संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ११६

भूमिखंडः - अध्यायः ११६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


कुंजल उवाच-
अशोकसुंदरी पुण्या रंभया सह हर्षिता
नहुषं प्राप्य विक्रांतं तमुवाच तपस्विनी ॥१॥
अहं ते धर्मतः पत्नी देवैर्दिष्टा तपस्विनी
उद्वाहयस्व मां वीर यदि धर्ममिहेच्छसि ॥२॥
सदैव चिंत्यमाना च त्वामहं तपसि स्थिता
भवान्धर्मप्रसादेन मया प्राप्तो नृपोत्तम ॥३॥
नहुष उवाच-
मदर्थे नियता भद्रे यदि त्वं तपसि स्थिता
गुरोर्वाक्यान्मुहूर्तेन तव भर्ता भवाम्यहम् ॥४॥
अनया रंभया सार्द्धमावां गच्छाव भामिनि
समारोप्य रथे तां तु तां रंभां तु मनोरमाम् ॥५॥
तेनैव रथवर्येण वशिष्ठस्याश्रमं प्रति
जगाम लघुवेगेन ताभ्यां सह महायशाः ॥६॥
तमाश्रमगतं विप्रं समालोक्य प्रणम्य च
तया सार्द्धं महातेजा हर्षेण महतान्वितः ॥७॥
यथा युद्धं रणे जातं निहतो दानवाधमः
निवेदयामास सर्वं वशिष्ठाय महात्मने ॥८॥
वशिष्ठोऽपि समाकर्ण्य नहुषस्य विचेष्टितम्
हर्षेण महताविष्ट आशीर्भिरभिनंद्य तम् ॥९॥
तिथौ लग्ने शुभे प्राप्ते तयोस्तु मुनिपुंगवः
विवाहं कारयामास अग्निब्राह्मणसन्निधौ ॥१०॥
आशीर्भिरभिनंद्यैव मिथुनं प्रेषितं पुनः
मातरं पितरं पश्य द्रुतं गत्वा महामते ॥११॥
त्वां च दृष्ट्वा हि ते माता पितासौ तव सुव्रत
हर्षेण वृद्धिमाप्नोतु पर्वणीव तु सागरः ॥१२॥
एवं संप्रेषितो वीरो मुनिना ब्रह्मसूनुना
तेनैव रथवर्येण जगाम लघुविक्रमः ॥१३॥
नमस्कृत्य द्विजेंद्रं तं गतो मातलिना तदा
स्वपुरं पितरं द्रष्टुं तथैव च स्वमातरम् ॥१४॥
सूत उवाच-
अप्सरा मेनिका नाम प्रेषिता दैवतैस्ततः
आयोर्भार्या सुदुःखेन पतिता शोकसागरे ॥१५॥
तामुवाच महाभागां देवीमिंदुमतीं प्रति
मुंच शोकं महाभागे तनयं पश्य सस्नुषम् ॥१६॥
निहत्य दानवं पापं तव पुत्रापहारकम्
समायांतं सभायां च वीरश्रियासमन्वितम् ॥१७॥
सुवृत्तं संगरे तस्य नहुषेण यथा कृतम्
तस्यै निवेदयामास इंदुमत्यै च मेनिका ॥१८॥
मेनिकाया वचः श्रुत्वा हर्षेण महतान्विता
सखि सत्यं ब्रवीषि त्वमित्युवाच सगद्गदम् ॥१९॥
सामृतं सुप्रियं प्रोक्तं मनःप्रोत्साहकारकम्
जीवादिकं मया देयं त्वयि सर्वस्वमेव हि ॥२०॥
एवमाभाष्य तां देवी राजानमिदमब्रवीत्
तव पुत्रो महाबाहुः समायातो हि सांप्रतम् ॥२१॥
आख्याति च महाराज एषा मे वै वराप्सराः
भर्तारमेवमाभाष्य विरराम सुहर्षिता ॥२२॥
समाकर्ण्य नृपेंद्रस्तु तामुवाच प्रियां प्रति
पुरा प्रोक्तं महाभागे मुनिना नारदेन हि ॥२३॥
पुत्रं प्रति न कर्तव्यं दुःखं राजंस्त्वया कदा
तं निहत्य सुवीर्येण दानवं चैष्यते सुतः ॥२४॥
संजातं सत्यमेवं वै मुनिना भाषितं पुरा
अन्यथा वचनं तस्य कथं देवि भविष्यति ॥२५॥
दत्तात्रेयो मुनिश्रेष्ठः साक्षाद्देवो भविष्यति
शुश्रूषितस्त्वया देवि मया च तपसा पुरा ॥२६॥
पुत्ररत्नं तेन दत्तं वैष्णवांशप्रधारकम्
सदा हनिष्यति परं दानवं पापचेतनम् ॥२७॥
सर्वदैत्यप्रहर्ता च प्रजापालो महाबलः
दत्तात्रेयेण मे दत्तो वैष्णवांशः सुतोत्तमः ॥२८॥
एवं संभाष्य तां देवीं राजा चेंदुमतीं तदा
महोत्सवं ततश्चक्रे पुत्रस्यागमनं प्रति ॥२९॥
हर्षेण महताविष्टो विष्णुं सस्मार वै पुनः ॥३०॥
सर्वोपपन्नं सुरवर्गयुक्तमानंदरूपं परमार्थमेकम्
क्लेशापहं सौख्यप्रदं नराणां सद्वैष्णवानामिह मोक्षदं परम् ॥३१॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने षोडशाधिकशततमोऽध्यायः ॥११६॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP