TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
२०१ ते २५४

पताकादिचतुष्षष्टिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः - २०१ ते २५४

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


पताकादिचतुष्षष्टिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः - २०१ ते २५४
एवंरूपो पमे च रूपेण ।
इति कपोतः ।
अङ्गुल्यो यस्य हस्तस्यान्योन्याभ्यन्तरनिःसृताः ।
स कर्कट इति ज्ञेयः करः कर्मास्य कथ्यते ॥२०१॥
समुन्नतशिराः किञ्चिदुत्क्षिप्तभ्रूश्च जृम्भणम् ।
अनेनैवाङ्गमर्दं च कामार्तानां निरूपयेत् ॥२०२॥
इति कर्कटः ।
उत्तानौ वामपार्श्वस्थौ स्वस्तिकः परिकीर्तितः ।
समन्ततस्तदूर्ध्वं च विस्तीर्णं वनानि च ॥२०३॥
ऋतवो गगनं मेघा --- तेनार्थंवर्तिना ।
इति स्वस्तिकः ।
खटकः खटके न्यस्तः खटकावर्धमानकः ॥२०४॥
शृङ्गारार्थे प्रयोक्तव्यः परावृत्तस्तथापरः ।
कार्यो विटगतौ नम्रमूर्धा --- तत्प्रमाणतः ॥२०५॥
इति खटकः ।
अरालौ तु विपर्यस्तावुत्तानौ वर्धमानकौ ।
उत्सङ्ग इति ज्ञेयः --- स्पर्शग्रहणे करः ॥२०६॥
उत्सङ्गसंज्ञकौ स्यातां हस्तौ तत्कर्म चोच्यते ।
विनियोगस्तयोः कार्यः बालकः प्रहरेण तु ॥२०७॥
विधातव्याविमौ हस्तौ स्त्रीणामीर्ष्यायिते तथा ।
दक्षिणं वापि वामं वा न्यस्येत् कूर्परमध्यगम् ॥२०८॥
इत्युत्सङ्गः ।
अस्यो प्रशिथिलौ मुक्तौ पताकौ तु प्रलम्बितौ ।
यदा भवेतां करणे स दोल इति संस्मृतः ॥२०९॥
इति दोलः ।
यस्तु सर्पशिराः प्रोक्तस्तस्याङ्गुलिनिरन्तरः ।
द्वितीय पार्श्वसंश्लिष्टः स तुपुष्पपुटः पराणि च ॥२१०॥
ग्रास्यान्यथो यानि यानि द्र व्याण्येतेन दर्शयेत् ।
जलादानापयने कुर्यात् --- ॥२११॥
इति पुष्पपुटः ।
पताकौ तु यदा हस्तावूर्ध्वाङ्गुष्ठावधोमुखौ ।
उपर्युपरि विन्यस्तौ तदासौ मकरध्वजः ॥२१२॥
इति मकरः ।
कर्परौ सन्धितौ हस्तौ यदा स्तां सर्पशीर्षकौ ।
गजदन्तः स विज्ञेयः करः कर्मास्य तस्य च ॥२१३॥
इति गजदन्तः ।
शुकतुण्डौ करौ कृत्वा वक्षस्यभिमुखाञ्चितौ ।
शनैरधोमुखाविद्धौ सौबहिस्थल इति स्मृतः ॥२१४॥
उक्तकण्ठाप्रभृतीनि च कुर्यादेतेन हस्तेन ।
इत्यवहित्थः ।
वर्धमानः स विज्ञेयः कर्म चास्य निगद्यते ॥२१५॥
एतेन सत्यवचनं परिग्रह सग्रहस्तथा ।
संखेयकल्पश्चानेन निपीडितेन कर्तव्यः ॥२१६॥
अनयापि नीदृगेषां --- क्रौञ्चौ च कार्यौ ।
नलिनीपद्मकोशश्च तथा गरुडपक्षकः ॥२१७॥
एतेषां नृत्तहस्तत्वेऽप्यभिनीत्युपयोगिताम् ।
समा---जितां तत्र स्वयमभ्युह्य कल्पयेत् ॥२१८॥
चेष्टयाङ्गेन हस्तेन प्रयोगः सत्त्वकैरपि ।
गण्डोष्ठनासापार्श्वोरुपादचाराम्भदिभिस्तथा ॥२१९॥
यथा यथा प्रतीतिः स्यात्प्रयतेत तथा तथा ।
कृतानुकरणं
लक्षणं नृत्तहस्तानामिदानीमभिधीयते ।
चतुरश्रौ तथोद्वृत्तौ स्वस्तिकौ विप्रकीर्णकौ ॥२२१॥
पद्मकोशाभिधानौ चाप्यरालखटकामुखौ ।
आविद्धवक्त्रकौ सूचीमुद्गरेविवसंज्ञकौ ॥२२२॥
अर्धरेचितसंज्ञौ तु तथैवोत्तानवञ्चितौ ।
पल्लवाख्यौ निरावोऽथ केशबन्धौ लताकरौ ॥२२३॥
करिहस्तौ तथा पक्षवञ्चिताख्यौ ततः परम् ।
पक्षे प्रद्योतकरेव्याच तथा गरुडपक्षकौ ॥२२४॥
ततश्च दण्डपक्षाख्यावूर्ध्वमण्डलिनौ ततः ।
पार्श्वमण्डलिनौ तद्वदुरोमण्डलिनावपि ॥२२५॥
अनन्तरं करौ ज्ञेयावुरः पार्श्वार्धमण्डलौ ।
मुष्टिकस्वस्तिकाख्यौ च नलिनीपद्मकोशकौ ॥२२६॥

ततश्च कथितौ हस्तावलपल्लवकोल्बणौ ।
ललितौ वलिताख्यावित्येकान्नत्रिंशदीरिता ॥२२६॥
पुरस्ताद्वक्षसा हस्तौ प्रदेशेऽष्टाङ्गुले स्थितौ ।
समान कर्पूरशौ तु संमुखौ खटकामुखौ ॥२२८॥
चतुरश्राविति प्रोक्तौ नृत्तहस्तविशारदैः  ।
इति चतुरश्रौ ।
तावेव हंसपक्षाख्यौ व्यावृत्तिपरिवर्तनात् ॥२२९॥
नीतौ स्वस्तिकतां पश्चात्पच्च्या वितौ मणिबन्धनात् ।
विप्रकीर्णाविति प्रोक्तौ नृत्ताभिनयकोविदैः ॥२३०॥
इति विप्रकीर्णः ।
तावेव हंसपक्षाख्यौ कृत्वा व्यावर्तनक्रियाम् ।
अलपल्लवतां नीतौ ततश्च परिवर्तितौ ॥२३१॥
विधायोर्ध्वमुखौ हस्तौ कर्तव्यौ पद्मकोशकौ ।
इति पद्मकोशकौ ।
पुनर्विवर्तितं कृत्वा परिवर्तनकं ततः ॥२३२॥
अरालं दक्षिणं कुर्याद्वामं च खटकः सुखम् ।
खटकाख्यास्त्रयो हस्ताः स्वक्षेत्रेऽसौ विधीयते ॥२३३॥
इत्यरालखटकामुखौ ।
भुजांसकूर्परैः सार्धं कुटिलावर्तितौ यदा ।
हस्तावधोमुखतलावाविद्धावुद्धतावुभौ ॥२३४॥
विनतौ नामतो विद्याद्दीनाना विद्धवक्रकौ ।
आविद्धविक्रकौ चैव गदावेष्टनयोगतः ॥२३५॥
इतविद्धवक्रकौ ।
रचितौ सलावर्तितौ ।
यदा तु सर्पशिरसौ तलस्थाङ्गुष्ठकौ करौ ।
तेयकास्थौ प्रसृताग्रौ च शूलन्यासो भरस्तदा ॥२३६॥
इति सूचीमुखौ ।
हस्तौ सूचीमुखा ते मणिबन्धनविच्युतौ ।
व्यावृत्तिपरिवृत्तिभ्यां वर्तितौ तदनन्तरम् ॥२३७॥
हंसपक्षत्वमानीय कुर्यात्कमलवर्तिताम् ।
तथा द्रुतभ्रमौ कृत्वा रेचितौ पार्श्वयोः शनैः ॥२३८॥
रेचिताविति विज्ञेयौ हस्तौ हस्तविशारदैः ।
इति रेचितौ ।
व्यावृत्तिपरिवृत्तिभ्यां वर्तितौ चतुरश्रवत् ॥२३९॥
कूर्परांसाञ्चितौ हस्तौ नीतौ च त्रिपताकताम् ।
शकिञ्चि आश्रस्थितावेतौ ज्ञेयावुत्तानितौ ॥२४०॥
इत्युत्तानवञ्चितौ ।
बाहुवर्तनया कृत्वा पूर्वव्यावर्तितक्रियाम् ।
चतुरश्रक परिवृत्तिभ्यां चतुरश्रः कृतो यदा ॥२४१॥
वामहस्तस्तदितरः कृत्वादेष्वितरेचितः करः ।
अर्धरेचितसंज्ञौ तौ विज्ञातव्यौ तदा वुधैः ॥२४२॥
इत्यर्धरेचितौ ।
बाहुवर्तनया बाहुशीर्षाद्व्यावर्तनेन वा ।
करणेन विनिष्क्रान्तौ मितं वाभ्यर्णमागतौ ॥२४३॥
पतकावेव निर्दिष्टौ पल्लवौ नामतः करौ ।
इति पल्लवौ ।
उद्वेष्टितवर्तनया गत्या वस्रंत्रास्रया स्थितौ मूर्ध्नः ।
पार्श्वद्वितये पल्लवसंस्थनौ केशबन्धाख्यौ ॥२४४॥
इति केशबन्धौ ।
अभिमुखमुभौ निविष्टौ भुविष्टिर्तवर्तनक्रमादसौ ।
पल्लवहस्तौ पार्श्वद्वितये स्यातां लतासंज्ञौ ॥२४५॥
इति लताहस्तौ ।
व्यावर्तितकरणाभ्यां दक्षिणो लताहस्तः ।
उन्नतविलोलितः स्यात्त्रिपताको वामहस्तस्तु ॥२४६॥
इति करिहस्तः ।
उद्वेष्टितपरिवर्तनया त्रिपताकावभिमुखौ यदा घटितौ ।
करिहस्तसन्निविष्टौ करौ तदा पक्षवञ्चितकौ ॥२४७॥
इति पक्षवञ्चितकौ ।
तावेव त्रिपताकौ हस्तौ कटिशीर्षासन्निविष्टाग्रौ ।
विपरावृत्तिविधानात् पक्षप्रच्योतकौ नाम्ना ॥२४८॥
इति पक्षप्रच्योतकौ ।
त्रिप शाखौ हस्तावधोमुखा हि तद् विज्ञेयौ गरुडपक्षाख्यौ ।
इति गरुडपक्षकौ ।
आवर्तितपरिवर्तितकरणकृतौ हंसपक्षकौ गम् ॥२४९॥
पक्षतिरूपत्वमानान्तौ प्रसृतौ च यदा भवेत् उपक्षौ ।
व्यावर्तितपरिवर्तितयोगौ यदि मण्डलाकृती स्याताम् ॥२५०॥
ऊर्ध्ववर्तितादघवदा स्मृतावूर्ध्वमण्डलिनौ ।
तथोर्ध्वमण्डलिसंज्ञौ वावर्तितं विधाया परिवर्तितकरणतारौ ॥२५१॥
इति पार्श्वमण्डलिनौ ।
उद्वेष्टितौ यदैक एव भ्रमित उरसः स्थाने तौ द्वावपि स्याताम् ।
नियतमुरोमण्डलिनौ विज्ञातव्यौ तदा तज्ज्ञैः ॥२५२॥
इत्युरोमण्डलिनौ ।
--- पल्लवो हस्तस्तथारालाह्वा वापरा ।
व्यावर्तनाकृतश्चैकस्तयोरन्योपवेष्टनात् ॥२५३॥
उरोर्धयोगात्पार्श्वार्धयोगाच्च क्रमशः स्थितौ ।
एतौ विद्वान् विजानीयादुरःपार्श्वार्धमण्डलौ ॥२५४॥
इत्युरःपार्श्वार्धमण्डलौ ॥

शुभं भूयात् ॥


Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-20T20:20:14.7800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

general union

  • = general workers' union 
  • सर्वसाधारण कामगार संघटना 
RANDOM WORD

Did you know?

मी ह्या साईट साठी काही करू शकते काय
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.