संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ४९

भूमिखंडः - अध्यायः ४९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


ब्राह्मण्युवाच-
एकदा तु महाभाग गता सा पर्वतोत्तमे
रमणीयं वनं दृष्ट्वा कदलीखंडमंडितम् ॥१॥
शालैस्तालैस्तमालैश्च नालिकेरैस्तथोत्कटैः
पूगीफलैर्मातुलिगैर्नारंगैश्चारुजंबुकैः ॥२॥
चंपकैः पाटलैः पुण्यैः पुष्पितैः कुटकैर्वटैः
अशोकबकुलोपेतं नानावृक्षैरलंकृतम् ॥३॥
पर्वतं पुण्यवंतं तं पुष्पितैश्च नगोत्तमैः
सर्वत्र दृश्यते रम्यो नानाधातुसमाकुलः ॥४॥
तडागं सर्वतोभद्रं पुण्यतोयेन पूरितम्
कमलैः पुष्पितैश्चान्यैः सुगंधैः कनकोत्पलैः ॥५॥
श्वेतोत्पलैर्विभासंतं रक्तोत्पलसुपुष्पितैः
नीलोत्पलैश्च कह्लारैर्हंसैश्च जलकुक्कुटैः ॥६॥
पक्षिभिर्जलजैश्चान्यैर्नानाधातुसमाकुलः
तडागं सर्वतः शुभ्रं नानापक्षिगणैर्युतम् ॥७॥
कोकिलानां रुतैः पुण्यैः सुस्वरैः परिशोभितः
मधुराणां तथा शब्दैः सर्वत्र मधुरायते ॥८॥
षट्पदानां सुनादेन सर्वत्र परिशोभते
एवंविधं गिरिं रम्यं तदेव वनमुत्तमम् ॥९॥
तडागं सर्वतोभद्रं ददृशे नृपनंदिनी
वैदर्भी क्रीडमाना सा सखीभिः सहिता तदा ॥१०॥
समालोक्य वनं पुण्यं सर्वत्र कुसुमाकुलम्
चापल्येन प्रभावेण स्त्रीभावेन च लीलया ॥११॥
पद्मावती सरस्तीरे सखीभिः सहिता तदा
जलक्रीडा समालीना हसते गायते पुनः ॥१२॥
रममाणा च सा तस्मिंस्तस्मिन्सरसि भामिनी
एवं विप्र तदा सा तु सुखेन परिवर्तयेत् ॥१३॥
विष्णुरुवाच-
गोभिलो नाम वै दैत्यो भृत्यो वैश्रवणस्य च
दिव्येनापि विमानेन सर्वभोगपरिप्लुतः ॥१४॥
याति चाकाशमार्गेण गोभिलो दैत्यसत्तमः
तेन दृष्टा विशालाक्षी वैदर्भी निर्भया तदा ॥१५॥
सर्वयोषिद्वरा सा हि उग्रसेनस्य वै प्रिया
रूपेणाप्रतिमा लोके सर्वांगेषु विराजते ॥१६॥
रतिर्वै मन्मथस्यापि किं वापीयं हरिप्रिया
किं वापि पार्वती देवी शची किं वा भविष्यति ॥१७॥
यादृशी दृश्यते चेयं नारीणां प्रवरोत्तमा
अन्यापि ईदृशी नास्ति द्वितीया क्षितिमंडले ॥१८॥
नक्षत्रेषु यथा चंद्रः संपूर्णो भाति शोभनः
गुणरूपकलाभिस्तु तथा भाति वरानना ॥१९॥
पुष्करेषु यथा हंसस्तथेयं चारुहासिनी
अहो रूपमहोभाव अस्यास्तु परिदृश्यते ॥२०॥
का कस्य शोभना बाला चारुवृत्तपयोधरा
व्यमृशद्गोभिलो दैत्यः पद्मावतीं वराननाम् ॥२१॥
चिंतयित्वा क्षणं विप्र का कस्यापि भविष्यति
ज्ञानेन महता ज्ञात्वा वैदर्भीति न संशयः ॥२२॥
दयिता उग्रसेनस्य पतिव्रतपरायणा
आत्मबलेन तिष्ठंती दुष्प्राप्या पुरुषैरपि ॥२३॥
उग्रसेनो महामूर्खः प्रेषिता येन वै वरा
पितुर्गेहमियं बाला स तु भाग्येन वर्जितः ॥२४॥
अनया विना स जीवेच्च कथं कूटमतिः सदा
किं वा नपुंसको राजा एनां यो हि परित्यजेत् ॥२५॥
तां दृष्ट्वा स तु कामात्मा संजातस्तत्क्षणादपि
इयं पतिव्रता बाला दुष्प्राप्या पुरुषैरपि ॥२६॥
कथं भोक्ष्याम्यहं गत्वा कामो मामति पीडयेत्
अभुक्त्वैनां यदा यास्ये तत्स्यान्मृत्युर्ममैव हि ॥२७॥
अद्यैव हि न संदेहो यतः कामो महाबलः
इति चिंतापरो भूत्वा गोभिलो मनसैक्षत ॥२८॥
कृत्वा मायामयं रूपमुग्रसेनस्य भूपतेः
यादृशस्तूग्रसेनश्च सांगोपांगो महानृपः ॥२९॥
गोभिलस्तादृशो भूत्वा गत्या च स्वरभाषया
यथावस्त्रो यथावेशो वयसा च तथा पुनः ॥३०॥
दिव्यमाल्यांबरधरो दिव्यगंधानुलेपनः
सर्वाभरणशोभांगो यादृशो माथुरेश्वरः ॥३१॥
भूत्वाथ तादृशो दैत्य उग्रसेनमयस्तदा
मायया परया युक्तो रूपलावण्यसंपदा ॥३२॥
पर्वताग्रे अशोकस्यच्छायामाश्रित्य संस्थितः
शिलातलस्थो दुष्टात्मा वीणादंडेन वीरकः ॥३३॥
सुस्वरं गायमानस्तु गीतं विश्वप्रमोहनम्
तालमानक्रियोपेतं सप्तस्वरविभूषितम् ॥३४॥
गीतं गायति दुष्टात्मा तस्या रूपेण मोहितः
पर्वताग्रे स्थितो विप्र हर्षेण महतान्वितः ॥३५॥
सखीमध्यगता सा तु पद्मावती वरानना
शुश्रुवे सुस्वरं गीतं तालमानलयान्वितम् ॥३६॥
कोऽयं गायति धर्मात्मा महत्सौख्यप्रदायकम्
गीतं हि सत्क्रियोपेतं सर्वभावसमन्वितम् ॥३७॥
सखीभिः सहिता गत्वा औत्सुक्येन नृपात्मजा
अशोकच्छायामाश्रित्य विमले सुशिलातले ॥३८॥
ददर्श भूपवेषेण गोभिलं दानवाधमम्
पुष्पमालांबरधरं दिव्यगंधानुलेपनम् ॥३९॥
सर्वाभरणशोभांगं पद्मावती पतिव्रता
मथुरेशः समायातः कदा धर्मपरायणः ॥४०॥
मम नाथो महात्मा वै राज्यं त्यक्त्वा प्रदूरतः
यावद्धि चिंतयेत्सा च तावत्पापेन तेन सा ॥४१॥
समाहूता तुरीभूय एहि त्वं हि प्रिये मम
चकिताशंकितासाचकथंभर्त्तासमागतः ॥४२॥
लज्जिता दुःखिता जाता अधःकृत्वा ततो मुखम्
अहं पापा दुराचारा निःशंका परिवर्तिता ॥४३॥
कोपमेवं महाभागः करिष्यति न संशयः
यावद्धि चिंतयेत्सा च तावत्तेनापि पापिना ॥४४॥
समाहूता तुरीभूय एह्येहि त्वं मम प्रिये
त्वया विना कृतो देवि प्राणान्धर्तुं वरानने ॥४५॥
न हि शक्नोम्यहं कांते जीवितं प्रियमेव च
तव स्नेहेन लुब्धोस्मि त्वां त्यक्त्वा नोत्सहे भृशम् ॥४६॥
ब्राह्मण्युवाच-
एवमुक्ता गतापश्यत्सुमुखं लज्जयान्विता
समालिंग्य ततो दैत्यः सतीं पद्मावतीं तदा ॥४७॥
एकांतं तु समानीता सुभुक्ता इच्छया ततः
दैत्येन गोभिलेनापि सत्यकेतोः सुता तदा ॥४८॥
सुकलोवाच-
मुष्कस्थानेस्य संकेतं नाविंदत वरानना
स्ववस्त्रं सा परिगृह्य शंकिता दुःखिता ह्यभूत् ॥४९॥
सा सक्रोधा वचः प्राह गोभिलं दानवाधमम्
कस्त्वं पापसमाचारो निर्घृणो दानवाकृतिः ॥५०॥
शप्तुकामा समुद्युक्ता दुःखेनाकुलितेक्षणा
वेपमाना तदा राजन्दुःखभारेण पीडिता ॥५१॥
मम कांतच्छलेनैव त्वयागत्य दुरात्मवन्
नाशितं धर्ममेवाग्र्यं पातिव्रत्यमनुत्तमम् ॥५२॥
सुस्वरं रुदितं कृत्वा मम जन्म त्वया हृतम्
पश्य मे बलमत्रैव शापं दास्ये सुदारुणम् ॥५३॥
एवं संभाषमाणा तं शप्तुकामा तु गोभिलम् ॥५४॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे एकोनपंचाशत्तमोऽध्यायः ॥४९॥

N/A

References : N/A
Last Updated : October 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP