TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
५१ ते १००

मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः - ५१ ते १००

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः - ५१ ते १००
चतुरश्रकृते क्षेत्रे षड्विंशत्यंशभाजिते ।
तत्र स्युः षड्पदाः कर्णाः शाला द्वादशभागिकाः ॥५१॥
निर्गताश्च त्रिभिर्भागैर्भवन्त्येताश्चतुर्दिशम् ।
अष्टभागायता भूयो निर्गमश्च त्रिभिः पदैः ॥५२॥
चतुःस्तम्भाश्चतुष्पार्श्वा दिक्षु सर्वास्वयं विधिः ।
कर्णशालान्तरं कार्यं पदेनैकेन विस्तृतम् ॥५३॥
प्रविष्टं तत्पदेनैकं तदेवात्र जलान्तरम् ।
पदेन कर्णे कोणः स्यात्प्रत्यङ्गे पदविस्तृते ॥५४॥
निर्गते चार्धभागेन सममाने मनोरमे ।
द्विपदा रथिका भद्रे निर्गतार्धपदेन सा ॥५५॥
चतुकर्णेषु कर्तव्यं मानषेमेवंधुनु धीमता ।
बाह्यभित्तेस्तु विस्तारस्त्रिपदः परिकीर्तितः ॥५६॥
चतुःषष्टिपदो गर्भस्तद्भित्तिस्त्रिपदा भवेत् ।
त्रिपदं कर्णमानं स्याद्वारिमार्गेण सम्युतम् ॥५७॥
पदार्धं वारिमार्गः स्यात्पदमस्य प्रवेशकः ।
शालाष्टपदविस्तीर्णा भागार्धेन विनिर्गता ॥५८॥
चतुर्भागायता भद्रं पुनर्भागार्धनिर्गतम् ।
तलन्यासौ हेमकूटे विभक्तपदनिश्चयात् ॥५९॥
अस्याग्रे मण्डपं कुर्यान्महान्तं गुणपूजितम् ।
ऊर्ध्वं हेमकूटस्य द्विगुणं स्यात्कलाधिकम् ॥६०॥
अधस्तादासनं तस्य सप्तभागसमुच्छ्रितम् ।
भागेनैकेन खुरके न मध्ये पूर्वमानयोः ॥६१॥
अत ऊर्ध्वं पुनर्ब्रूमः पादमानमनुक्रमात् ।
सप्तभागोन्नतं कुर्याद्वेदीबन्धे सुशोभनम् ॥६२॥
तस्यार्धं कुम्मकस्यार्धं भागेन कलशोन्नतिः ।
पदाधेनान्तरं पत्रं यथाशोभं विधीयते ॥६३॥
सार्धं पदं पुनः प्रोक्ता कपोताली सुशोभना ।
दशभागोच्छ्रिता जङ्घा कर्तव्यातिसुलक्षणा ॥६४॥
अस्योपरि विधातव्यं भरणै द्विपदोच्छ्रितम् ।
मेखलान्तरपत्रे तु विधीयेते पदत्रये ॥६५॥
अधस्तान्मेखलायास्तु खुरकस्य तथोपरि ।
एकोनविंशतिं भागानन्तरं संप्रचक्षते ॥६६॥
कर्मप्रमाणमेतस्य पृथङ्मध्येऽभिधीयते ।
द्विपदं राजासेनं स्याद्वेदा---चतुष्पदा ॥६७॥
भवत्यासनपट्टस्य कल्पना भागमानतः ।
सार्धं भागद्वयं कार्यमूर्ध्वं चन्द्रा वलोकनम् ॥६८॥
स्तम्भानासनपट्टार्धेन युञ्ज्यादष्टभागिकान् ।
भरणस्तम्भशीर्षे च प्रत्येकं पदके स्मृते ॥६९॥
द्विपदश्चार्धपट्टः स्याच्छाद्यकेन सुशोभितः ।
त्रिपदं छाद्यकं तत्र विस्तारेण प्रकीर्तितम् ॥७०॥
एतन्मानं समाख्यातमलिन्देषु चतुर्दिशम् ।
ऊर्ध्वमन्तरपत्रस्य कथयामो यथाक्रमम् ॥७१॥
षट्पदे कर्णविस्तारा सप्तांशा कर्णमञ्जरी ।
ग्रीवामर्धपदं कुर्यात्पदमेकं तथाण्डकम् ॥७२॥
अर्धांशा चन्द्रि का च स्यादेकांशः कलशोच्छ्रयः ।
अस्योरोमञ्जरी कार्या विस्तारेण चतुष्पदा ॥७३॥
ग्रीवाण्डके विधातव्यं भागेनार्धेन कुम्भकः ।
सिंहकर्णस्तु कर्तव्यो द्विपदोऽस्यैव मध्यतः ॥७४॥
इत्थं पञ्चाण्डकाः कर्णे हेमकूटेषु कीरिताः ।
अष्टांशविस्तृतं कुर्यादुदयेन च षट्पदम् ॥७५॥
अलिन्दस्योर्ध्वभागस्तं सिंहकर्णं मनोरमम् ।
सिंहकर्णे द्विभाग्स्थो द्वादशांशकविस्तृताम् ॥७६॥
उरोमञ्जरिकां कुर्यात् त्रयोदशपदोच्छ्रिताम् ।
सप्तांशविस्तृतः स्कन्धो ग्रीवा च पदमुच्छ्रिता ॥७७॥
अण्डकं सार्धभागेन चन्द्रि काधपदा स्मृता ।
आकाशलिङ्गं कुर्वीत द्विपदं सुमनोरमम् ॥७८॥
विस्तारो मूलमञ्जर्या भागविंशतिसंमितः ।
उच्छायोऽस्यैकविंशत्या स्कन्धो द्वादशभागिकः ॥७९॥
पञ्चभौमस्तु कर्तव्यो यथा चारुः स जायते ।
प्रथमा भूमिका तत्र पञ्चभागा विधीयते ॥८०॥
परा परार्धभागेन न्यूना न्यूना विधीयते ।
स्कन्धमानं विधातव्यं पदेनैकेन चोन्नतम् ॥८१॥
विभज्य दशधा कुर्याल्लताः पञ्चातिसुन्दरीः ।
हेमकूटस्य कर्णेषु प्रत्यङ्गे नरकिन्नराः ॥८२॥
मन्ये तिलककूटाश्च कर्तव्यास्तु निरन्तराः ।
ईदृशी मञ्जरीहेमे विधेया कूटनिर्गता ॥८३॥
ग्रीवा सार्धपदा प्रोक्तो विस्तारादष्टभागिका ।
अण्डकं द्विपदोत्सेधमेकादशपदायतम् ॥८४॥
दण्डिका साधभागो च्चाविस्तारा नवभागिका ।
त्रिपदः कलशः कार्यो विस्तारेणोच्छ्रयेण च ॥८५॥
एवंविधं विधत्ते यो हेमकूटं मनोरमम् ।
स क्रीडति पुमान्स्वर्गे यावत्क्रीडा पिनाकिनः ॥८६॥
हेमकूटः ।
सुभद्रा ख्यमथ ब्रूमः प्रासादं भद्र भद्र कम् ।
सुभद्रो ऽयमतः प्रोक्तो भद्रे भद्रे यतोऽन्वितः ॥८७॥
चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते ।
गर्भः षोडशभिर्भागैः स्कन्दः षट्पदविस्तृतः ॥८८॥
भित्तिः स्यात्पदविंशत्या तत्र कन्दसमाः सृताः ।
कर्णाः प्रत्यङ्गकोन्येषां प्रत्येकं पदविस्तरात् ॥८९॥
द्व्यंशो मध्यगविस्तार उभयोर्निर्गतः पदम् ।
द्व्यंशः सरसि विस्तार आक्रान्तपदनिर्गमैः ॥९०॥
द्विपदा बाह्यभित्तिः स्याद्विस्तारेण सुशोभिता ।
चतुष्पदायतः कर्णो भद्रं तस्य द्विभागिकम् ॥९१॥
निर्गमोऽस्यार्धभागेन स्यादेवं सुन्दरं कृम् ।
कर्णे कोणासु पदिका दिक्षु सर्वासु शोभनाः ॥९२॥
निगूढविस्तरः कार्यः सार्धं पञ्चपदोन्मितः ।
द्विपदो निर्गमस्तत्र सर्वदिक्षु विधीयते ॥९३॥
सलिलान्तरकं कुर्यादन्तरे कर्णभद्र योः ।
प्रविष्टं पदमानेन पदपादेन विस्तृतम् ॥९४॥
ऊर्ध्वमानमथैतस्य यथावदभिधीयते ।
राजपीठं विधातव्यं भागार्धेनातिसुन्दरम् ॥९५॥
ऊर्ध्वभागेन खुरकपीठं स्याच्चतुरंशकम् ।
द्विपदः कुम्भकोत्सेधः पादोनं सोमसूरकम् ॥९६॥
भागार्धेनान्तरं पत्रं पादोनांशेन मेखलाः ।
षड्भागमुच्छ्रिता जङ्घा भागेन ग्रासपट्टिकाः ॥९७॥
मेखलान्तरपत्रे च प्रत्येकं पदके स्मृते ।
पट्टादधरखुरादूर्ध्वं भागा सैकां दशान्तरम् ॥९८॥
राजासनं पदं प्रोक्तमुत्सेधं नातिशोभनम् ।
अर्धेनात्यधिके कार्ये द्वे पदे वेदिकोच्छ्रयः ॥९९॥
पदार्धमासनं कार्यं द्व्यंशं चन्द्रा वलोकनम् ।
ऊर्ध्वमासनपट्टस्य स्तम्भः पञ्चपदान्वितः ॥१००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:28.3670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

prosecntor

  • पु. अभियोक्ता 
  • lawyer 
RANDOM WORD

Did you know?

How do I become a moderator on QnA?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site