संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ९६

भूमिखंडः - अध्यायः ९६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सुबाहुरुवाच-
कीदृशैः कर्मभिः प्रेत्य गच्छंति नरकं नराः
स्वर्गं तु कीदृशैः प्रेत्य तन्मे त्वं वक्तुमर्हसि ॥१॥
जैमिनिरुवाच-
ब्राह्मण्यं पुण्यमुत्सृज्य ये द्विजा लोभमोहिताः
कुकर्माण्युपजीवंति ते वै निरयगामिनः ॥२॥
नास्तिका भिन्नमर्यादाः कंदर्पविषयोन्मुखाः
दांभिकाश्च कृतघ्नाश्च ते वै निरयगामिनः ॥३॥
ब्राह्मणेभ्यः प्रतिश्रुत्य न प्रयच्छंति ये धनम्
ब्रह्मस्वानां च हर्तारो नरा निरयगामिनः ॥४॥
पुरुषाः पिशुनाश्चैव मानिनोऽनृतवादिनः
असंबद्धप्रलापाश्च ते वै निरयगामिनः ॥५॥
ये परस्वापहर्तारः परदूषणसूचकाः
परस्त्रीगामिनो ये च ते वै निरयगामिनः ॥६॥
प्राणिनां प्राणहिंसायां ये नरा निरताः सदा
परनिंदारता ये वै ते वै निरयगामिनः ॥७॥
सुकूपानां तडागानां प्रपानां च परंतप
सरसां चैव भेत्तारो नरा निरयगामिनः ॥८॥
विपर्यस्यंति ये दाराञ्छिशून्भृत्यातिथींस्तथा
उत्सन्नपितृदेवेज्या नरा निरयगामिनः ॥९॥
प्रव्रज्यादूषका राजन्ये चैवाश्रमदूषकाः
सखीनां दूषकाश्चैव ते वै निरयगामिनः ॥१०॥
आद्यं पुरुषमीशानं सर्वलोकमहेश्वरम्
न चिंतयंति ये विष्णुं ते वै निरयगामिनः ॥११॥
प्रयाजानां मखानां च कन्यानां सुहृदां तथा
साधूनां च गुरूणां च दूषका निरयगामिनः ॥१२॥
काष्ठैर्वा शंकुभिर्वापि शून्यैरश्मभिरेव वा
ये मार्गानुपरुंधंति ते वै निरयगामिनः ॥१३॥
सर्वभूतेष्वविश्वस्ताः कामेनार्तास्तथैव च
सर्वभूतेषु जिह्माश्च ते वै निरयगामिनः ॥१४॥
आगतान्भोजनार्थं तु ब्राह्मणान्वृत्तिकर्शितान्
प्रतिषेधं च कुर्वंति ते वै निरयगामिनः ॥१५॥
क्षेत्रवृत्तिगृहच्छेदं प्रीतिच्छेदं च ये नराः
आशाच्छेदं प्रकुर्वंति ते वै निरयगामिनः ॥१६॥
शस्त्राणां चैव कर्त्तारः शल्यानां धनुषां तथा
विक्रेतारश्च राजेंद्र नरा निरयगामिनः ॥१७॥
अनाथं विक्लवं दीनं रोगार्त्तं वृद्धमेव च
नानुकंपंति ये मूढास्ते वै निरयगामिनः ॥१८॥
नियमान्पूर्वमादाय ये पश्चादजितेंद्रियाः
अतिक्रामंति चांचल्यात्ते वै निरयगामिनः ॥१९॥
इत्येते कथिता राजन्नरा निरयगामिनः
स्वर्गलोकस्य गंतारो ये जनास्तान्निबोध मे ॥२०॥
सत्येन तपसा क्षांत्या दानेनाध्ययनेन च
ये धर्ममनुवर्तंते ते नराः स्वर्गगामिनः ॥२१॥
ये च होमपरा ध्यानदेवतार्चनतत्पराः
आददाना महात्मानस्ते नराः स्वर्गगामिनः ॥२२॥
शुचयश्च शुचौ देशे वासुदेवपरायणाः
पठंति विष्णुं गायंति ते नराः स्वर्गगामिनः ॥२३॥
मातापित्रोश्च शुश्रूषां ये कुर्वंति सदादृताः
वर्जयंति दिवास्वप्नं ते नराः स्वर्गगामिनः ॥२४॥
सर्वहिंसानिवृत्ताश्च साधुसंगाश्च ये नराः
सर्वस्यापि हिते युक्तास्ते नराः स्वर्गगामिनः ॥२५॥
सर्वलोभनिवृत्ताश्च सर्वसाहाश्च ये नराः
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ॥२६॥
शुश्रूषाभिस्तपोभिश्च गुरूणां मानदा नराः
प्रतिग्रहनिवृत्ता ये ते नराः स्वर्गगामिनः ॥२७॥
सहस्रपरिवेष्टारस्तथैव च सहस्रदाः
त्रातारश्च सहस्राणां ते नराः स्वर्गगामिनः ॥२८॥
भयात्पापात्तपाच्छोकाद्दारिद्र्यव्याधिकर्शितान्
विमुंचंति च ये जंतूंस्ते नराः स्वर्गगामिनः ॥२९॥
आत्मस्वरूपवंतश्च यौवनस्थाश्च भारत
ये वै जितेंद्रिया धीरास्ते नराः स्वर्गगामिनः ॥३०॥
सुवर्णस्य च दातारो गवां भूमेश्च भारत
अन्नानां वाससां चैव ते नराः स्वर्गगामिनः ॥३१॥
ये याचिताः प्रहृष्यंति प्रियं दत्वा वदंति च
त्यक्तदानफलेच्छाश्च ते नराः स्वर्गगामिनः ॥३२॥
निवेशनानां धान्यानां नराणां च परंतप
स्वयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः ॥३३॥
द्विषतामपि ये दोषान्न वदंति कदाचन
कीर्तयंति गुणान्ये च ते नराः स्वर्गगामिनः ॥३४॥
ये परेषां श्रियं दृष्ट्वा न वितप्यंति मत्सरात्
प्रहृष्टाश्चाभिनंदंति ते नराः स्वर्गगामिनः ॥३५॥
प्रवृत्तौ च निवृत्तौ च श्रुतिशास्त्रोक्तमेव च
आचरंति महात्मानस्ते नराः स्वर्गगामिनः ॥३६॥
ये नराणां वचो वक्तुं न जानंति च विप्रियम्
प्रियवाक्यैकविज्ञातास्ते नराः स्वर्गगामिनः ॥३७॥
ये नामभागान्कुर्वंति क्षुत्तृष्णा श्रमपीडिताः
हंतकारस्य कर्तारस्ते नराः स्वर्गगामिनः ॥३८॥
वापीकूपतडागानां प्रपानां चैव वेश्मनाम्
आरामाणां च कर्तारस्ते नराः स्वर्गगामिनः ॥३९॥
असत्येष्वपि ये सत्या ऋजवो नार्जवेष्वपि
रिपुष्वपिहिता ये च ते नराः स्वर्गगामिनः ॥४०॥
यस्मिन्कस्मिन्कुले जाता बहुपुत्राः शतायुषः
सानुक्रोशाः सदाचारास्ते नराः स्वर्गगामिनः ॥४१॥
कुर्वंत्यवंध्यं दिवसं धर्मेणैकेन सर्वदा
व्रतं गृह्णंति ये नित्यं ते नराः स्वर्गगामिनः ॥४२॥
आक्रोशंतं स्तुवंतं च तुल्यं पश्यंति ये नराः
शांतात्मानो जितात्मानस्ते नराः स्वर्गगामिनः ॥४३॥
ये चापि भयसंत्रस्तान्ब्राह्मणांश्च तथा स्त्रियः
सार्थान्वा परिरक्षंति ते नराः स्वर्गगामिनः ॥४४॥
गंगायां पुष्करे तीर्थे गयायां च विशेषतः
पितृपिंडप्रदातारस्ते नराः स्वर्गगामिनः ॥४५॥
न वशे चेंद्रियाणां च ये नराः संयमस्थिताः
त्यक्तलोभभयक्रोधास्ते नराः स्वर्गगामिनः ॥४६॥
यूका मत्कुणदंशादीन्ये जंतूंस्तुदतस्तनुम्
पुत्रवत्परिरक्षंति ते नराः स्वर्गगामिनः ॥४७॥
अज्ञानाच्च यथोक्तेन विधिना संचयंति च
सर्वद्वंद्वसहा लोके ते नराः स्वर्गगामिनः ॥४८॥
ये पूताः परदारांश्च कर्मणा मनसा गिरा
रमयंति न सत्वस्थास्ते नराः स्वर्गगामिनः ॥४९॥
निंदितानि न कुर्वंति कुर्वंति विहितानि च
आत्मशक्तिं विजानंति ते नराः स्वर्गगामिनः ॥५०॥
एवं ते कथितं सर्वं मया तत्त्वेन पार्थिव
दुर्गतिः सद्गतिश्चैव प्राप्यते कर्मभिर्यथा ॥५१॥
नरः परेषां प्रतिकूलमाचरन्प्रयाति घोरं नरकं सुदारुणम्
सदानुकूलस्य नरस्य जीविनः सुखावहा मुक्तिरदूरसंस्थिता ॥५२॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे षण्णवतितमोऽध्यायः ॥९६॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP