संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः ९८ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः ९८ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ९८ Translation - भाषांतर सूत उवाच-एवमुक्ते शुभे वाक्ये विज्वलेन महात्मनाकुंजलो वदतां श्रेष्ठः स्तोत्रं पुण्यमुदैरयत् ॥१॥ध्यात्वा नत्वा हृषीकेशं सर्वक्लेशविनाशनम्सर्वश्रेयः प्रदातारं हरेः स्तोत्रमुदीरितम् ॥२॥वासुदेवाभिधानं तत्सर्वश्रेयः प्रदायकम्मोक्षद्वारं सुखोपेतं शांतिदं पुष्टिवर्द्धनम् ॥३॥सर्वकामप्रदातारं ज्ञानदं ज्ञानवर्द्धनम्वासुदेवस्य यत्स्तोत्रं विज्वलाय प्रकाशितम् ॥४॥वासुदेवाभिधानं चाप्रमेयं पुण्यवर्द्धनम्सोऽवगम्य पितुः सर्वं विज्वलः पक्षिणांवरः ॥५॥तत्रगंतुंप्रचक्रामपितुःपृष्टंतदानृपएवं गंतुं कृतमतिं विज्वलं ज्ञानपारगम् ॥६॥उवाच पुत्रं धर्मात्मा उपकारसमुद्यतम् ॥७॥कुंजल उवाच-पुत्र तस्य महज्जाने पातकं भूपतेः शृणुयतो गत्वा पठ स्वत्वं सुबाहोश्चोपशृण्वतः ॥८॥यथायथा श्रोष्यति स्तोत्रमुत्तमं तथा तथा ज्ञानमयो भविष्यतिश्रीवासुदेवस्य न संशयो वै तस्य प्रसादात्सुशिवं मयोक्तम् ॥९॥आमंत्र्य स गुरुं पश्चादुड्डीय लघुविक्रमःआनंदकाननं पुण्यं संप्राप्तो विज्वलस्तदा ॥१०॥वृक्षच्छायां समाश्रित्य उपविष्टो मुदान्वितःसमालोक्य स राजानं विमानेनागतं पुनः ॥११॥एष्यत्यसौ कदा राजा सुबाहुः प्रियया सहपातकान्मोचयिष्यामि स्तोत्रेणानेन वै कदा ॥१२॥तावद्विमानः संप्राप्तः किंकिणीजालमंडितःघंटारवसमाकीर्णो वीणावेणुसमन्वितः ॥१३॥गंधर्वस्वरसंघुष्टश्चाप्सरोभिः समन्वितःसर्वकामसमृद्धस्तु अन्नोदकविवर्जितः ॥१४॥तस्मिन्याने स्थितो राजा सुबाहुः प्रियया सहसमुत्तीर्णो विमानात्स सुतार्क्ष्य प्रियया सह ॥१५॥शस्त्रमादाय तीक्ष्णं तु यावत्कृंतति तच्छवम्तावद्धि विज्वलेनापि समाह्वानं कृतं तदा ॥१६॥भो भोः पुरुषशार्दूल देवोपम भवानिदम्करोति निर्घृणं कर्म नृशंसैर्न च शक्यते ॥१७॥कर्तुं पुरुषशार्दूल कोऽयं विधिविपर्ययःदुष्कृतं साहसं कर्म निंद्यं लोकेषु सर्वदा ॥१८॥वेदाचारविहीनं तु कस्मात्प्रारब्धवानि हतन्मे त्वं कारणं सर्वं कथयस्व यथा तथा ॥१९॥इत्येवं भाषितं तस्य विज्वलस्य महात्मनःसमाकर्ण्य महाराजः स्वप्रियां वाक्यमब्रवीत् ॥२०॥प्रिये वर्षशतं भुक्तं मयेदं पापकर्मणाकदा न भाषितं केन यथायं परिभाषते ॥२१॥ममैवं पीड्यमानस्य क्षुधया हृदयं प्रियेनिर्गतं चोत्सुकं कांते शांतिश्चित्ते प्रवर्तते ॥२२॥यावदस्य श्रुतं वाक्यं सर्वदुःखस्य शांतिदम्तावच्चित्ते समाह्लादो वर्तते चारुहासिनि ॥२३॥कोयं देवो नु गंधर्वः सहस्राक्षो भविष्यतिमुनीनां स्याद्वचः सत्यं यदुक्तं मुनिना पुरा ॥२४॥एवमाभाषितं श्रुत्वा प्रियस्यानंतरं प्रियाराजानं प्रत्युवाचाथ भार्या पतिपरायणा ॥२५॥सत्यमुक्तं त्वया नाथ इदमाश्चर्यमुत्तमम्यथा ते वर्तते कांत मम चित्ते तथा पुनः ॥२६॥पक्षिरूपधरः कोऽयं पृच्छते हितकारिवत्एवमाभाषितं श्रुत्वा प्रियायाः पृथिवीपतिः ॥२७॥बद्धांजलिपुटोभूत्वा पक्षिणं वाक्यमब्रवीत्सुबाहुरुवाच-स्वागतं ते महाप्राज्ञ पक्षिरूपधरः प्रभो ॥२८॥शिरसा भार्यया सार्द्धं तव पादांबुजद्वयम्नमस्करोम्यहं पुण्यमस्तु नस्त्वत्प्रसादतः ॥२९॥भवान्कः पक्षिरूपेण पुण्यमेवं प्रभाषतेयादृशं क्रियतेकर्म पूर्वदेहेन सत्तम ॥३०॥सुकृतं दुष्कृतं वापि तदिहैव प्रभुज्यतेअथ तेनात्मकं वृत्तं तस्याग्रे च निवेदितम् ॥३१॥यथोक्तं कुंजलेनापि पित्रा पूर्वं श्रुतं तथाकथयस्वात्मवृत्तांतं भवान्को मां प्रभाषते ॥३२॥सुबाहुं प्रत्युवाचेदं वाक्यं पक्षिवरस्तदाविज्वल उवाच-शुकजात्यां समुत्पन्नः कुंजलोनाम मे पिता ॥३३॥तस्याहं विज्वलो नाम तृतीयस्तु सुतेष्वहम्नाहं देवो न गंधर्वो न च सिद्धो महाभुज ॥३४॥नित्यमेव प्रपश्यामि कर्म चैवं सुदारुणम्कियत्कालं महत्कर्म साहसाकारसंयुतम् ॥३५॥करिष्यसि महाराज तन्मे कथय सांप्रतम्सुबाहुरुवाच-वासुदेवाभिधानं यत्पूर्वमुक्तं हि ब्राह्मणैः ॥३६॥श्रोष्याम्यहं यदा भद्र गतिं स्वां प्राप्नुयां तदापुण्यात्मना भाषितं वै मुनिना संयतात्मना ॥३७॥तदाहं पातकान्मुक्तो भविष्यामि न संशयःविज्वल उवाच-तवार्थे पृच्छितस्तातस्तेन मे कथितं च यत् ॥३८॥तत्तेद्याहं प्रवक्ष्यामि शाश्वतं शृणु सत्तम ॥३९॥ॐअस्य श्रीवासुदेवाभिधानस्य स्तोत्रस्य नारदऋषिरनुष्टुप्छंदःॐकारोदेवता सर्वपातकनाशनार्थे चतुर्वर्गसाधनार्थे च जपे विनियोगःॐनमो भगवते वासुदेवाय इति मंत्रःपावनं परमं पुण्यं वेदज्ञं वेदमंदिरम्विद्याधारं भवाधारं प्रणवं वै नमाम्यहम् ॥४०॥निरावासं निराकारं सुप्रकाशं महोदयम्निर्गुणं गुणसंबद्धं नमामि प्रणवं परम् ॥४१॥महाकांतं महोत्साहं महामोहविनाशनम्आचिन्वंतं जगत्सर्वं गुणातीतं नमाम्यहम् ॥४२॥भाति सर्वत्र यो भूत्वा भूतानां भूतिवर्द्धनःअभयं भिक्षुसंबद्धं नमामि प्रणवं शिवम् ॥४३॥गायत्रीसाम गायंतं गीतं गीतप्रियं शुभम्गंधर्वगीतभोक्तारं प्रणवं प्रणमाम्यहम् ॥४४॥विचारं वेदरूपं तं यज्ञस्थं भक्तवत्सलम्योनिं सर्वस्य लोकस्य ॐकारं प्रणमाम्यहम् ॥४५॥तारकं सर्वभूतानां नौरूपेण विराजितम्संसारार्णवमग्नानां नमामि प्रणवं हरिम् ॥४६॥सर्वलोकेषु वसते एकरूपेण नैकधाधामकैवल्यरूपेण नमामि प्रणवं शिवम् ॥४७॥सूक्ष्मं सूक्ष्मतरं शुद्धं निर्गुणं गुणनायकम्वर्जितं प्राकृतैर्भावैर्वेदस्थानं नमाम्यहम् ॥४८॥देवदैत्यवियोगैश्च वर्जितं तुष्टिभिः सदादैवैश्च योगिभिर्ध्येयं तमोंकारं नमाम्यहम् ॥४९॥व्यापकं विश्ववेत्तारं विज्ञानं परमं शुभम्शिवं शिवगुणं शांतं वंदे प्रणवमीश्वरम् ॥५०॥यस्य मायां प्रविष्टास्तु ब्रह्माद्याश्च सुरासुराःन विंदंति परं शुद्धं मोक्षद्वारं नमाम्यहम् ॥५१॥आनंदकंदाय विशुद्धबुद्धये शुद्धाय हंसाय परावरायनमोऽस्तु तस्मै गणनायकाय श्रीवासुदेवाय महाप्रभाय ॥५२॥श्रीपांचजन्येन विराजमानं रविप्रभेणापि सुदर्शनेनगदाब्जकेनापि विराजमानं प्रभुं सदैनं शरणं प्रपद्ये ॥५३॥यं वेदगुह्यं सगुणं गुणानामाधारभूतं सचराचरस्ययं सूर्यवैश्वानरतुल्यतेजसं तं वासुदेवं शरणं प्रपद्ये ॥५४॥क्षुधानिधानं विमलं सुरूपमानंदमानेन विराजमानम्यं प्राप्य जीवंति सुरादिलोकास्तं वासुदेवं शरणं प्रपद्ये ॥५५॥तमोघनानां स्वकरैर्विनाशं करोति नित्यं परिकर्महेतुःउद्द्योतमानं रविदीप्ततेजसं तं वासुदेवं शरणं प्रपद्ये ॥५६॥यो भाति सर्वत्र रविप्रभावैः करोति शोषं च रसं ददातियः प्राणिनामंतरगः स वायुस्तं वासुदेवं शरणं प्रपद्ये ॥५७॥स्वेच्छानुरूपेण स देवदेवो बिभर्ति लोकान्सकलान्महीपान्संतारणे नौरिव वर्तते यस्तं वासुदेवं शरणं प्रपद्ये ॥५८॥अंतर्गतो लोकमयः सदैव पचत्यसौ स्थावरजंगमानाम्स्वाहामुखो देवगणस्य हेतुस्तं वासुदेवं शरणं प्रपद्ये ॥५९॥रसैः सुपुण्यैः सकलैः सहैव पुष्णाति सौम्यो गुणदश्च लोकेअन्नानि योनिर्मल तेजसैव तं वासुदेवं शरणं प्रपद्ये ॥६०॥अस्त्येव सर्वत्र विनाशहेतुः सर्वाश्रयः सर्वमयः स सर्वःविना हृषीकैर्विषयान्प्रभुंक्ते तं वासुदेवं शरणं प्रपद्ये ॥६१॥जीवस्वरूपेण बिभर्ति लोकांस्ततः स्वमूर्तान्सचराचरांश्चनिष्केवलो ज्ञानमयः सुशुद्धस्तं वासुदेवं शरणं प्रपद्ये ॥६२॥दैत्यांतकं दुःखविनाशमूलं शांतं परं शक्तिमयं विशालम्यं प्राप्य देवा विनयं प्रयांति तं वासुदेवं शरणं प्रपद्ये ॥६३॥सुखं सुखांतं सुखदं सुरेशं ज्ञानार्णवं तं मुनिपं सुरेशम्सत्याश्रयं सत्यगुणोपविष्टं तं वासुदेवं शरणं प्रपद्ये ॥६४॥यज्ञांगरूपं परमार्थरूपं मायान्वितं मापतिमुग्रपुण्यम्विज्ञानमेकं जगतां निवासं तं वासुदेवं शरणं प्रपद्ये ॥६५॥अंभोधिमध्ये शयनं हितस्य नागांगभोगे शयनं विशालेश्रीपादपद्मद्वयमेव तस्य तद्वासुदेवस्य नमामि नित्यम् ॥६६॥पुण्यान्वितं शंकरमेव नित्यं तीर्थैरनेकैः परिसेव्यमानम्तत्पादपद्मद्वयमेव तस्य श्रीवासुदेवस्य अघापहं तत् ॥६७॥पादांबुजं रक्तमहोत्पलाभमंभोजसल्लिंगजयोपयुक्तम्अलंकृतं नूपुरमुद्रिकाभिः श्रीवासुदेवस्य नमामि नित्यम् ॥६८॥देवैः सुसिद्धैर्मुनिभिः सदैव नुतं सुभक्त्या उरगाधिपैश्चतत्पादपंकेरुहमेवपुण्यं श्रीवासुदेवस्य नमामि नित्यम् ॥६९॥यस्यापि पादांभसि मज्जमानाः पूता दिवं यांति विकल्मषास्तेमोक्षं लभंते मुनयः सुतुष्टास्तं वासुदेवं शरणं प्रपद्ये ॥७०॥पादोदकं तिष्ठति यत्र विष्णोर्गंगादितीर्थानि सदैव तत्रपिबंति येद्यापि सपापदेहास्ते यांति शुद्धाः सुगृहं मुरारेः ॥७१॥पादोदकेनाप्यभिषिच्यमाना उग्रैश्च पापैः परिलिप्तदेहाःते यांति मुक्तिं परमेश्वरस्य तस्यैव पादौ सततं नमामि ॥७२॥नैवेद्यमात्रेण सुभक्षितेन सुचक्रिणस्तस्य महात्मनस्तुश्रीवाजपेयस्य फलं लभंते सर्वार्थयुक्ताश्च नरा भवंति ॥७३॥नारायणं तं नरकाधिनाशनं मायाविहीनं सकलं गुणज्ञम्यं ध्यायमानाः सुगतिं प्रयांति तं वासुदेवं शरणं प्रपद्ये ॥७४॥यो वंद्यस्त्वृषिसिद्धचारणगणैर्देवैः सदा पूज्यतेयो विश्वस्य विसृष्टिहेतुकरणे ब्रह्मादिदेवप्रभुःयः संसारमहार्णवे निपतितस्योद्धारको वत्सल-स्तस्यैवापि नमाम्यहं सुचरणौ भक्त्या वरौ पावनौ ॥७५॥यो दृष्टो मखमंडपे सुरगणैः श्रीवामनः सामगःसामोद्गीतकुतूहलः सुरगणैस्त्रैलोक्य एकः प्रभुःकुर्वंतं नयनेक्षणैः शुभकरैर्निष्पापतां तद्बले-स्तस्याहं चरणारविंदयुगलं वंदे परं पावनम् ॥७६॥राजंतं द्विजमंडले मखमुखे ब्रह्मश्रियाशोभितंदिव्येनापि सुतेजसा करमयं यं चेंद्रनीलोपमम्देवानां हितकाम्यया सुतनुजं वैरोचनस्यापि तं-याचंतं मम दीयतां त्रिपदकं वंदे प्रभुं वामनम् ॥७७तं द्रष्टुं रविमंडले मुनिगणैः संप्राप्तवंतं दिवंचंद्रार्कास्तमयांतरे किल पदा संच्छादयंतं तदातस्यैवापि सुचक्रिणः सुरगणाः प्रापुर्लयं सांप्रतं-का ये विश्वविकोशकेतमतुलं नौमि प्रभोर्विक्रमम् ॥७८॥इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रेऽष्टनवतितमोऽध्यायः ॥९८॥ N/A References : N/A Last Updated : October 29, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP