TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१५१ ते २०३

रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः - १५१ ते २०३

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः - १५१ ते २०३
स्तम्भश्चतुर्भिः संयुक्ता सीमा द्वारस्य चाग्रतः ।
द्विभागायामविस्तारा तावन्मात्रसमुच्छ्रितिः ॥१५१॥
तां सीमां गर्भसहितां भागेनान्येन वेष्टयेत् ।
भित्तिस्तत्र विधातव्या सगवाक्षा चतुर्दिशम् ॥१५२॥
षड्दारुकयुतो ह्येष प्रासादो भव उच्यते ।
अस्यैव भागनिष्कासा शाला मुखचतुष्टये ॥१५३॥
यदा षड्दारुकोपेता विशालः स तदोच्यते ।
स्तम्भैर्मुखैमुखे षड्भिर्बहिः साम्मुख्य इत्यसौ ॥१५४॥
अस्यैव स मा कर्णस्था द्विद्विस्तम्भयुता यदा ।
प्राग्रीवैर्भागनिष्क्रान्ता बहिस्था प्रभवस्तदा ॥१५५॥
सीम्नोऽग्रतो यदास्यैव स्तम्भद्वययुतो भवेत् ।
प्राग्रीवो भागनिष्क्रान्तस्तदा स्याच्छिबिरागृहः ॥१५६॥
विशालसन्निवेशस्य मुखे शाला भवेद्यदा ।
पार्श्वयोश्चोभयोः शाले प्राग्रीवाश्च त्रयो यदा ॥१५७॥
निष्क्रान्तभाग एकैकः स्तम्भद्वितयसंयुतः ।
प्रासादः स तदा ज्ञेयो मुखशालोऽभिधानतः ॥१५८॥
मुखशालाग्रशालाया यदा स्तम्भाश्चतुर्दश ।
प्राग्रीवो द्विविधश्चाग्रे द्विशालः स तदा भवेत् ॥१५९॥
भित्तिस्तदानीं प्रासादो गृहराजः प्रजायते ।
गर्भायामसमावग्रपृष्ठयोर्भागविस्तृतौ ॥१६०॥
चतुश्चतुर्धरौ यत्र प्राग्रीवौ द्वौ च पार्श्वयोः ।
तौ तु द्विद्विधरौ गर्भविस्तारेण तु सम्मितौ ॥१६१॥
अमलो नाम स प्रोक्तः प्रासादः शुभलक्षणः ।
अस्यैव चाग्रे पृष्ठे च द्विद्विस्तम्भयुतौ यदा ॥१६२॥
प्राग्रीवौ स तदा प्रोक्तः प्रासादो दशमो विभुः ।
प्रासादान् कथयामोऽन्यान् दश वृत्तायतान् पुनः ॥१६३॥
अष्टभागमुखायत्या विस्तृत्या चतुरश्रकम् ।
वृत्तायतं प्रकुर्वीत सबाह्याभ्यन्तरं ततः ॥१६४॥
गर्भं पश्चिमभागेऽस्य चतुर्भागं समन्ततः ।
कुर्यात्तस्याग्रतः सीमां भागद्वितयविस्तृताम् ॥१६५॥
भागत्रयमितां भागेनैकेनान्तरितां च ताम् ।
संयुक्तामष्टभिः स्तम्भैः सुदृढैश्चारुदर्शनैः ॥१६६॥
अलिन्देन परिक्षिप्तां ससीमां देवकोष्ठकम् ।
षोडशस्तम्भयुक्तेन कुर्यात् प्राग्रीवमग्रतः ॥१६७॥
छन्नाश्छाद्यद्वयेनायमामोद इति कीर्तितः ।
वृत्तायतेषु प्रथमः प्रासादः स्वामिनो हितः ॥१६८॥
समाहितौ यदास्यैव प्राग्रीवौ भागमिश्रितौ ।
चतुःस्तम्भै रैतिकस्तु वृत्ताभ्यां तुङ्ग उच्यते ॥१६९॥
यदा सीमावधिर्भित्तिर्गवाक्षैरुपशोभिता ।
वृत्तप्राग्रीव एकोऽन्ये तदा चारुरुदाहृतः ॥१७०॥
सीमामध्ये विधातव्यौ प्राग्रीवौ भागविस्तृतौ ।
विस्तारसदृशायामौ दक्षिणेति त्रिषु त्रयः ॥१७१॥
कार्याः प्राग्रीवकास्ते च गर्मकोष्ठेन सम्मिताः ।
भूतिरित्येष प्रोक्तः प्रासादः शुभलक्षणः ॥१७२॥
मुखायता स्याच्चतुरो भागान्यत्तिर्यगायतान् ।
क्षेत्रवृत्तं ततः कुर्यात्तन्मध्ये गर्भवेश्म च ॥१७३॥
चतुर्भागायतं तत् स्याद्भागद्वितयविस्तृतम् ।
अलिन्दो बाह्यतस्तस्य द्वादशस्तम्भसंयुतः ॥१७४॥
भागद्वितयविस्तारः प्राग्रीवश्चांशनिर्गतः ।
निषेध इति विख्यातः प्रासादोऽयं पुरातनैः ॥१७५॥
यदा निषेधः स्यादस्य पुरः प्राग्रीवको यदि ।
चतुर्द्वारपरिक्षिप्तोऽलिन्देनाष्टधरेण वा ॥१७६॥
अयमेवांशकेन स्याद्यदालिन्देन वेष्टितः ।
मुखभागत्रयं मुक्त्वा भित्त्या च परिवेष्टितः ॥१७७॥
यदा च कर्णप्राग्रीवौ प्राग्रीवश्चाग्रतो भवेत् ।
विशेषरचना या च द्वाविंशतिधरान्वितौ ॥१७८॥
गवाक्षैः शोभनैर्युक्तस्तदा सिंहः प्रकीर्तितः ।
द्वादशांशायते क्षेत्रे तथा षड्भागविस्तृते ॥१७९॥
पश्चादंशद्वयं त्यक्त्वा द्विभागायामविस्तृतः ।
देवकोष्ठो विधातव्यस्तद्द्वारं भागमुच्छ्रितम् ॥१८०॥
सीमाग्रे सान्तरा द्व्यंशविस्तृता चतुरायता ।
अष्टस्तम्भोऽस्य गर्भो वै षोडशस्तम्भको बहिः ॥१८१॥
अलिन्दस्तस्य पुरतो वृत्तप्राग्रीवकोऽपि च ।
सीमाप्राग्रीवकालिन्दकोष्ठान् वृत्तान् प्रकल्पयेत् ॥१८२॥
प्राग्रीवौ पार्श्वयोः सीमासमौ भागविनिर्गतौ ।
द्वाभ्यां द्वाभ्यां युतौ ज्ञेयौ स्तम्भाभ्यां वर्तुलाकृती ॥१८३॥
एतत्सर्वं विधातव्यमलिन्देनाभिवेष्टितम् ।
चतुर्विंशधरोऽय च भागिकोस्य प्रशस्यते ॥१८४॥
द्विस्तम्भयुक्तान् प्राग्रीवान् कुर्याद्गर्भस्य दिक्त्रये ।
एवमेष समाख्यातः प्रासादः सुप्रभः शुभः ॥१८५॥
भागद्वितयविस्ताराः प्राग्रीवा येऽस्य कीर्त्तिताः ।
चतुरश्रास्त एव स्युर्द्विद्विस्तम्भयुता यदि ॥१८६॥
शेषा भवति भित्तिश्च गवाक्षैरुपशोभिता ।
प्रासादोयं तदा ज्ञेयो दशमो लोचनोत्सवः ॥१८७॥
अष्टाश्रानथ वक्ष्यामः प्रासादां ल्लक्षणैः सह ।
चतुर्भागान्विते क्षेत्रे तथाष्टश्रीकृते पुनः ॥१८८॥
द्वौ भागौ गर्भकोष्ठः स्यादलिन्दो भागिकस्तदा ।
स्तम्भाष्टकमलिन्दे स्यात्प्राग्रीवस्तस्य चाग्रतः ॥१८९॥
द्विच्छाद्यश्छादितः श्रीमान् प्रासादो वज्रको भवेत् ।
अस्यैवाग्रे यदा सीमा चतुरश्रा चतुर्धरा ॥१९०॥
स्याच्चतुर्विंशतिस्तम्भश्चालिन्दो भागिकोऽपरः ।
नन्दनोऽयं समाख्यातः शङ्कुः प्राग्रीवकैस्त्रिभिः ॥१९१॥
तस्य भित्तिर्विधातव्या क्षेत्रेऽष्टाश्रियुते बुधैः ।
वामनश्च पुनर्द्वौद्वौ गवाक्षौ दिक्त्रये मतौ ॥१९२॥
अस्यैवाग्रे यदा सीमाभागाद्भागत्रयायता ।
द्विभागं विस्तृता द्व्यंशसमुच्छेदाष्टभिर्धरैः ॥१९३॥
अलिन्दावेष्टिता युक्ता प्राग्रीवैमखला तदा ।
भित्तिक्षेत्रे यदास्यैव प्राग्रीवाः परिवेष्टिताः ॥१९४॥
अलिन्देन धरैः षड्भिः षड्भिर्युक्तास्तदा लयः ।
अष्टभागमिते क्षेत्रे कृतेऽष्टाश्रिणि सर्वतः ॥१९५॥
भागद्वयमितं कुर्याद्देवकोष्ठं मनोरमम् ।
चतुर्भिः शोभितं द्वारैर्भागिका लिन्दवेष्टितम् ॥१९६॥
अलिन्दस्य विधाटव्याः स्तम्भाश्चाष्टौ ततोऽपरः ।
स्याच्चतुर्विंशतिस्तम्भो भागिकोऽलिन्दकः पुनः ॥१९७॥
तथाविधस्तृतीयोऽपि प्राग्रीवाश्च चतुर्दिशम् ।
प्रासादोऽयं महापद्मो ब्रह्मणः शङ्करस्य च ॥१९८॥
द्वितीयोऽलिन्दकेऽस्यैव प्राग्रीवाः स्युश्चतुर्दिशम् ।
अलिन्देन परिक्षिप्तो हंस एष प्रकीर्तितः ॥१९९॥
प्राग्रीवोऽस्य महापद्मस्यालिन्देनावृतो यदा ।
कर्णप्राग्रीवकौ द्वौ द्वौ व्योमसंज्ञस्तदा भवेत् ॥२००॥
हंसस्यैव वलभ्यः स्युः प्राग्रीवाणां पदे यदा ।
चतुःस्तम्भाः परिक्षिप्ता अलिन्देन चतुर्दिशम् ॥२०१॥
तदा चन्द्रो दयो नाम प्रासादो जायते शुभः ।
एवमेषां चतुष्षष्टिः प्रासादानामुदाहृता ॥२०२॥
इति सुरभवनानां सप्ततिर्दारवाणा- ।
मिह सदनचतुष्केणान्वितेयं प्रदिष्टा ।
जनमयमवकोशानन्दशुभ्रांशुलेखा ।
भवति सुविदितैषा शिल्पिनां कामधेनुः ॥२०३॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे रुचकादिचतुष्षष्टिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-19T22:20:37.7370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

वकिलत

  • स्त्री. 
  • वकिलाची वृत्ति , धंदा , पेषा . सेवकास वकालतीचे जाबसाल लिहावयास प्रयोजन नाही . - रा ? 
  • शिष्टाई . 
  • मुखत्यारी ; प्रातिनिधित्व . [ अर . वकिली ; वकालत ] 
More meanings
RANDOM WORD

Did you know?

नाग आणि नागपंचमी यांचा परस्परसंबंध काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.