संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ८९

भूमिखंडः - अध्यायः ८९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


कुंजलशुकस्य पुत्र समुज्ज्वलेन सह संवादम्

विष्णुरुवाच-
कुंजलस्तु सुतं वाक्यं समुज्ज्वलमथाब्रवीत्
भवान्कथय भोः पुत्र किमपूर्वं तु दृष्टवान् ॥१॥
तन्मे कथय सुप्रीतः श्रोतुकामोऽस्मि सांप्रतम्
एवमादिश्य तं पुत्रं विरराम स कुंजलः ॥२॥
पितरं प्रत्युवाचाथ विनयावनतस्सुतः
समुज्ज्वल उवाच-
हिमवंतं नगश्रेष्ठं देववृंदसमन्वितम् ॥३॥
आहारार्थं प्रगच्छामि भवतश्चात्मनः पितः
पश्यामि कौतुकं तत्र न दृष्टं न श्रुतं पुरा ॥४॥
प्रदेशमृषिगणाकीर्णमप्सरोभिः प्रशोभितम्
बहुकौतुकशोभाढ्यं मंगल्यं मंगलैर्युतम् ॥५॥
बहुपुण्यफलोपेतैर्वनैर्नानाविधैस्ततः
अनेककौतुकभरैर्मनसः परिमोहनम् ॥६॥
तत्र दृष्टं मया तात अपूर्वं मानसांतिके
बहुहंसैः समाकीर्णो हंस एकः समागतः ॥७॥
एवं कृष्णा महाभाग अन्ये तत्र समागताः
सितेतरैश्चंचुपादैरन्यतः शुक्लविग्रहाः ॥८॥
तादृशास्ते च नीला वै अन्ये शुभ्रा महामते
चतस्रस्तत्र वै नार्यो रौद्राकारा विभीषणाः ॥९॥
दंष्ट्राकरालसंक्रूरा ऊर्ध्वकेश्यो भयानकाः
पश्चात्तास्तु समायातास्तस्मिन्सरसि मानसे ॥१०॥
कृष्णा हंसास्तु संस्नाता मानसे तात मत्पुरः
विभ्रांताः परितश्चान्ये न स्नातास्तत्र मानसे ॥११॥
जहसुस्ताः स्त्रियस्तात हास्यैरट्टाट्टदारुणैः
तस्मात्सराद्विनिष्क्रांतो हंस एको महातनुः ॥१२॥
पश्चात्त्रयो विनिष्क्रांतास्तैश्चाहं समुपेक्षितः
याता आकाशमार्गेण विवदंतः परस्परम् ॥१३॥
तास्तु स्त्रियो महाभीमाः समंतात्परिबभ्रमुः
विंध्यस्य शिखरे पुण्ये वृक्षच्छायासुपक्षिणः ॥१४॥
निषण्णास्तत्र ते सर्वे दग्धा दुःखैः सुदारुणैः
तेषां सुवीक्षमाणानां भिल्ल एकः समागतः ॥१५॥
मृगान्स पीडयित्वा तु बाणपाणिर्धनुर्द्धरः
शिलातलं समाश्रित्य निषसाद सुखेन वै ॥१६॥
पश्चाद्भिल्ली समायाता अन्नमादाय सोदकम्
स्वं प्रियं वीक्षते राज्ञा मुदितैर्लक्षणैर्युतम् ॥१७॥
अन्यादृशं समावीक्ष्य स्वकांतं तेजसावृतम्
दिव्यतेजः समाक्रांतं यथा सूर्यं दिविस्थितम् ॥१८॥
नरमन्यं परिज्ञाय तं परित्यज्य सा ययौ
व्याध उवाच-
एह्येहि त्वं प्रिये चात्र कस्मान्मां त्वं न पश्यसि ॥१९॥
क्षुधया पीड्यमानोहं त्वामहं चावलोकये
तस्य वाक्यं समाकर्ण्य शीघ्रं व्याधी समागता ॥२०॥
भर्तुः पार्श्वं समासाद्य विस्मिता साभवत्तदा
कोयं तेजः समाचारो देवोयं मां समाह्वयेत् ॥२१॥
तमुवाच ततो व्याधी भर्तारं दीप्ततेजसम्
अत्र किं ते कृतं वीर भवान्को दिव्यलक्षणः ॥२२॥
सूत उवाच-
एवमाभाषितो व्याध्या व्याधः प्रियामभाषत
अहं ते वल्लभः कांते भवती च मम प्रिया ॥२३॥
कस्मात्त्वं मां न जानासि कथं शंका प्रवर्तते
क्षुधया पीड्यमानेन पयश्चान्नं प्रतीक्ष्यते ॥२४॥
व्याध्युवाच-
बर्बरः कृष्णवर्णश्च रक्ताक्षः कृष्णकंचुकः
ईदृशश्चास्ति मे भर्ता सर्वसत्वभयंकरः ॥२५॥
भवान्को दिव्यदेहस्तु प्रियेत्युक्त्वा समाह्वयेत्
एष मे संशयो जातो वद सत्यं ममाग्रतः ॥२६॥
कुलं नाम स्वकं ग्रामं क्रीडां लिगं सुतं सुताम्
समाचष्ट प्रियाग्रे तु तस्याः प्रत्यय हेतवे ॥२७॥
प्रत्युवाच स्वभर्तारं सा व्याधी हृष्टमानसा
कस्मात्ते ईदृशः कायः श्वेतकंचुकधारकः ॥२८॥
कथं जातः समाचक्ष्व ममाश्चर्यं प्रवर्तते
एवं संपृच्छमानस्तु भार्यया मृगघातकः ॥२९॥
सूत उवाच-
प्रत्युवाच ततः श्रुत्वा तां प्रियां प्रश्रयान्विताम्
नर्मदा उत्तरे कूले संगमश्चास्ति सुव्रते ॥३०॥
आतपेनाकुलो जीवो मम जातोति सुप्रिये
अस्मिन्वै संगमे कांते श्रमश्रांतो हि सत्वरः ॥३१॥
गतः स्नात्वा जलं पीत्वा पश्चाच्चाहं समागतः
तदाप्रभृति मे काय ईदृशस्तेजसावृतः ॥३२॥
संजातो वस्त्रसंयुक्तः कंचुकः शुभ्रतां गतः
पूर्वोक्तलिंगसंस्थानैः कुलैः स्थानेन वै तथा ॥३३॥
स्वप्रियं लक्षयित्वा तु ज्ञात्वा पुण्यस्य संभवम्
प्रत्युवाचाथ भर्तारं संगमं मम दर्शय ॥३४॥
तव पश्चात्प्रदास्यामि भोजनं पानसंयुतम्
इत्युक्तः प्रियया व्याधः सत्वरेण जगाम ह ॥३५॥
संगमो दर्शितस्तेन ततोग्रे पापनाशनः
समुड्डीना महाभाग पक्षिणो लघुविक्रमाः ॥३६॥
तया सार्द्धं ययुः सर्वे रेवासंगममुत्तमम्
तेषां तु वीक्षमाणानां पक्षिणां मम पश्यतः ॥३७॥
तया हि स्नापितो भर्ता पुनः स्नाता हि सा स्वयम्
दिव्यदेहधरौ चोभौ दिव्यकांतिसमन्वितौ ॥३८॥
संजातौ पक्षिणां श्रेष्ठ दिव्यवस्त्रानुलेपनौ
दिव्यमालांबरधरौ दिव्यगंधानुलेपनौ ॥३९॥
वैष्णवं यानमासाद्य मुनिगंधर्वपूजितौ
गतौ तौ वैष्णवं लोकं वैष्णवैः परिपूजितौ ॥४०॥
स्तूयमानौ महात्मानौ दंपती दृष्टवानहम्
व्रजंतौ स्वर्गमार्गेण कूजंते पक्षिणस्तथा ॥४१॥
तीर्थराजं परं दृष्ट्वा हर्षव्यक्ताक्षरैस्तदा
चत्वारः कृष्णहंसास्ते संगमे पापनाशने ॥४२॥
स्नात्वा वै भावशुद्धास्ते प्राप्ता उज्ज्वलतां पुनः
स्नात्वा पीत्वा जलं ते तु पुनर्बहिर्विनिर्गताः ॥४३॥
तावत्यस्ताः स्त्रियः कृष्णा मृतास्तत्स्नानमात्रतः
क्रंदमाना विचेष्टंत्यो हाहाकार विकंपिताः ॥४४॥
यमलोकं गतास्तास्तु तात दृष्टा मया तदा
उड्डीनास्तु ततो हंसाः स्वस्थानं प्रतिजग्मिरे ॥४५॥
एवं तात मया दृष्टं प्रत्यक्षं कथितं तव
कृष्णपक्षा महाकाया धार्तराष्ट्रास्तु ताः स्त्रियः ॥४६॥
कथयस्व प्रसादेन के भविष्यंति वै पितः
निर्गतान्मानसान्मध्याद्धार्तराष्ट्रान्वदस्व मे ॥४७॥
के भविष्यंति ते तात कथय त्वं तु सांप्रतम्
कस्मात्सुकृष्णतां प्राप्ता हंसाः शुद्धाश्च ते पुनः ॥४८॥
संजातास्तत्क्षणात्तात कस्मान्मृतास्तु ताः स्त्रियः
एवं मे संशयस्तात संजातो दारुणो हृदि ॥४९॥
छेत्तुमर्हसि अद्यैव भवाञ्ज्ञानविचक्षणः
प्रसादसुमुखो भूत्वा प्रणतस्य सदैव मे ॥५०॥
एवं संभाष्य पितरं विरराम समुज्ज्वलः
ततः प्रवक्तुमारेभे स शुकः कुंजलाभिधः ॥५१॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थवर्णने च्यवनचरित्रे एकोननवतितमोऽध्यायः ॥८९॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP