसंपन्नः पितृभक्तिपरायणः
रुक्मांगदस्य तनयो योयं भगवतां वरः ॥७॥
पितुः सौख्याय येनापि मोहिन्यै तु शिरो ददे
वैष्णवेन च धर्मेण पितृभक्त्या तु तस्य हि ॥८॥
सुप्रसन्नो हृषीकेशः सकायो वैष्णवं पदम्
नीतस्तु सर्वधर्मज्ञो वैष्णवः सात्वतां वरः ॥९॥
धर्मांगदो महाप्राज्ञः प्रज्ञाज्ञानविशारदः
तत्रस्थो वै महाप्राज्ञो धर्मोसौ धर्मभूषणः ॥१०॥
दिव्यान्मनोनुगान्भोगान्मोदमानः प्रभुंजति
पूर्णे युगसहस्रांते धर्मो वै धर्मभूषणः ॥११॥
तस्मात्पदात्परिभ्रष्टो विष्णोश्चैव प्रसादतः
सुव्रतो नाम मेधावी सुमनानंदवर्द्धनः ॥१२॥
सोमशर्मस्य तनयः श्रेष्ठो भगवतां वरः
तपश्चचार मेधावी विष्णुध्यानपरोभवत् ॥१३॥
कामक्रोधादिकान्दोषान्परित्यज्य द्विजोत्तमः
संयम्यचैन्द्रियं वर्गं तपस्तेपे निरंतरम् ॥१४॥
वैडूर्यपर्वतश्रेष्ठे सिद्धेश्वरस्य सन्निधौ
एकीकृत्य मनश्चायं संयोज्य विष्णुना सह ॥१५॥
एवं वर्षशतं स्थित्वा ध्यानेनास्य महात्मनः
सुप्रसन्नो जगन्नाथः शंखचक्रगदाधरः ॥१६॥
तस्मै वरं ददावन्यं सलक्ष्म्या सह केशवः
भोभोः सुव्रत धर्मात्मन्बुध्यस्व विबुधांवर ॥१७॥
वरं वरय भद्रं ते कृष्णोऽहं ते समागतः
एवमाकर्ण्य मेधावी विष्णोर्वाक्यमनुत्तमम् ॥१८॥
हर्षेण महताविष्टो दृष्ट्वा देवं जनार्दनम्
बद्धांजलिपुटो भूत्वा प्रणाममकरोत्तदा ॥१९॥
सुव्रत उवाच-
संसारसागरमतीव महासुदुःखजालोर्मिभिर्विविधमोहचयैस्तरंगैः
संपूर्णमस्ति निजदोषगुणैस्तु प्राप्तस्तस्मात्समुद्धर जनार्दनमाशुदीनम् ॥२०॥
कर्मांबुदे महति गर्जतिवर्षतीव विद्युल्लतोल्लसतिपातकसंचयैर्मे
मोहांधकारपटलैर्मम नास्ति दृष्टिर्दीनस्य तस्य मधुसूदन देहि हस्तम् ॥२१॥
संसारकाननघनं बहुदुःखवृक्षैः संसेव्यमानमपि मोहमयैश्च सिंहैः
संदीप्तमस्ति करुणाबहुवह्नितेजः संतप्यमानमनिशं परिपाहि कृष्ण ॥२२॥
संसारवृक्षमतिजीर्णमपीह उच्चं मायासुकंदकरुणा बहुदुःखशाखम्
जायादिसंगच्छदनं फलितं मुरारे तत्राधिरूढपतितं भगवन्हि रक्ष ॥२३॥
दुःखानलैर्विविधमोहमयैः सुधूमैः शोकैर्वियोगमरणांतिक सन्निभैश्च
दग्धोस्मि कृष्ण सततं मम देहि मोक्षं ज्ञानांबुदैः समभिषिंच सदैव मां त्वम् ॥२४॥
घोरांधकारपटले महतीव गर्ते संसारनाम्निपतितं सततं हि कृष्ण
त्वं सत्कृपो मम हि दीनभयातुरस्य तस्माद्विरज्यशरणं तव आगतोस्मि ॥२५॥
त्वामेव ये नियतमानसभावयुक्ता ध्यायंति ज्ञानमनसा पदवीं लभंते
नत्वैव पादयुगलं च महासुपुण्यं यद्देवकिन्नरगणाः परिचिंतयंति ॥२६॥
नान्यं वदामि न भजामि न चिंतयामि त्वत्पादपद्मयुगलं सततं नमामि
