संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
५१ ते १००

पताकादिचतुष्षष्टिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः - ५१ ते १००

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


कर्तव्यः सोत्रनाशास्यं विधानेन समीपरा ।
पाणिः कृतभ्रुकुटिना तत्रोद्वस्तोङ्गुलिद्वयः ॥५१॥
अधोमुखं प्रस्थिताभ्यामङ्गुलीभ्यां प्रदर्शयेत् ।
चलाभ्यां मुकुलाभ्यां च हस्तस्यास्यैव पद्यदान् ॥५२॥
दर्शयेत्पाणियुग्मेन कदाचित् पक्षिणो लघून् ।
पवनप्रभृतींश्चैव पदार्थानपरानपि ॥५३॥
चलिताङ्गुलिना हस्तद्वयेनाद्योनति---स्या ।
अधोमुखेन वा स्रोतो दर्शयेत् सर्पता पुरः ॥५४॥
ऊर्ध्वावस्थितिना गङ्गास्रोतः सूत्रनिभेन च ।
अधो विनमता पाणिद्वितयेन प्रदर्शनायेत् ॥५५॥
पुरः प्रसर्पतैकेन चलता विकृताननः ।
हस्तेन सर्पाभिनयं विदधीत विचक्षणः ॥५६॥
अङ्गुलिद्वितयेनाधोमुखेनाश्रुप्रमार्जनम् ।
कुर्यात्कनीनिकाडेशसर्पिणा विनताननः ॥५७॥
अधश्चार्धं च सर्पन्त्या भालदेशे त्वनामया ।
तिलकं रचयेदेका सुन्द्र स्य भ्रलतां शये ॥५८॥
चैवानामिकया कार्या स्याद्रो चनाक्रिया ।
आलभ्य रोचनां मूर्ध्नि तथैव च विचिक्षिपेत् ॥५९॥
तथैव च विधातव्यमलकनो प्रदर्शनम् ।
उत्तानितेन हासश्च त्रिपताकेन पाणिना ॥६०॥
चदनेस्याग्रह स्तिर्यगङ्गुलिद्वयचालनात् ।
त्रिपताकाङ्गुलीभ्यां तु चलिताभ्यामुरोग्रतः ॥६१॥
शिखण्डिशारिकाकारकोकिलादीन् प्रदर्शयेत् ।
हस्तस्यानुगतां दृष्टिं त्रैलोक्य --- कारयेत् ॥६२॥
इति त्रिपताकः ।
त्रिपताके यदा हस्ते भवेद् पृष्ठावलोकिनी ।
तर्जनी मध्यमायाश्च तदासौ कर्तरीमुखः ॥६३॥
नमता संयुतेनेतस्ततः सञ्चरणं पदैः ।
तेतस्य स्तंद्वंलनंत्वं हि युगस्य तदमातया ॥६४॥
अधोमुखेन कर्तव्यमतेचैव रङ्गणम् ।
ललाटवर्तिना शृङ्गं संयुतेनोन्नतभ्रुवा ॥६५॥
प्रदर्शयेदुल्लिखता लेख्यमभ्युन्नतभ्रुवा ।
अधोमुखेन चैकेन तथाधो नमता मनाक् ॥६६॥
दर्शयेत् पतनं वाधो गच्छता मरणं तथा ।
नमतेतस्ततः शक्रविक्षेपेण विवर्जितम् ॥६७॥
पाणिना व्रजता भेस्ता कुञ्चितभ्रूर्नमच्छिराः ।
न्यस्तं प्रदर्शयेत् कार्यादृकसंयम्यमाचस्तं कुर्यान्निर्घाटनं तथा ॥६८॥
पीनं वालद्रुमीः कञ्चुकरानुगा ।
इति कर्तरीमुखः ।
यस्याङ्गुल्यस्तु विनताः सहाङ्गुष्ठेन चापवत् ॥६९॥
सोऽर्धचन्द्र इति प्रोक्तः करः कर्मा च कथ्यते ।
तेनोन्नतभ्रूरेकेन शशिलेखां प्रदर्शयेत् ॥७०॥
मध्यस्यौ यस्य मायस्तं कुर्यान्निर्घाटनं तथा ।
पीनं बालद्रुमाः कम्वु कलशा वलयानि च ॥७१॥
प्रदर्शनीयान्येतेन संयुतेनेति चापरे ।
रशनाकुण्डलादीनां तलपत्रस्य चामुना ॥७२॥
कटीजघनयोश्चाभिनयस्तद्देशवर्तिना ।
अस्याप्यनुगता दृष्टिः कार्या सर्वत्र नर्तकैः ॥७३॥
इत्यर्धचन्द्रः ।
आद्या धनुर्नता कार्या कुञ्चितोऽङ्गुष्ठकस्तथा ।
शेषा भिन्नोर्ध्ववलिता अरालेऽङ्गुलयः स्मृताः ॥७४॥
असृतेनारतोतेन किञ्चिदभ्युत्थितेन च
सत्त्वशौण्डीर्यगाम्भीर्यधृतिकान्तीः प्रदर्शयेत् ॥७५॥
दिव्याः पापार्ध ये चान्ये तानप्यविकृताननः ।
दर्शयेदुन्नतभ्रूश्च पाणिनानेन नर्तकः ॥७६॥
आशीर्वादं तथा कानां स्त्रीकेशग्रहणं च यत् ।
निर्वर्णनं च सर्वाङ्गमात्मनो यद्विधीयते ॥७७॥
उत्कर्षणं च तत्सर्वं कार्यमभ्युन्नतभ्रुवा ।
दर्शयेद्धस्तयुग्मेन प्रदक्षिणगतेन च ॥७८॥
विवाहं संप्रयोगं च कौतुकानि बहूनि च ।
अङ्गुल्यग्रसमायोगरचितस्वस्तिकेन च ॥७९॥
परिमण्डलयातेन प्रादक्षिण्यं प्रदर्शयेत् ।
परिमण्डलसंस्थानं तथानेन महाजलम् ॥८०॥
द्र व्यं महीतले यच्च रचितं तत्प्रदर्शयेत् ।
दानं वारणमाह्वानमनेकवचनं तथा ॥८१॥
दर्शयेच्चलता तेन हस्तेनासंयुतेन च ।
स्वेदापनयनं कार्यं गन्धाघ्राणं तथामुना ॥८२॥
तत्प्रदेशे प्रवृत्तेन पाणिना नृत्तकोविदैः ।
योषितां विषये चैष पाणिना प्रायेण युज्यते ॥८३॥
कर्माण्येतानि सर्वाणि त्रिपताकः सदाचरेत् ।
नाहमित्यभिनेतव्यमस्याडशस्थितेन च ॥८४॥
अस्यानुयायिनीं दृष्टिं विदधीत भ्रुवौ तथा ।
इत्यरालः ।
अरालस्य यदा वक्रानामिका त्वङ्गुलिर्भवेत् ॥८५॥
शुकतुण्डः स विज्ञेयः कर्म चास्याभिधीयते ।
न त्वमित्यमुना तिर्यक्प्रसृतेन प्रदर्शयेत् ॥८६
व्यावृत्तेन तु हस्तेन न् कृत्यमिति निर्दिशेत् ।
प्रसारितेन पुरतो नमताभिमुखं मुहुः ॥८७॥
कुर्यादावाहनं तिर्य --- मातु विसर्जनम् ।
व्यावृत्तेन तु हस्तेन न कृत्यमिति वारताम् ॥८८॥
अवेक्षे निपोनिषेक --- परावृत्तेन शस्यते ।
दष्टिभ्रुवौ चानुगते हस्तस्यास्य समाचरेत् ॥८९॥
इति शुकतुण्डः ।
अङ्गुल्यो यस्य हस्तस्य तलमध्येऽग्रसंस्थिताः ।
तासामुपरि चाङ्गुष्ठः स मुष्टिरभिधीयते ॥९०॥
एष प्रहारे व्यायामे कार्यः सभ्रुकुटीमुखैः ।
पार्श्वस्थहस्तयुग्मेन निर्गमे तु विधीयते ॥९१॥
इति मुष्टिः ।
यष्यतिग्रहणमात्रमर्धने स्तनपीडने ।
असंयुतो विधातव्यो सुदृष्टिभ्रवो तथा ॥९२॥
अस्यैव तु यदा मुष्ठेरूर्ध्वोऽङ्गुष्ठः प्रयुज्यते ।
हस्तः स शिखरो नाम तदा ज्ञेयः प्रयोक्तृभिः ॥९३॥
अयं वामो विधातव्यः कुशरश्मिचतुर्हि--- ।
हस्तद्वयं व्याप्रियतो सृणिग्रहणकर्मणि ॥९४॥
शक्तितोमरमोक्षे तु सव्यहस्तः प्रयुज्यते ।
पादौष्ठञ्जने चैव चलिताङ्गुष्ठको भवेत् ॥९५॥
अलकस्य समुत्क्षेपे तत्प्रदेशस्थितो भवेत् ।
कुर्यादनुगतामस्य दृष्टिभ्रयुगलं तथा ॥९६॥
इति शिखरः ।
अस्यैव शिखराख्यस्य द्व्यङ्गुष्ठकनिपीडिता ।
यदा प्रदेशिनी वक्रा स कपित्थस्तदा स्मृतः ॥९७॥
चापतोमरचक्रासिशक्ति चक्रांगदाविना ।
एतेनान्यानि शस्त्राणि सर्वाण्यभिनयेद्बुधः ॥९८॥
सत्यप्यभिनये जन्म --- विक्षिपेन्मुहुः ।
अत्रापि हस्तानुगतं दृष्टिभ्रूकर्म शस्यते ॥९९॥
इति कपित्थः ।
उत्क्षिप्तवक्रा तु यदा तां कार्या स कनीयसी ।
अस्यैव तु कपित्थस्य पदांशौषटकमुखः ॥१००॥

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP