TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१ ते ५०

भुवनकोशः पञ्चमोऽध्यायः - १ ते ५०

समराङ्गणसूत्रधार हा भारतीय वास्तुशास्त्र सम्बन्धित ज्ञानकोशीय ग्रन्थ आहे, ज्याची रचना धार राज्याचे परमार राजा भोज (1000–1055 इ.स.) यांनी केली होती.


भुवनकोशः पञ्चमोऽध्यायः - १ ते ५०
अथो यथाक्रमं भूमेः कृत्स्नायाः कथयामि ते ।
विष्कम्भपरिधी वत्स बाहुल्यमपि च स्फुटम् ॥१॥
विष्कम्भोऽस्याः समुद्दिष्टो दशयोजनकोटयः ।
लक्षाण्यपि च मेदिन्यास्तद्वदेकोनविंशतिः ।
विष्कम्भत्रिगुणो यावद्विष्कम्भांशश्च पञ्चमः ॥२॥
मेदिन्याः परिधिस्तावद्योजनैः परिकीर्त्तितः ।
द्वात्रिंशत्कोटयः षष्टिर्लक्षाणि परिधिः क्षितेः ॥३॥
अशीतिश्च सहस्राणि योजनानां प्रकीर्त्तितः ।
योजनानां सहस्राणि विंशतिर्लक्षयोर्द्वयम् ॥४॥
इति बाहुल्यमेतस्याः क्षितेर्वत्स तवोदितम् ।
चतुर्णां सलिलादीनां भूतादेर्महतोऽपि च ॥५॥
उत्तरोत्तरमुर्वीतो मानं शतगुणं विदुः ।
तोयादिषु स्थितेयं भूश्चक्रवद्वृत्तशालिनी ॥६॥
पात्रस्थापरपात्रश्रीहारीण्यन्यान्यपि क्रमात् ।
प्रमाणमिदमेतेषां क्षित्यादीनां तवोदितम् ॥७॥
द्वीपादीनां तु पाथोधिनिवेशः पुनरुच्यते ।
द्वीपानामम्बुधीनां च सप्तानामपि मध्यगः ॥८॥
जम्बूद्वीपो भवेद्वृत्तः सहस्रशतविस्तृतः ।
हिमाद्रि र्हेमकूटाख्यो निषधो नीलसंज्ञितः ॥९॥
श्वेतः शृङ्गी च षडमी भवन्त्यस्मिन् कुलाचलाः ।
एतस्मादुत्तरेणाद्रे स्तुषाराङ्कितमेखलात् ॥१०॥
पूर्वापरायताः सर्वेऽप्यद्र यो यावदम्बुधि ।
अन्तरा नीलनिषधौ जम्बूद्वीपस्य नाभिगः ॥११॥
वृत्तः पुण्यजनाकीर्णः श्रीमान् मेरुर्महाचलः ।
उदग्याम्यायते मेरोः प्राग्भागे माल्यवान् गिरिः ॥१२॥
सेवितः सिद्धनारीभिरानीलनिषधायतः ।
सुमेरोः पश्चिमेनाद्रि र्गन्धर्वकुलसङ्कुलः ॥१३॥
माल्यवत्सदृशायामो महीभृद्गन्धमादनः ।
पर्वताबुभयान्तस्थौ हिमवान् शृङ्गवांस्तथा ॥१४॥
योजनानां सहस्रे द्वे सार्धे स्यादुच्छ्रयस्तयोः ।
श्वेतश्च हेमकूटश्चेत्यन्तयोः पृथिवीधरौ ॥१५॥
योजनानां सहस्रार्धमेकैकस्योच्छ्रयस्तयोः ।
निषधाचलनीलाद्रि माल्यवद्गन्धमादनाः ॥१६॥
सहस्रयोजनोच्छ्रायाश्चत्वारोऽमी पृथक्पृथक् ।
एतेऽष्टावपि शैलेन्द्राः सहस्रद्वयविस्तृताः ॥१७॥
उच्छ्रयार्धमधश्चापि विलग्नाः सह मेरुणा ।
मेरोः समुच्छ्रयोऽशीतिः सहस्राणि चतुर्युता ॥१८॥
षोडशाधः सहस्राणि द्वात्रिंशन्मूर्ध्नि विस्तृतिः ।
जम्बूतरुर्महान् मध्ये सुमेरोर्निषधस्य च ॥१९॥
द्वीपस्यामुष्य यद्योगाज्जम्बूद्वीप इति श्रुतिः ।
शृङ्गैर्हिमशिलानद्धैः सर्वतो हिमवानयम् ॥२०॥
महान्तो निवसन्त्यत्र पिशाचा यक्षराक्षसाः ।
कूटैर्हेममयैर्हेमकूट इत्यवनीधरः ॥२१॥
यं सर्वतो निषेवन्ते सदा चारणगुह्यकाः ।
तरुणार्कप्रभाजालप्रतिमो निषधाचलः ॥२२॥
निवसन्ति सुखं तत्र शेषवासुकितक्षकाः ।
हेमाब्जकर्णिकाकारः सुमेरुर्मणिकन्दरः ॥२३॥
अत्रामराः साप्सरसस्त्रयस्त्रिंशद्वसन्ति ते ।
वैडूर्यनद्धैः शिखरैर्नीलो नीलमहीधरः ॥२४॥
कलयन्ति तपोनित्या यत्र ब्रह्मर्षयः स्थितिम् ।
श्वेतः स काञ्चनैः शृङ्गैर्गगनोल्लेखिभिर्वृतः ॥२५॥
दोर्दर्पशालिनां यत्र निवासस्त्रिदशद्विषाम् ।
महानीलमयो बर्हिपिच्छच्छायो बहिर्महान् ॥२६॥
पितॄणामालयः शृङ्गैरुच्छ्रितैः शृङ्गवान् गिरिः ।
हिमाचलस्य याम्येन क्षाराब्धिवृतमन्यतः ॥२७॥
वर्षं स्याद्भारतं नाम प्रथमं कार्मुकाकृति ।
तुषारनिलयस्याद्रे र्हेमकूटाचलस्य च ॥२८॥
मध्ये किंपुरुषं नाम द्वितीयं वर्षमीरितम् ।
अन्तरे हेमकूटस्य निषधस्य च भूभृतः ॥२९॥
हरिवर्षमिति प्रोक्तं तृतीयं वर्षमुत्तमम् ।
निषधाचलनीलाद्रि माल्यवद्गन्धभूभृताम् ॥३०॥
चतुर्णां मध्यगं वर्षं तुर्यमस्मिन्निलावृतम् ।
उत्तरे नीलशैलस्य याम्ये च श्वेतभूभृतः ॥३१॥
पञ्चमं वर्षमत्यर्थरम्यं रम्यकसंज्ञितम् ।
श्वेतशृङ्गवतोः शैलराजयोरनयोरिह ॥३२॥
मध्ये षष्ठं हिरण्यांशुरम्यं हैरण्यकाद्वयम् ।
अस्योत्तरे शृङ्गवतो याम्ये च क्षारवारिधेः ॥३३॥
कुरुवर्षाभिधं वर्षमुत्तरेण प्रचक्षते ।
अन्तरा नीलनिषधौ प्राग्भागे माल्यवद्गिरेः ॥३४॥
भद्रा श्वमष्टमं वर्षं प्राक्समुद्रा न्तमीरितम् ।
गन्धमादनशैलस्य प्रत्यक् प्राक्चापराम्बुधेः ॥३५॥
नवमं वर्षमाचार्याः केतुमालं प्रचक्षते ।
इति प्रोक्तानि वर्षाणि नवामूनि मया तव ॥३६॥
साम्प्रतं पुनरेतेषां प्रमाणमवधारय ।
प्रमाणेन सहस्राणि चतुस्त्रिंशच्चतुर्दिशम् ॥३७॥
योजनानामिहेच्छन्ति चतुरश्रमिलावृतम् ।
प्राक्प्रत्यग्भागगे वर्षे तस्योदग्याम्यतः समे ॥३८॥
एकत्रिंशत्सहस्राणि किञ्चित् प्राक्प्रत्यगायते ।
यान्युक्तानि षडन्यानि वर्षाण्येभ्योऽवराणि ते ॥३९॥
तेषां नवसहस्राणि प्रत्येकं विस्तृतिर्मता ।
वर्षे किम्पुरुषे नार्यो नराश्च प्लक्षभोजनाः ॥४०॥
जीवन्त्ययुतमब्दानां जात्यजाम्बूनदत्विषः ।
हरिवर्षे नरा नार्यो वसन्तीक्षुरसाशिनः ॥४१॥
सायुतं च सहस्रं ते जीवन्ति रजतत्विषः ।
इलावृते नराः पद्मरागभासोद्गतास्तथा ॥४२॥
जम्बूफलरसाहाराः सपादायुतजीविनः ।
नास्मिन् मेरुतटच्छन्ने तारकार्केन्दुरश्मयः ॥४३॥
स्वाङ्गप्रभाभिः किन्त्वत्र कृतोद्योता वसन्त्यमी ।
कैरवोदरसच्छाया भद्रा श्वे साङ्गना नराः ॥४४॥
नीलाम्रकफलाहारा भवन्त्यत्रायुतायुषः ।
दलत्कुवलयश्यामाः केतुमाले शरीरिणः ॥४५॥
शरदामयुतं तेषामायुः पनसभोजिनाम् ।
श्वेताभो रम्यके रम्ये न्यग्रोधफलभुग्जनः ॥४६॥
हरिवर्ष इव प्रोक्तमेतस्मिन् मानमायुषः ।
श्यामत्विषः स्त्रियो वर्षे पुमांसश्च हिरण्यके ॥४७॥
जीवन्त्ययुतमब्दानां सर्वेऽपि लकुचाशिनः ।
कुरुष्वभीष्टदैर्वृक्षैर्जीवन्ति स्त्रीयुता नराः ॥४८॥
सपादमयुतं देवगर्भभा गौरकान्तयः ।
पुण्यकर्मा वसत्येषु वर्षेषु निखिलो जनः ॥४९॥
शोकव्याधिजरातङ्कशङ्कोन्मुक्तः सदा सुखी ।
वनैः कीर्णानि सर्वाणि कुसुमस्तबकानतैः ॥५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:21.3500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

macrobiota

  • पु. Zool. स्थूलजीवसमूह 
RANDOM WORD

Did you know?

shatshastra konati?
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site