कामं त्वमेव मम पूरय मेद्य कृष्ण दूरेण यातु मम पातकसंचयस्ते ॥२७॥
दासोस्मि देव तव किंकरजन्मजन्म त्वत्पादपद्मयुगलं सततं स्मरामि ॥२८॥
यदि कृष्ण प्रसन्नोसि देहि मे सुवरं प्रभो
मन्मातापितरौ कृष्ण सकायौ मंदिरे नय ॥२९॥
आत्मनश्च महादेव मयासह न संशयः
श्रीकृष्ण उवाच-
एवं ते परमं कार्यं भविष्यति न संशयः ॥३०॥
तस्य तुष्टो हृषीकेशो भक्त्या तस्य प्रतोषितः
प्रयातौ वैष्णवं लोकं दाहप्रलयवर्जितौ ॥३१॥
सुव्रतेन समं तौ द्वौ सुमना सोमशर्मकौ
यावत्कल्पद्वयं प्राप्तं तावत्स सुव्रतो द्विजः ॥३२॥
बुभुजे बुभुजे दिव्याँल्लोकांश्चैव महामते
देवकार्यार्थमत्रैव काश्यपस्य गृहं पुनः ॥३३॥
अवतीर्णो महाप्राज्ञो वचनात्तस्य चक्रिणः
ऐंद्रं पदं हि यो भुंक्ते विष्णोश्चैव प्रसादतः ॥३४॥
वसुदत्तेति विख्यातः सर्वदेवैर्नमस्कृतः
ऐंद्रं पदं हि यो भुंक्ते सांप्रतं वासवो दिवि ॥३५॥
एतत्ते सर्वमाख्यातं सृष्टिसंबंधकारणम्
अन्यदेवं प्रवक्ष्यामि यदेव परिपृच्छसि ॥३६॥
व्यास उवाच-
धर्माङ्गदो महाप्राज्ञो रुक्माङ्गदसुतो बली
आद्ये कृतयुगे जातः सृष्टिकाले स वासवः ॥३७॥
तत्कथं देवदेवेश अन्यो धर्माङ्गदो भुवि
अन्यो रुक्मांङ्गदो राजा किं चायं त्रिदशाधिपः ॥३८॥
एतन्मे संशयं जातं तद्भवान्वक्तुमर्हति
ब्रह्मोवाच-
हंत ते कथयिष्यामि सर्वसंदेहनाशनम् ॥३९॥
देवस्य लीलासृष्ट्यर्थे वर्तते द्विजसत्तम
यथा वाराश्च पक्षाश्च मासाश्च ऋतवो यथा ॥४०॥
संवत्सराश्च मनवस्तथा यांति युगाः पुनः
पश्चात्कल्पः समायाति व्रजाम्येवं जनार्दनम् ॥४१॥
अहमेव महाप्राज्ञ मयि यांति चराचराः
पुनः सृजति योगात्मा पूर्ववद्विश्वमेव हि ॥४२॥
पुनरहं पुनर्वेदाः पुनस्ते देवता द्विजाः
तथा भूपाश्च ते सर्वे स्वचरित्रसमाविलाः ॥४३॥
प्रभवंति महाभाग विद्वांस्तत्र न मुह्यति
पूर्वकल्पे महाभागो यथा रुक्मांगदो नृपः ॥४४॥
तथा धर्मांगदश्चायं संजातः ख्यातिमान्द्विजः
रामादयो महाप्राज्ञा ययातिर्नहुषस्तथा ॥४५॥
मन्वादयो महात्मानः प्रभवंति लयंति च
ऐंद्रं पदं प्रभुंजंति राजानो धर्मतत्पराः ॥४६॥
यथा धर्मांगदो वीरः प्रभुंजति महत्पदम्
एवं वेदाश्च देवाश्च पुराणाः स्मृतिपूर्वकाः ॥४७॥
एतत्तु सर्वमाख्यातं तवाग्रे द्विजसत्तम
चरितं सुव्रतस्याथ पुण्यं सुगतिदायकम् ॥४८॥
अव्यक्तं तु महाभाग प्रब्रवीमि तवाग्रतः ॥४९॥

इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे ऐंद्रे सुव्रतो-पाख्यानंनाम द्वाविंशोऽध्यायः ॥२२॥

N/A

References : N/A
Last Updated : October 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP