संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः १०५

भूमिखंडः - अध्यायः १०५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


कुंजल उवाच-
गता सा नंदनवनं सखीभिः सह क्रीडितुम्
तत्राकर्ण्य महद्वाक्यमप्रियं तु तदा पितुः ॥१॥
चारणानां सुसिद्धानां भाषतां हर्षणेन तु
आयोर्गेहे महावीर्यो विष्णुतुल्यपराक्रमः ॥२॥
भविष्यति सुतश्रेष्ठो हुंडस्यांतं करिष्यति
एवंविधं महद्वाक्यमप्रियं दुःखदायकम् ॥३॥
समाकर्ण्य समायाता पितुरग्रे निवेदितम्
समासेन तया तस्य पुरतो दुःखदायकम् ॥४॥
पितुरग्रे जगादाथ पिता श्रुत्वा स विस्मितः
शापमशोकसुंदर्याः सस्मार च पुराकृतम् ॥५॥
एतस्यार्थे तपस्तेपे सेयं चाशोकसुंदरी
गर्भस्य नाशनायैव इंदुमत्याः स दानवः ॥६॥
विचक्रे उद्यमं दुष्टः कालाकृष्टो दुरात्मवान्
छिद्रान्वेषी ततो भूत्वा इंदुमत्यास्तु नित्यशः ॥७॥
यदा पश्यति तां राज्ञीं रूपौदार्यगुणान्विताम्
दिव्यतेजः समायुक्तां रक्षितां विष्णुतेजसा ॥८॥
दिव्येन तेजसा युक्तां सूर्यबिंबोपमां तु ताम्
तस्याः पार्श्वे महाभाग रक्षणार्थं स्थितः सदा ॥९॥
दूरात्स दानवो दुष्टस्तस्याश्च बहुदर्शयन्
नानाविद्यां महोग्रां च भीषिकां सुविभीषिकाम् ॥१०॥
गर्भस्य तेजसा युक्ता रक्षिता विष्णुतेजसा
भयं न जायते तस्या मनस्येव कदापुनः ॥११॥
विफलो दानवो जात उद्यमश्च निरर्थकः
मनीप्सितं नैव जातं हुंडस्यापि दुरात्मनः ॥१२॥
एवं वर्षशतं पूर्णं पश्यमानस्य तस्य च
प्रसूता सा हि पुत्रं च स्वर्भानोस्तनया तदा ॥१३॥
रात्रावेव सुतश्रेष्ठ तस्याः पुत्रो व्यजायत
तेजसातीव भात्येष यथा सूर्यो नभस्तले ॥१४॥
सूत उवाच-
अथ दासी महादुष्टा काचित्सूतिगृहागता
अशौचाचारसंयुक्ता महामंगलवादिनी ॥१५॥
तस्याः सर्वं समाज्ञाय स हुंडो दानवाधमः
दास्या अंगं प्रविश्यैव प्रविष्टश्चायुमन्दिरे ॥१६॥
महाजने प्रसुप्ते च निद्रयातीवमोहिते
तं पुत्रं देवगर्भाभमपहृत्य बहिर्गतः ॥१७॥
कांचनाख्यपुरे प्राप्तः स्वकीये दानवाधमः
समाहूय प्रियां भार्यां विपुलां वाक्यमब्रवीत् ॥१८॥
वधस्वैनं महापापं बालरूपं रिपुं मम
पश्चात्सूदस्य वै हस्ते भोजनार्थं प्रदीयताम् ॥१९॥
नानाभेदैर्विभेदैश्च पाचयस्व हि निर्घृणम्
सूदहस्तान्महाभागे पश्चाद्भोक्ष्ये न संशयः ॥२०॥
वाक्यमाकर्ण्य तद्भर्तुर्विपुला विस्मिताभवत्
कस्मान्निर्घृणतां याति भर्त्ता मम सुनिष्ठुरः ॥२१॥
सर्वलक्षणसंपन्नं देवगर्भोपमं सुतम्
कस्य कस्मात्प्रभक्ष्येत क्षमाहीनः सुनिर्घृणः ॥२२॥
इत्येवं चिंतयामास कारुण्येन समन्विता
पुनः पप्रच्छ भर्तारं कस्माद्भक्ष्यसि बालकम् ॥२३॥
कस्माद्भवसि संक्रुद्धो अतीव निरपत्रपः
सर्वं मे कारणं ब्रूहि तत्त्वेन दनुजेश्वर ॥२४॥
आत्मदोषं च वृत्तांतं समासेन निवेदितम्
शापमशोकसुंदर्या हुंडेनापि दुरात्मना ॥२५॥
तया ज्ञातं तु तत्सर्वं कारणं दानवस्य वै
वध्योऽयं बालकः सत्यं नो वा भर्त्ता मरिष्यति ॥२६॥
इत्येवं प्रविचार्यैव विपुला क्रोधमूर्च्छिता
मेकलां तु समाहूय सैरंध्रीं वाक्यमब्रवीत् ॥२७॥
जह्येनं बालकं दुष्टं मेकलेऽद्य महानसे
सूदहस्ते प्रदेहि त्वं हुण्डभोजनहेतवे ॥२८॥
मेकला बालकं गृह्य सूदमाहूय चाब्रवीत्
राजादेशं कुरुष्वाद्य पचस्वैनं हि बालकम् ॥२९॥
एवमाकर्णितं तेन सूदेनापि महात्मना
आदाय बालकं हस्ताच्छस्त्रमुद्यम्य चोद्यतः ॥३०॥
एष वै देवदेवस्य दत्तात्रेयस्य तेजसा
रक्षितस्त्वायुपुत्रश्च स जहास पुनः पुनः ॥३१॥
हसंतं तं समालोक्य स सूदः कृपयान्वितः
सैरंध्री च कृपायुक्ता सूदं तं प्रत्यभाषत ॥३२॥
नैष वध्यस्त्वया सूद शिशुरेव महामते
दिव्यलक्षणसंपन्नः कस्य जातः सुसत्कुले ॥३३॥
सूद उवाच-
सत्यमुक्तं त्वया भद्रे वाक्यं वै कृपयान्वितम्
राजलक्षणसंपन्नो रूपवान्कस्य बालकः ॥३४॥
कस्माद्भोक्ष्यति दुष्टात्मा हुंडोऽयं दानवाधमः
येन वै रक्षितो वंशः पूर्वमेव सुकर्मणा ॥३५॥
आपत्स्वपि स जीवेत दुर्गेषु नान्यथा भवेत्
सिंधुवेगेन नीतस्तु वह्निमध्ये गतोऽथवा ॥३६॥
जीवतेनात्र संदेहो यश्च कर्मसहायवान्
तस्माद्धि क्रियते कर्म धर्मपुण्यसमन्वितम् ॥३७॥
आयुष्मंतो नरास्तेन प्रवदंति सुखं ततः
तारकं पालकं कर्म रक्षते जाग्रते हि तत् ॥३८॥
मुक्तिदं जायते नित्यं मैत्रस्थानप्रदायकम्
दानपुण्यान्वितं कर्म प्रियवाक्यसमन्वितम् ॥३९॥
उपकारयुतं यश्च करोति शुभकृत्तदा
तमेव रक्षते कर्म सर्वदैव न संशयः ॥४०॥
अन्ययोनिं प्रयाति स्म प्रेरितः स्वेन कर्मणा
किं करोति पिता माता अन्ये स्वजनबान्धवाः ॥४१॥
कर्मणा निहतो यस्तु न स्युस्तस्य च रक्षणे
सूत उवाच-
येनैव कर्मणा चैव रक्षितश्चायुनंदनः ॥४२॥
तस्मात्कृपान्वितो जातः सूदः कर्मवशानुगः
सैरंध्री च तथा जाता प्रेरिता तस्य कर्मणा ॥४३॥
द्वाभ्यामेव सुतश्चायो रक्षितश्चारुलक्षणः
रात्रावेव प्रणीतोऽसौ तस्माद्गेहान्महाश्रमे ॥४४॥
वशिष्ठस्याश्रमे पुण्ये सैरंध्र्या पुण्यकर्मणा
शुभे पर्णकुटीद्वारे तस्मिन्नेव महाश्रमे ॥४५॥
गता सा स्वगृहं पश्चान्निक्षिप्य बालकोत्तमम्
एणं निपात्य सूदेन पाचितं मांसमेव हि ॥४६॥
भोजयित्वा सुदैत्येंद्रो हुंडो हृष्टोभवत्तदा
शापमशोकसुंदर्या मोघं मेने तदासुरः ॥४७॥
हर्षेण महताविष्टः स हुंडो दानवेश्वरः
कुंजल उवाच-
प्रभाते विमले जाते वशिष्ठो मुनिसत्तमः ॥४८॥
बहिर्गतो हि धर्मात्मा कुटीद्वारात्प्रपश्यति
संपूर्णं बालकं दृष्ट्वा दिव्यलक्षणसंयुतम् ॥४९॥
संपूर्णेंदुप्रतीकाशं सुंदरं चारुलोचनम्
वशिष्ठ उवाच-
पश्यंतु मुनयः सर्वे यूयमागत्य बालकम् ॥५०॥
कस्य केन समानीतं रात्रौ द्वारांगणे मम
देवगंधर्वगर्भाभं राजलक्षणसंयुतम् ॥५१॥
कंदर्पकोटिसंकाशं पश्यंतु मुनयोऽमलम्
महाकौतुकसंयुक्ता हृष्टा द्विजवरास्ततः ॥५२॥
समपश्यन्सुतं ते तु आयोश्चैव महात्मनः
वशिष्ठः स तु धर्मात्मा ज्ञानेनालोक्य बालकम् ॥५३॥
आयुपुत्रं समाज्ञातं चरित्रेण समन्वितम्
वृत्तांतं तस्य दुष्टस्य हुण्डस्यापि दुरात्मनः ॥५४॥
कृपया ब्रह्मपुत्रस्तु समुत्थाय सुबालकम्
कराभ्यामथ गृह्णाति यावद्द्विजो वरोत्तमः ॥५५॥
तावत्पुष्पसुवृष्टिं च चक्रुर्देवाः सुतोपरि
ललितं सुस्वरं गीतं जगुर्गंधर्वकिन्नराः ॥५६॥
ऋषयो वेदमंत्रैस्तु स्तुवंति नृपनंदनम्
वशिष्ठस्तं समालोक्य वरं वै दत्तवांस्तदा ॥५७॥
नहुषेत्येव ते नाम ख्यातं लोके भविष्यति
हुषितो नैव तेनापि बालभावैर्नराधिप ॥५८॥
तस्मान्नहुष ते नाम देवपूज्यो भविष्यसि
जातकर्मादिकं कर्म तस्य चक्रे द्विजोत्तमः ॥५९॥
व्रतदानं विसर्गं च गुरुशिष्यादिलक्षणम्
वेदं चाधीत्य संपूर्णं षडंगं सपदक्रमम् ॥६०॥
सर्वाण्येव च शास्त्राणि अधीत्य द्विजसत्तमात्
वशिष्ठाच्च धनुर्वेदं सरहस्यं महामतिः ॥६१॥
शस्त्राण्यस्त्राणि दिव्यानि ग्राहमोक्षयुतानि च
ज्ञानशास्त्रादिकं न्याय राजनीतिगुणादिकान् ॥६२॥
वशिष्ठादायुपुत्रश्च शिष्यरूपेण भक्तिमान्
एवं स सर्वनिष्पन्नो नाहुषश्चातिसुंदरः ॥६३॥
वशिष्ठस्य प्रसादाच्च चापबाणधरोभवत् ॥६४॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे पंचोत्तरशततमोऽध्यायः ॥१०५॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP