संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ११९

भूमिखंडः - अध्यायः ११९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


कपिंजल उवाच-
यस्याः प्रहसनात्तात सुहृद्यानि भवंति वै
पुष्पाणि दिव्यगंधीनि दुर्लभानि सुरासुरैः ॥१॥
कस्मात्तु देवताः सर्वाः प्रवांछंति महामते
शंकरः सुखमायाति हास्यपुष्पैः सुपूजितः ॥२॥
को गुणस्तस्य पुष्पस्य तन्मे कथय विस्तरात्
कामोदा सा भवेत्का तु कस्य पुत्री वरांगना ॥३॥
हास्यात्तस्या महाभाग सुपुष्पाणि भवंति च
को गुणस्तत्कथां ब्रूहि सकलां विस्तरेण च ॥४॥
कुंजल उवाच-
पुरा देवैर्महादैत्यैः कृत्वा सौहार्दमुत्तमम्
ममंथुः सागरं क्षीरममृतार्थं समुद्यताः ॥५॥
मथनाद्देवदैत्यानां कन्यारत्नचतुष्टयम्
वरुणेन दर्शितं पूर्वं सोमेनैव तथा पुनः ॥६॥
पश्चात्संदर्शितं पुण्यममृतं कलशे स्थितम्
कन्या चतुष्टयं पूर्वं देवानां हितमिच्छति ॥७॥
सुलक्ष्मीर्नाम सा चैका द्वितीया वारुणी तथा
ज्येष्ठा नाम तथा ख्याता कामोदान्या प्रचक्षते ॥८॥
तासां मध्ये वरा श्रेष्ठा पूर्वं जाता महामते
तस्माज्ज्येष्ठेति विख्याता लोके पूज्या सदैव हि ॥९॥
वारुणीपानरूपा च पयःफेनसमुद्भवा
अमृतस्य तरंगाच्च कामोदाख्या बभूव ह ॥१०॥
सोमो राजा तथा लक्ष्मीर्जज्ञाते अमृतादपि
त्रैलोक्यभूषणः सोमः संजातः शंकरप्रियः ॥११॥
मृत्युरोगहरा जाता सुराणां वारुणी तथा
ज्येष्ठासु पुण्यदा जाता लोकानां हितमिच्छताम् ॥१२॥
अमृतादुत्थिता देवी कामोदा नाम पुण्यदा
विष्णोः प्रीत्यै भविष्ये तु वृक्षरूपं प्रयास्यति ॥१३॥
विष्णुप्रीतिकरी सा तु भविष्यति सदैव हि
तुलसी नाम सा पुण्या भविष्यति न संशयः ॥१४॥
तया सह जगन्नाथो रमिष्यति न संशयः
तुलस्याः पत्रमेकं यो नीत्वा कृष्णाय दास्यति ॥१५॥
मेने तस्योपकाराणां किमस्मै च ददाम्यहम्
इत्येवं चिंतयेन्नित्यं तस्य प्रीतिकरो भवेत् ॥१६॥
एवं कामोद नामासौ पूर्वं जाता समुद्रजा
यदा सा हसते देवी हर्षगद्गदभाषिणी ॥१७॥
सौहृद्यानि सुगंधीनि मुखात्तस्याः पतंति वै
अम्लानानि सुपुष्पाणि यो गृह्णाति समुद्यतः ॥१८॥
पूजयेच्छंकरं देवं ब्रह्माणं माधवं तथा
तस्य देवाः प्रतुष्यंति यदिच्छति ददंति तत् ॥१९॥
रोदित्येषा यदा सा च केन दुःखेन दुःखिता
नेत्राश्रुभ्यो हि तस्यास्तु प्रभवंति पतंति च ॥२०॥
तानि चैव महाभाग हृद्यानि सुमहांति च
सौरभेण विना तैस्तु यः पूजयति शंकरम् ॥२१॥
तस्य दुःखं च संतापो जायते नात्र संशयः
पुष्पैस्तु तादृशैर्देवान्सकृदर्चति पापधीः ॥२२॥
तस्य दुःखं प्रकुर्वंति देवास्तत्र न संशयः
एतत्ते सर्वमाख्यातं कामोदाख्यानमुत्तमम् ॥२३॥
अथ कृष्णो विचिंत्यैव दृष्ट्वा विक्रमसाहसम्
विहुंडस्यापि पापस्य उद्यमं साहसं तदा ॥२४॥
नारदं प्रेषयामास मोहयैनं दुरासदम्
नारदस्त्वथ संश्रुत्य वाक्यं विष्णोर्महात्मनः ॥२५॥
गच्छमानं दुरात्मानं कामोदां प्रति दानवम्
गत्वा तमाह दैत्येंद्रं नारदः प्रहसन्निव ॥२६॥
क्व यासि त्वं च दैत्येंद्र सत्वरं च समातुरः
सांप्रतं केन कार्येण कस्यार्थं केन नोदितः ॥२७॥
ब्रह्मात्मजं नमस्कृत्य प्रत्युवाच कृतांजलि
कामोदपुष्पार्थमहं प्रस्थितो द्विजसत्तम ॥२८॥
तमुवाच स धर्मात्मा पुष्पैः किं ते प्रयोजनम्
विप्रवर्यं पुनः प्राह कार्यकारणमात्मनः ॥२९॥
नंदनस्य वनोद्देशे काचिन्नारी वरानना
तस्या दर्शनमात्रेण गतोऽहं कामवश्यताम् ॥३०॥
तया प्रोक्तोऽस्मि विप्रेंद्र पुष्पैः कामोदसंभवैः
पूजयस्व महादेवं पुष्पैस्तु सप्तकोटिभिः ॥३१॥
ततस्ते सुप्रिया भार्या भविष्यामि न संशयः
तदर्थे प्रस्थितोऽस्म्यद्य कामोदाख्यं पुरं प्रति ॥३२॥
तामहं कामयिष्यामि सिंधुजां शुणु सांप्रतम्
मनोल्लासैर्महाहासैर्हासयिष्याम्यहं पुनः ॥३३॥
प्रीता सती महाभागा हसिष्यति पुनः पुनः
तद्धास्यं गद्गदं विप्र मम कार्यप्रवर्द्धनम् ॥३४॥
तस्माद्धास्यात्पतिष्यंति दिव्यानि कुसुमानि च
तैस्तु देवमुमाकांतं पूजयिष्यामि सांप्रतम् ॥३५॥
तेन पूजाप्रदानेन तुष्टो दास्यति मे फलम्
ईश्वरः सर्वभूतेशः शंकरो लोकभावनः ॥३६॥
नारद उवाच-
तत्र दैत्य न गंतव्यं कामोदाख्ये पुरोत्तमे
विष्णुरस्ति सुमेधावी सर्वदैत्यक्षयावहः ॥३७॥
येनोपायेन पुष्पाणि कामोदाख्यानि दानव
तव हस्ते प्रयास्यंति तमुपायं वदाम्यहम् ॥३८॥
गंगातोयेषु दिव्यानि पतिष्यंति न संशयः
वाहितानि जलैर्दिव्यैरागमिष्यंति सांप्रतम् ॥३९॥
तानि त्वं तु प्रतिगृहाण सुहृद्यानि महांति च
गृहीत्वा तानि पुष्पाणि साधयस्व मनीप्सितम् ॥४०॥
नारदो दानवश्रेष्ठं मोहयित्वा ततः पुनः
ततश्च स तु धर्मात्मा चिंतयामास वै पुनः ॥४१॥
कथमश्रूणि सा मुंचेत्केनोपायेन दुःखिता
चिंतयानस्य तस्यैवं क्षणं वै नारदस्य च ॥४२॥
ततो बुद्धिः समुत्पन्ना कामोदाख्यं पुरं गतः ॥४३॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे कामोदाख्याने एकोनविंशत्यधिकशततमोऽध्यायः ॥११९॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP