संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ४२

भूमिखंडः - अध्यायः ४२

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


द्विचत्वारिंशत्तमोऽध्यायः
सख्य ऊचुः-
सुदेवा का त्वया प्रोक्ता किमाचारा वदस्व नः
त्वया प्रोक्तं महाभागे वद नः सत्यमेव च ॥१॥
सुकलोवाच-
अयोध्यायां महाराजः स आसीद्धर्मकोविदः
मनुपुत्रो महाभागः सर्वधर्मार्थतत्परः ॥२॥
इक्ष्वाकुर्नाम सर्वज्ञो देवब्राह्मणपूजकः
तस्य भार्या सदा पुण्या पतिव्रतपरायणा ॥३॥
तया सार्द्धं यजेद्यज्ञं तीर्थानि विविधानि च
वेदराजस्य वीरस्य काशीशस्य महात्मनः ॥४॥
सुदेवा नाम वै कन्या सत्याचारपरायणा
उपयेमे महाराज इक्ष्वाकुस्तां महीपतिः ॥५॥
सुदेवा चारुसर्वांगी सत्यव्रतपरायणा
तया सार्द्धं स वै राजा जनानां पुण्यनायकः ॥६॥
स रेमे नृपशार्दूलो नित्यं च प्रियया तया
एकदा तु महाराजस्तया सार्द्धं वनं ययौ ॥७॥
गंगारण्यं समासाद्य मृगयां क्रीडते सदा
सिंहान्हत्वा वराहांश्च गजांश्च महिषांस्तथा ॥८॥
क्रीडमानस्य तस्याग्रे वराहश्च समागतः
बहुशूकरयूथेन पुत्रपौत्रैरलंकृतः ॥९॥
एका च शूकरी तस्य प्रियापार्श्वे प्रतिष्ठिता
वराहैः शूकरैस्तस्य तमेव परिवारिता ॥१०॥
दृष्ट्वा च राजराजेंद्रं दुर्जयं मृगयारतम्
पर्वताधारमाश्रित्य भार्यया सह शूकरः ॥११॥
तिष्ठत्येकः सुवीर्येण पुत्रान्पौत्रान्गुरूञ्छिशून्
ज्ञात्वा तेषां महाराज मृगाणां कदनं महत् ॥१२॥
तानुवाच सुतान्पौत्रान्भार्यां तां च स शूकरः
कोशलाधिपतिर्वीरो मनुपुत्रो महाबलः ॥१३॥
क्रीडते मृगयां कांते मृगान्संहरते बहून्
स मां दृष्ट्वा महाराज एष्यते नात्र संशयः ॥१४॥
अन्येषां लुब्धकानां मे नास्ति प्राणभयं ध्रुवम्
ममरूपं नृपो दृष्ट्वा क्षमां नैव करिष्यति ॥१५॥
हर्षेण महताविष्टो बाणपाणिर्धनुर्द्धरः
श्वभिर्युक्तो महातेजा लुब्धकैः परिवारितः ॥१६॥
प्रिये करिष्यते घातं ममाप्येवं न संशयः ॥१७॥
शूकर्युवाच-
यदायदा पश्यसि लुब्धकान्बहून्महावने कांत समायुधान्बहून्
एतैस्तु पुत्रैर्ममपौत्रकैः समं दूरं नु भो यासि पलायमानः ॥१८॥
त्यक्त्वा सुधैर्यं बलपौरुषं महन्महाभयेनापि विषण्णचेतनः
दृष्ट्वा नृपेंद्रं पुरुषोत्तमोत्तमं करोषि किं कांत वदस्वकारणम् ॥१९॥
तस्यास्तु वाक्यं सनिशम्य कोल उवाच तां शूकरराजउत्तरम्
यदर्थभीतोस्मि सुलुब्धकात्प्रिये दृष्ट्वा गतो दूर निशम्यशूकरान् ॥२०॥
सुलुब्धकाः पापकराः शठाः प्रिये कुर्वंति पापं गिरिदुर्गकंदरे
सदैव दुष्टा बहुपापचिंतका जाताश्च सर्वे परिपापिनां कुले ॥२१॥
तेषां हि हस्तान्मरणाद्बिभेमि मृतोपि यास्यामि पुनश्च पापम्
दूरं गिरिं पर्वतकंदरं च व्रजामि कांते अपमृत्युभीतः ॥२२॥
अयं हि पुण्यो नरनाथ आगतो विश्वाधिकः केशवरूप भूपः
युद्धं करिष्ये समरे महात्मना सार्द्धं प्रिये पौरुषविक्रमेण ॥२३॥
जेष्यामि भूपं यदि स्वेन तेजसा भोक्ष्यामि कीर्तिं त्वतुलां पृथिव्याम्
तेनाहतो वीरवरेण संगरे यास्यामि लोकं मधुसूदनस्य ॥२४॥
ममांगभूतेन पलेनमेदसा तृप्तिं परां यास्यति भूमिनाथः
तृप्ता भविष्यंति सुलोकदेवता अस्मादयंचागतो वज्रपाणिः ॥२५॥
अस्यैव हस्तान्मरणं यदाभवेल्लाभश्च मे सुंदरि कीर्तिरुत्तमा
तस्माद्यशो भूमितले जगत्त्रये व्रजामि लोकं मधुसूदनस्य ॥२६॥
नैवं भीतोस्मि क्षुब्धोस्मि गतोऽहं गिरिसानुषु
पापाद्भीतो गतः कांतेधर्मं दृष्ट्वा स्थितोह्यहम् ॥२७॥
न जाने पातकं पूर्वमन्यजन्मनि चार्जितम्
येनाहं शौकरीं योनिं गतोऽहं पापसंचयात् ॥२८॥
क्षालयिष्याम्यहं घोरं पूर्वपातकसंचयम्
बाणोदकैर्महाघोरैः सुतीक्ष्णैर्निशितैः शतैः ॥२९॥
पुत्रान्पौत्रांस्तु वाराहि कन्यां कुटुंबबालकम्
गिरिं गच्छ गृहीत्वा तु मम मोहमिमं त्यज ॥३०॥
ममस्नेहं परित्यज्य हरिरेष समागतः
अस्य हस्तात्प्रयास्यामि तद्विष्णोः परमं पदम् ॥३१॥
दैवेनापि ममाद्यैव स्वर्गद्वारमनुत्तमम्
उद्घाटितकपाटं तु यास्यामि सुमहादिवम् ॥३२॥
सुकलोवाच-
तच्छ्रुत्वा वचनं तस्य शूकरस्य महात्मनः
उवाच तत्प्रिया सख्यः सीदमानांतरा तदा ॥३३॥
शूकर्युवाच-
यस्मिन्यूथे भवान्स्वामी पुत्रपौत्रैरलंकृतः
मित्रैश्च भ्रातृभिश्चैव अन्यैः स्वजनबांधवैः ॥३४॥
त्वयैवालंकृतो यूथो भवता परिशोभते
त्वां विनायं महाभाग कीदृग्यूथो भविष्यति ॥३५॥
तवैव स्वबलेनापि गर्जमानाश्च शूकराः
विचरंति गिरौ कांत तनया मम बालकाः ॥३६॥
कंदान्मूलान्सुभक्षंति निर्भयास्तव तेजसा
दुर्गेषु वनकुंजेषु ग्रामेषु नगरेषु च ॥३७॥
न कुर्वंति भयं तीव्रं सिंहानामिह पर्वते
मनुष्याणां महाबाहो पालितास्तव तेजसा ॥३८॥
त्वया त्यक्ता अमी सर्वे बालका मम दारकाः
दीनाश्चैवाकुलाश्चैव भविष्यंति विचेतनाः ॥३९॥
नित्यमेव सुखं वर्त्म गत्वा पश्यंति बालकाः
पतिहीना यथा नारी शोभते नैव शोभना ॥४०॥
अलंकृता यथा दिव्यैरलंकारैः सकांचनैः
परिच्छदै रत्नवस्त्रैः पितृमातृसहोदरैः ॥४१॥
श्वश्रूश्वशुरकैश्चान्यैः पतिहीना न भाति सा
चंद्रहीना यथा रात्री पुत्रहीनं यथा कुलम् ॥४२॥
दीपहीनं यथा गेहं नैव भाति कदाचन
त्वां विनायं तथा यूथो नैव शोभेत मानद ॥४३॥
आचारेण विना मर्त्यो ज्ञानहीनो यतिर्यथा
मंत्रहीनो यथा राजा तथायं नैव शोभते ॥४४॥
कैवर्तेन विना नौर्वा संपूर्णा परिसागरे
न भात्येवं यथा सार्थः सार्थवाहेन वै विना ॥४५॥
सेनाध्यक्षेण च विना यथा सैन्यं न भाति च
त्वां विना वै तथा सैन्यं शूकराणां महामते ॥४६॥
दीनो भविष्यति तथा वेदहीनो यथा द्विजः
मयि भारं कुटुंबस्य विनिवेश्य प्रगच्छसि ॥४७॥
मरणं सुलभं ज्ञात्वा का प्रतिज्ञा तवेदृशी
त्वां विनाहं न शक्नोमि धर्तुं प्राणान्प्रियेश्वर ॥४८॥
त्वयैव सहिता स्वर्गं भूमिं वाथ महामते
नरकं वापि भोक्ष्यामि सत्यंसत्यं वदाम्यहम् ॥४९॥
त्वं वा पुत्रांस्तुपौत्रांस्तु गृहीत्वा यूथमुत्तमम्
आवां व्रजाव यूथेश दुर्गमेवं सुकंदरम् ॥५०॥
जीवितव्यं परित्यज्य रणाय परिगम्यते
तत्र को दृश्यते लाभो मरणे वद सांप्रतम् ॥५१॥
वाराह उवाच-
वीराणां त्वं न जानासि सुधर्मं शृणु सांप्रतम्
युद्धार्थिना हि वीरेण वीरं गत्वा प्रयाचितम् ॥५२॥
देहि मे योधनं संख्ये युद्धार्थ्यहं समागतः
परेण याचितं युद्धं न ददाति यदा नरः ॥५३॥
कामाल्लोभाद्भयाद्वापि मोहाद्वा शृणु वल्लभे
कुंभीपाके तु नरके वसेद्युगसहस्रकम् ॥५४॥
क्षत्रियाणां परो धर्मो युद्धं देयं न संशयः
तद्युद्धं दीयमानेन रणभूमिगतेन वै ॥५५॥
निर्जितं तु परं तत्र यशःकीर्त्तिं प्रभुंजते
स वा हतो युध्यमानः पौरुषेणातिनिर्भयः ॥५६॥
वीरलोकमवाप्नोति दिव्यान्भोगान्प्रभुंजते
यावद्वर्षसहस्राणां विंशत्येकां प्रिये शृणु ॥५७॥
वीरलोके वसेत्तावद्देवाचारैर्महीयते
मनुपुत्रः समायात अयं वीरो न संशयः ॥५८॥
संग्रामं याचमानस्तु युद्धं देयं मया ध्रुवम्
युद्धातिथिः समायातो विष्णुरूपः सनातनः ॥५९॥
सत्कारो युद्धरूपेण कर्तव्यश्च मया शुभे
शूकर्युवाच-
यदा युद्धं त्वया देयं राज्ञे चैव महात्मने ॥६०॥
ततोऽहं पौरुषं कांत पश्यामि तव कीदृशम्
एवमुक्त्वा प्रियान्पुत्रान्समाहूय त्वरान्विता ॥६१॥
उवाच पुत्रका यूयं शृणुध्वं वचनं मम
युद्धातिथिः समायातो विष्णुरूपः सनातनः ॥६२॥
मया तत्र प्रगंतव्यं यत्रायं हि गमिष्यति
यावत्तिष्ठति वै नाथो भवतां प्रतिपालकः ॥६३॥
यूयं गच्छत वै दूरं दुर्गं गिरिगुहामुखम्
सुखं जीवत मे वत्सा वर्जयित्वा सुलुब्धकान् ॥६४॥
मया तत्रैव गंतव्यं यत्रैष हि गमिष्यति
भवतां श्रेष्ठोऽयं भ्राता यूथरक्षां करिष्यति ॥६५॥
एते पितृव्यकाः सर्वे भवतां त्राणकारकाः
दूरं प्रयात वै सर्वे मां विहाय सुपुत्रकाः ॥६६॥
पुत्रा ऊचुः-
अयं हि पर्वतश्रेष्ठो बहुमूलफलोदकः
भयं तु कस्य वै नास्ति सुखं जीवनमस्ति वै ॥६७॥
युवाभ्यां हि अकस्माद्वै इदमुक्तं भयंकरम्
तन्नो हि कारणं मातर्वद सत्यमिहैव हि ॥६८॥
शूकर्युवाच-
अयं राजा महारौद्रः कालरूपः समागतः
क्रीडते मृगया लुब्धो मृगान्हत्वा बहून्वने ॥६९॥
इक्ष्वाकुर्नाम दुर्धर्षो मनुपुत्रो महाबलः
संहरिष्यति कालोऽयं दूरं यात सुपुत्रकाः ॥७०॥
पुत्रा ऊचुः-
मातरं पितरं त्यक्त्वा यः प्रयाति स पापधीः
महारौद्रं सुघोरं तु नरकं प्रतिपद्यते ॥७१॥
मातुः पुण्यं पयः पीत्वा पुष्टो भवति निर्घृणः
मातरं पितरं त्यक्त्वा यः प्रयाति सुदुर्बलः ॥७२॥
पूयं नरकमेतीह कृमिदुर्गंधसंकुलम्
मातुस्तस्मान्न यास्यामो गुरुं त्यक्त्वा इहैव च ॥७३॥
एवं विषादः संजातस्तेषां धर्मार्थसंयुतः
व्यूहं कृत्वा स्थिताः सर्वे बलतेजः समाकुलाः ॥७४॥
साहसोत्साहसंपन्नाः पश्यंति नृपनंदनम्
नदंतः पौरुषैर्युक्ताः क्रीडमाना वने तदा ॥७५॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे द्विचत्वारिंशत्तमोऽध्यायः ॥४२॥

N/A

References : N/A
Last Updated : October 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP