TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१०१ ते १५७

लिङ्गपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः - १०१ ते १५७

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


लिङ्गपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः - १०१ ते १५७
वृत्तं व्यक्तेषु न हितं विनाशादि --- ।
विधिना पृथिवी --- पोवकी पूर्णसंज्ञिता ॥१०१॥
भाभावती त्रपाक्षी च गण्यन्ते ताश्च नामतः ।
इन्द्रा दिलोकपालानां कार्या लिङ्गे व्यचसु क्रमात् ॥१०२॥
ऐशानलिङ्गे रौद्रा न्ति---या पीठिका भवेत् ।
ते चैतासु त्रयेऽन्यास्तु भुक्तिमुक्तिफलप्रदा ॥१०३॥
पपापपावरावापी वज्ज चन्द्र कला स्मृता ।
संवर्ता नन्दिकावर्ते चैताः साधारणा मताः ॥१०४॥
अथ लक्षणमेतेषां तासां सर्वासामभिधीयते ।
ऐन्द्र लिङ्गा वृत्ता पृथ्वी स्तम्भादौ चतुरश्रिका ॥१०५॥
चतुरश्रस्य यः कर्णस्तच्चतुर्थांशमष्टधा ।
कृत्वांशसप्तकेनास्य तुर्यात्तर्गत्सकल्पनात् ॥१०६॥
पाश्चात्यभागयोः पार्श्वे बहिः सूत्रस्थितावथे ।
वृत्तद्वयस्य भ्रमणं विदधीत विचक्षणः ॥१०७॥
चतुरश्रे पुरोगर्भसूत्राष्टस्यासवर्धनात् ।
कृतपत्रभमुद्देशं पार्श्वाभ्यां सूत्रमात्रयेत् ॥१०८॥
लोपनात् त्यक्तभागस्या होतासि पीठिका भवेत् ।
आग्नेयलिङ्गं स्याच्छत्रुनाशसन्तापदाहकृत् ॥१०९॥
क्षेत्रे---चतुरश्रेऽस्य द्वादशांशं परित्यजेत् ।
पामदो गर्भनस्तेन वृत्तस्यार्धं समालिखेत् ॥११०॥
इत्यर्धचन्द्रा कारोऽयं सामी भवति पीठिका ।
याम्यलिङ्गस्य नगरादिक्षिणास्था रिनाशनी ॥१११॥
चतुरश्रे विभागार्धवर्धनात्पार्श्वयोर्द्वयोः ।
परिस्वी भागवृद्ध्या च सूत्रद्वयनिपातनात् ॥११२॥
रौत्संत्तत्या नैरृती स्त्रीमरणद्वेषरोगकृत् ।
पूर्वचन्द्र माकृतिर्णा वारुणी परिमेखला ॥११३॥
शान्तिके पौष्टिके चाथ मृत्युनाशेने च पीठिका ।
प्रतीच्यो षडंशस्य वृद्धिं कृत्वा --- तः ॥११४॥
गर्भाव वृत्तलेखेन यत्सम्पातचतुष्टयम् ।
कर्णाभ्यकर्णं भवेत्तेन वृत्तस्थानद्वयेन च ॥११५॥
षडश्रं सममालेख्यं यद्वा वज्रसमाकृति ।
नाभस्वती पीठिका स्यात् पर्णेनिर्मरुतो दिशि ॥११६॥
कर्मसूच्चाटनाद्येषु विनियोज्या जिगीषुभिः ।
याक्षी त्रिमेखला वृत्ता वित्ताप्त्यै धनदार्चिते ॥११७॥
गणाद्विमखलाष्पश्रितः ।
कुर्वीतैकेन खुरकं चतुर्भिर्जाड्यकुम्भकम् ॥११८॥
द्वाभ्यामञ्जं तथैकेन प्रवेशोऽत्र जाड्यकुम्भस्य शस्यते ।
अञ्जूयस्य चतुर्भिस्तैः कर्णिकाया द्वये नराः ॥११९॥
एकेन कण्ठकश्चातो निर्यात्येकेन कर्णिका ।
विभाजैरं पुशं षड्भिस्ततश्चैकेन मेखलाः ॥१२०॥
पद्मयं पीठिका ख्याता सर्वकामप्रदायिनी ।
क्षेत्रे षोडशधा भक्ते भागेन खुरको भवेत् ॥१२१॥
चतुर्भिर्जरातां कुम्भस्त्रिभिरेकेन कर्णिका ।
त्रिभिः कण्ठश्चतुर्भिश्च पूर्ववन्निर्गमो भवेत् ॥१२२॥
इयं --- व्यक्तलिङ्गेषु पीठका स्यात्पयोधरा ।
एवंविधैव चापीठ स्यात्किंमुच्यक्तो लक्षणे ॥१२३॥
भक्ते द्वादशभिः पीठमानं द्विर्भागिको भवेत् ।
जगतीति त्रिभिः कुसे द्वाभ्यामेकेन वेदिका ॥१२४॥
कण्ठो द्वाभ्यामथैकेन वेदिका पुनरुत्तरा ।
एकैकेन तु भागेन ततः स्यात्पीठिकाद्वयम् ॥१२५॥
एवं षडश्रा कर्तव्या वज्राक्षा पीठिका बुधैः ।
पीठिका क्षेत्रेण निर्भक्तषो भागेन खुरको भवेत् ॥१२६॥
द्वाभ्यां जङ्घाथ भागेन वेदी द्वाभ्यां तु कण्ठकः ।
उभयाभ्यां निर्गमः सा स्त्रीच्छि चन्द्र कला भवेत् ॥१२७॥
आपायनाययुद्यौ च पदारेखैव चामृता ।
भवेत् षण्मेखलादर्धादूर्ध्वकण्ठोऽथ भागिकः ॥१२८॥
पट्टिकात्रितयं शेषे क्षेत्रे स्यान्निर्गमान्तरम् ।
रुद्रा र्चिता पीठिकेयं संवर्तेत्यभिधानतः ॥१२९॥
यां कृत्वा प्रकृतेरूर्ध्वं गताः संवर्तकादयः ।
रुद्रा वोथस्तराख्यं ते भेजिरे पदमव्ययम् ॥१३०॥
षोढा पीठोदये भक्ते भागं स्यात्पट्टिकात्रयम् ।
एकेन कण्ठो भागेन पट्टिकान्यापि भागिका ॥१३१॥
नन्द्यावर्ताङ्किता सेयं नन्द्यावर्तेति कीर्तिता ।
साधारणीयं सर्वेषां लिङ्गानां सर्वसिद्धिदा ॥१३२॥
भवाकण्ठसुवासध्यानामियं सिद्धखुरा ।
दोदेरन्योनमिथै भवन्त्यन्याश्च पीठिकाः ॥१३३॥
मानसंस्था न कथितास्तासामानन्त्यकारणात् ।
त्र्यंशेन गर्तः स्यादासां षोडशांशेन मेखला ॥१३४॥
खातश्च नेयः श्वभ्रान्तं मेखलामध्यतो ह्यसौ ।
प्राणालार्घासमा दैर्घ्यविस्ताराभ्यामुदद्गिशि ॥१३५॥
पञ्चाशद्विशयंस्ताल सद्वयंमन्तरा ।
सदांसद्विभयं प्रान्ते खातोऽग्रे द्विगुणामुखान् ॥१३६॥
सार्धाभमेखला कार्याः प्राणालः स्वसृतं भागतः ।
गुणागुणास्त्रयो लिङ्गे तान्यापत्रेव भावयेत् ॥१३७॥
आवर्ताः शोभनाकाराः शुभाः स्यु --- धः ।
नतु पीठब्रह्मशिले शस्ते लिङ्गजात्यनुगे सदा ॥१३८॥
गर्भकर्णचतुर्थांशमाना स्याद्ब्रह्मणः शिला ।
--- गस्य कर्णेन यद्वा ब्रह्मशिला भवेत् ॥१३९॥
याताभिधेक ब्रह्मशिला ब्रह्मांशतो भवेत् ।
तावताभ्यधिका कार्या तस्याः कर्मशिला बुधैः ॥१४०॥
स्थापयेत्पुरुषत्रया शिवं मध्ये निवेशयेत् ।
ब्रह्माणं दक्षिणेनास्य वामतः पुरुषोत्तमम् ॥१४१॥
अन्यथास्थापनादेषां प्रत्यवायो महान् भवेत् ।
त्रिभागौना शचा स्यातां कोशान्तश्चक्रिणो भवेत् ॥१४२॥
त्रिभागोनस्तिवासातां कोशान्तश्चक्रिणो भवेत् ।
त्रिभागोन्नतस्यादान्तः कोकस्यान्तः पद्मजन्मनः ॥१४३॥
ब्रह्मविष्णुमहेशानां --- निवेशने ।
प्रमाणमेतेषु द्विश्च पृथक्स्थानां यदृच्छया ॥१४४॥
उमामहेश्वरौ यत्र तत्रोमा ब्रह्मविष्णुवत् ।
आकाशे प्रतिमा येष्टा चत्वारिंशच्च पञ्च च ॥१४५॥
हस्तान् कार्या त्रिभागोना मध्या हीना तदर्धतः ।
यात्राथा प्रतिमा द्वारप्रमाणेन विधीयते ॥१४६॥
तच्च द्वारं त्रिधा भक्त्वा पीठं भागेन कल्पयेत् ।
द्वाभ्यां तु प्रतिमा कार्या ज्येष्ठायां मानमीदृशम् ॥१४७॥
मध्यायां नवधा द्वारं कृत्वैकं भागमुत्सृजेत् ।
शेषान् भागान् त्रिधा कृत्वा पीठं भागेन कल्पयेत् ॥१४८॥
अर्चामुभाभ्यां हीनायां विदध्याद् द्वारमष्टधा ।
एकमुत्सृज्य शेषेण --- ॥१४९॥
पीठात् तत् त्रितयेनार्चामुपविष्टां प्रकल्पयेत् ।
द्वारस्यार्धं त्रिधा कृत्वा द्वाभ्यां पीठं विधीयते ॥१५०॥
चाकॢप्तिरुक्तवतयद्वा द्वेधा चतुर्धा वा द्वारं कृत्वैकमुत्सृजेत् ।
शेषं भागत्रयं कृत्वा पीठमर्चां च पूर्ववत् ॥१५१॥
द्वारोच्छ्रितेः पञ्चदशभागं कृ त्यक्त्वा विधीयते ।
भागत्रयं तदेकेन पीठमर्चां तु तद्द्वयात् ॥१५२॥
भागान् पञ्च विधीयेत यदि वा भागयुग्मतः ।
पीठं तत् त्रितयेनार्चामुपविष्टां प्रकल्पयेत् ॥१५३॥
द्वारस्यार्धं त्रिधा कृत्वा द्वाभ्यां पीठं विधीयते ।
भागेनार्चाशयानागार्धेऽर्चां वेश्मानुसारतः ॥१५४॥
भक्ते प्रासादगर्भार्धे दशधा पृष्ठभागतः ।
पिशाचरक्षोदनुजाः स्थाप्या गन्धर्वगुह्यकाः ॥१५५॥
आदित्यचन्द्रि काविष्णुब्रह्मेशानान्ता पदक्रमात् ।
गर्भे षड्भागभक्ते वा त्यक्त्वैकं पृथता शत ।
स्थापनं सर्वदेवानां पञ्चमेंऽशे प्रशस्यते ॥१५६॥
यदङ्गप्रत्यङ्गप्रहरणगतं लक्ष्म विततं ।
तदर्थानां चित्रकनावधो वाच्यमक्ष्य ।
सपीठार्चा लिङ्गोन्मपि विदित्वा वहुमतो ।
भवेद्भूपालानां कृतिभिरपि पूज्येत सकलैः ॥१५७॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे ङ्गिपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-20T19:57:46.8130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मन्यु (वासिष्ठय)

RANDOM WORD

Did you know?

आत्म्याची किती आणि कोणती रूपे मानली गेली आहेत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.