संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ७०

भूमिखंडः - अध्यायः ७०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


मातलिरुवाच-
यमपीडां प्रवक्ष्यामि महातीव्रां सुदारुणाम्
भुंजंति पापिनः सर्वे क्रूरास्ते ब्रह्मघातकाः ॥१॥
क्वचित्पापाः प्रपच्यंते तीव्रेण करिषाग्निना
क्वचित्सिंहैर्वृकैर्व्याघ्रैर्दंशैः कीटैश्च दारुणैः ॥२॥
क्वचिन्महाजलौकोभिः क्वचिदाजगरैः पुनः
मक्षिकाभिश्च रौद्राभिः क्वचित्सर्पैर्विषोल्बणैः ॥३॥
मत्तमातंगयूथैश्च बलोत्कृष्टैः प्रमाथिभिः
पंथानमुल्लिखद्भिश्च तीक्ष्णशृंगमहावृषैः ॥४॥
महाशृंगैश्च महिषैर्दुष्टगात्रप्रबाधकैः
डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः ॥५॥
व्याधिभिश्च महाघोरैः पीड्यमाना व्रजंति ते
महातुलां समारूढा दह्यमाना दवानले ॥६॥
महावेगप्रधूतास्ते महाचंडेन वायुना
महापाषाणवर्षेण भिद्यमानाश्च सर्वतः ॥७॥
पतद्भिर्वज्रनिर्घोषैरुल्कापातैश्च दारुणैः
प्रदीप्तांगारवर्षेण हन्यमाना व्रजंति ते ॥८॥
महता पांसुवर्षेण पूर्यमाणा यमं गताः
ये नराः पापकर्माणः पापं भुंजंति दारुणम् ॥९॥
एवं पापविशेषेण पापिष्ठाः पापकारकाः
नरकं प्रतिभुंजंति बहुपीडासमाकुलम् ॥१०॥
एतत्ते सर्वमाख्यातं विवेकं पुण्यपापयोः
अन्यत्किं ते प्रवक्ष्यामि धर्मशास्त्रमनुत्तमम् ॥११॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृतीर्थवर्णने ययाति-
चरिते सप्ततितमोऽध्यायः ॥७०॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP