TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१ ते ५०

मेर्वादिविंशिकानागरप्रासादलक्षणं नाम त्रिषष्टितमोऽध्यायः - १ ते ५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


मेर्वादिविंशिकानागरप्रासादलक्षणं नाम त्रिषष्टितमोऽध्यायः - १ ते ५०
अधुना नागरान्ब्रूमो प्रासादान्नामलक्षणैः ।
मेरुमन्दरकैलासाः कुम्भोऽथ मृगराड्गजः ॥१॥
विमानच्छन्दसंज्ञश्च चतुरश्रस्तथापरः ।
अष्टाश्रिः षोडशाश्रिश्च वर्तुलः सर्वतोदकः ॥२॥
सिंहास्यो नन्दनो नन्दिवर्धनो हंसको वृषः ।
गरुडः पद्मकाख्यश्च समुद्र इति विंशतिः ॥३॥
नागराणामिति प्रोक्ता प्रासादानां समासतः ।
शतमुद्र श्चतुर्द्वारः षोडशक्षितिरूर्ध्वतः ॥४॥
विचित्रशिखराकीर्णो मेरुः प्रासाद उच्यते ।
मन्दरो द्वादशतलः कैलासो नवभूमिकः ॥५॥
अनेकशिखरश्चित्रश्चतुर्द्वारो महोच्छ्रितिः ।
विमानच्छन्दकस्त्वष्टभूमिकः परिकीर्तितः ॥६॥
विंशत्यण्डकसंयुक्तः सप्तभूर्नन्दिवर्धनः ।
षड्भूमिर्नन्दनः कार्यः प्रासादः षोडशाण्डकः ॥७॥
पञ्चभूः सर्वतोभद्रो भद्र शालाविभूषितः ।
अनेकशिखराकीर्णः कर्तव्यः प्रचुराण्डकः ॥८॥
वलभिच्छन्दकः कार्यो देवतानां वृषः सदा ।
वृषस्तु स्वोच्छ्रितेस्तुल्यः सर्वतः स्वस्ति वर्तितः ॥९॥
मण्डलं स तु विज्ञेय एकाण्डकविभूषितः ।
सिंहः सिंहाकृतिर्ज्ञेयो गजो गजसमाकृतिः ॥१०॥
कुम्भः कुम्भाकृतिस्तद्वद्भूमिकानवकोच्छ्रितः ।
अञ्जलीपुटसंस्थानः पञ्चाण्डकविभूषितः ॥११॥
षोडशाश्रिः समन्ताच्च विज्ञेयः स समुद्र कः ।
पार्श्वयोश्चन्द्र शाला च उच्छ्रायात्स द्विभूमिकः ॥१२॥
तथाष्टाश्रिः पद्मनिभो भूमिकात्रयमुच्छ्रितः ।
षोडशाश्रिः स विज्ञेयो विचित्रशिखरः शुभः ॥१३॥
मृगराजस्तु विख्यातश्चन्द्र शालाविभूषितः ।
प्राग्ग्रीवेण विशालेन भूमिकास यदुच्छ्रितः ॥१४॥
अनेकचन्द्र शालस्तु गजः प्रासाद उच्यते ।
पर्यस्तो मृगराजस्तु गरुडो नाम नामतः ॥१५॥
सप्तभूम्युच्छ्रितस्तद्वच्चन्द्र शालात्रयान्वितः ।
अश्रिभिर्विहरं तस्य षड्भिर्युक्तः समन्ततः ॥१६॥
स्यादन्यो गरुडस्तद्वदुच्छ्राये दशभूमिकः ।
पद्मकः षोडशाश्रिः स्याद्भूमिकाद्वितयाधिकः ॥१७॥
पद्मतुल्यप्राणन वावृक्षश्चतुरश्रकः ।
पञ्चाण्डमे एकभूमिस्तु गर्भं हस्तचतुष्टयम् ॥१८॥
वृषो भवति नात्रायं प्रासादः सर्वकामिकः ।
सप्तकापञ्चकाभूमिप्रासादो य इहोदिताः ॥१९॥
हिंस्यते समा ज्ञेया ये चान्ये तत्प्रमाणकाः ।
विचित्रशिखराः कार्याश्चन्द्र शालाविभूषिताः ॥२०॥
सर्वे प्राग्ग्रीवसंयुक्ताः कर्तव्यास्तोरणान्विताः ।
ऐष्टिका दारवा यद्वा शैलजा वाजनाकुलाः ॥२१॥
स्यात्पञ्चाशत्करान्मेरुसूत्रलिङ्गं नवोदयान् ।
गर्भास्तु द्विगुणा लिङ्गाद्भित्तयः स्युश्चतुष्कराः ॥२२॥
अन्धारिका हस्तषट्कं विधातव्या समन्ततः
अन्धारिकां च कुर्वीत बाहाभित्तिं विचक्षणः ॥२३॥
अयं साधारकः प्रोक्तो मेरुः सर्वगुणान्वितः ।
प्रासादानां तथान्येषां गर्भो लिङ्गदिशंगुणः ॥२४॥
प्रासादगर्भमुत्सृष्टं यच्छेषं तेन कल्पयेत् ।
सहान्धारिकया सर्वां समभागेन पूर्ववत् ॥२५॥
मेर्वाद्या ये विमानान्ताः सं--- पूर्वं प्रकीर्तिताः
शस्तास्ते मृज्य लिङ्गानामन्येषां तु भयावहम् ॥२६॥
वावृक्षमुख्या ये तूक्ता नन्दिवर्धनपश्चिमाः ।
तेऽष्टौ शुभा मध्यमानामन्येषां दुःखदाः स्मृताः ॥२७॥
हंसादयः समुद्रा न्ताः पञ्च ये समुदाहृताः ।
प्रशस्तास्ते समुद्दिष्टा लिङ्गानां विधीयसा ॥२८॥
मन्दरस्तु करात्कायश्चत्वारिंशत्तु --- ।
--- लासो विमानोषरोष्टिताः ॥२९॥
हस्तद्वात्रिंशता कार्यः प्रासादो नन्दिवर्धनः ।
हस्तांस्तु नन्दनस्त्रिंशत्सर्वतोभद्र एव च ॥३०॥
अष्टाविंशतिमष्टाभिः श्रिः षोडशा श्रि स्त्रिभिर्विना ।
वर्तुलः पद्मकः श्वेतो विमानच्छन्द एव च ॥३१॥
एते द्वादशहस्ताः --- कार्या विंशतिहस्तकौ ।
गजः सिंहश्च कुम्भश्च वलभीछन्दकस्तथा ॥३२॥
चत्वार एते तुल्याः स्युर्हस्तोन्मेडसमानतः ।
वावृक्षो मृगराजश्च विमानच्छन्द एव च ॥३३॥
एते द्वादशहस्ताः स्युः प्रमाणेन पृथक्पृथक् ।
दशहस्तो भवेद्वा स गरुडोऽष्टकरः स्मृतः ॥३४॥
एतैः प्रमाणैः प्रासादान् कुर्यादित्यपरे स्थिताः ।
एकहस्ता द्विहस्ताश्च त्रिहस्ता ये च कीर्तिताः ॥३५॥
यक्षनागग्रहादीनां विधेया रक्षसां च ते ।
विधिरेष समुद्दिष्टः प्रासादानां समासतः ॥३६॥
विशेषेण पुनर्ब्रूमो विमानं शुद्धपुष्पकम् ।
चतुरश्रीकृते क्षेत्रे पञ्चात्रिंशद्विभाजिते ॥३७॥
रथिका पञ्चभागा स्याद्द्विभागं सलिलान्तरम् ।
कूट त्रिभागं पञ्जरं कुर्यात्प्राग्ग्रीवकविभूषितम् ॥३८॥
जलान्तरं द्वितीयं तु तदपि स्याद्द्विभागिकम् ।
शालैकादशभागा तु पूर्ववत्सलिलान्तरम् ॥३९॥
त्रिभागं पञ्जरं कुर्याद् द्विभागं सलिलान्तरम् ।
कूटं पञ्चकरं प्रान्ते दिक्षु सर्वास्वयं विधिः ॥४०॥
नागरोऽयं तलच्छन्दः प्रासादे शुद्धपुष्पके ।
जङ्घा सपीठा क्षेत्रार्धविस्तारसदृशोदया ॥४१॥
सार्धैर्द्वितीया दशभिस्तृतीया नवभिः करैः ।
अष्टहस्ता चतुर्थी स्यात्सप्तहस्ता तु पञ्चमी ॥४२॥
षष्ठी तु भूमिका कार्या प्रमाणेनास्य षट्करा ।
सप्तमी पञ्चहस्ता तु चतुर्हस्ता ततोऽष्टमी ॥४३॥
त्रिहस्तं वेदिकाबन्धं विचित्रं कारयेद्बुधः ।
विस्ताराद् द्विगुणोच्छ्रायः स्कन्धोऽयं वेदिकाबन्ध ॥४४॥
स्कन्धादूर्ध्वं भवेद्घण्टा यदि वामलसारकम् ।
तद् वर्तुलं शुभं कार्यं घण्टा स्कन्धार्धमुच्छ्रिता ॥४५॥
घण्टाविस्तारतः कुम्भं चतुर्थांशेन कारयेत् ।
प्रमाणं समुदायेन भूमिकानामुदाहृता ॥४६॥
एकैकस्या विशेषेण प्रविविच्याधुनोच्यते ।
प्रमाणेन विधातव्या खकारा भूमिरङ्गिका ॥४७॥
यं हस्तं तु खुरकं द्विभागा पद्मपत्रिका ।
भागिका कणकयायस्त्र्यंशं कुमुदं छेद एव च ॥४८॥
त्र्यंशस्तद्द्विगुणः कण्ठः किङ्किणीपल्लवान्वितः ।
तस्यार्धं पट्टिका कार्या तत्समा गिरिपत्रिका ॥४९॥
भात्र्यंशावरण्डीतमध्ये पच्छीतलार्धभागिकी ।
पूर्वप्रोक्तेन कण्ठेन समसूत्रा च सा भवेत् ॥५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:30.0400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

sciatic nerve

  • श्रोणि तंत्रिका, श्रेआणिसंधि तंत्रिका 
RANDOM WORD

Did you know?

Are there any female godesses in Hinduism?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site