TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१०१ ते १४८

पुरनिवेशो दशमोऽध्यायः - १०१ ते १४८

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


पुरनिवेशो दशमोऽध्यायः - १०१ ते १४८
N/Aनिघेया वणिजो वैद्या मुख्याश्चापि चतुर्दिशम् ।
चतुर्दिशं विशेषेण स्थापयीत बलानि च ॥१०१॥
नगरस्य बहिः प्राच्यां लिङ्गस्थान् विनिवेशयेत् ।
श्मशानानि तथा तत्स्थान् याम्यायां स्थपतिः सुधीः ॥१०२॥
सर्वतोदिशमुद्दिष्टो विभागो नगरे यथा ।
तथा ग्रामेषु खेटेषु सेनायाश्च निवेशने ॥१०३॥
नगराभिमुखौ कार्यौ संपूर्णाङ्गमहोदयौ ।
द्वारे द्वारे सौम्यमुखौ लक्ष्मीवैश्रवणौ शुभौ ॥१०४॥
राष्ट्रं खेटमथ ग्रामं पश्यन्तेतपुरं महत् ।
तत्रारोग्यार्थसंसिद्धी प्रजाविजयमादिशेत् ॥१०५॥
क्लेशबन्धवधैर्लोकाः स्युर्मिथः सूत्रहिंसकाः ।
ग्रामं खेटं पुरं राष्ट्रं यदेतौ नैव पश्यतः ॥१०६॥
स्थाप्यन्ते ये यथा देवा नगरे सर्वतोदिशम् ।
बाह्यान्तरासु भूमीषु ब्रूमहे तानतःपरम् ॥१०७॥
चतुर्दिशं समारभ्य प्राकारपरिखान्ततः ।
बहिः शते शते सार्धे धनुषां द्विशतेऽपि च ॥१०८॥
धनुःशतमितैः शुद्धैरनिन्द्यैर्धरणीतलैः ।
स्वस्वप्रासादयुक्तानि स्वस्वानुगगृहैः सह ॥१०९॥
निवेशनानि कुर्वीत त्रिदशानां यथाक्रमम् ।
नगराभिमुखं चित्रवनभाञ्जि शुभानि च ॥११०॥
याम्योत्तरायतं वंशं विकल्पपुरमध्यगम् ।
बहिरन्तश्च कुर्वीत देवानां विनिवेशनम् ॥१११॥
प्राच्यां प्रत्यङ्मुखान्कुर्यात्प्राङ्मुखांश्चाम्बुभृद्दिशि ।
याम्योदकपार्श्वयोस्तस्य प्रादक्षिण्येन वंशगान् ॥११२॥
दक्षिणस्यां न कुर्वीत त्रिदशानप्युदङ्मुखान् ।
चैत्यशानित्सभायक्षमातृप्रथमयान्विताः ॥११३॥
इत्यमी कथिताः सम्यग्ये यथादिङ्मुखाः सुराः ।
दिक्षु दिक्षु बहिर्ये स्युस्तानिदानीं प्रचक्ष्महे ॥११४॥
विष्णोर्दिनाधिनाथस्य सहस्रनयनस्य च ।
धर्मस्य च विधातव्यं दिशि प्राच्यां निकेतनम् ॥११५॥
सनत्कुमारसावित्र्योर्मरुतां मारुतस्य च ।
पूर्वदक्षिणदिग्भागे विदधीत निकेतनम् ॥११६॥
गणेशमातृभूतानां याम्ये प्रेतपतेर्गृहम् ।
भद्र काल्याः पितॄणां स्याद्वेश्म चैत्यं च नैरृते ॥११७॥
सागरस्य नदीनां च शिल्पिभर्तुः प्रजापतेः ।
निलयं पश्चिमाशायां विदध्याद्वरुणस्य च ॥११८॥
फणिनां भवनं कार्यमपरोत्तरदिग्गतम् ।
शनैश्चरस्य चात्रैव कात्यायन्याश्च मन्दिरम् ॥११९॥
विशाखस्कन्दसोमानां तथा यक्षाधिपस्य च ।
पृथक्पृथग्विधातव्याः प्रासादाः सौम्यदिग्गताः ॥१२०॥
जगद्गुरोर्महेशस्य श्रियो वह्नेश्च मन्दिरम् ।
पूर्वोत्तरस्यां ककुभि प्रविधेयं मनोरमम् ॥१२१॥
नदीनामम्बुधीनां च समन्तान्नगरस्य च ।
कान्तारेष्वद्रि षु स्थानं सर्वत्रेष्टमुमापतेः ॥१२२॥
निवेश्यन्ते स्वदिग्भागेष्वेवं यस्मिन् सुरोत्तमाः ।
सम्यक्समृद्धिमासाद्य चिरं नन्दति तत्पुरम् ॥१२३॥
नगरस्य विदूरेऽपि ककुप्सु निखिलाखपि ।
बाह्यतोऽभिमुखा देवाः शस्यन्ते न पराङ्मुखाः ॥१२४॥
क्रियते यदि भूभागे वंशेन स पराङ्मुखः ।
विधिमेनं तदा तस्मिंस्तज्ज्ञः शास्त्रोक्तमाचरेत् ॥१२५॥
तद्वेषवर्णभूषास्त्रवाहनैरन्वितं सुरम् ।
तद्भित्तौ प्रकटाकारं नगराभिमुखं लिखेत् ॥१२६॥
वैकङ्कतशमीबिल्वैः क्षीरकण्टकिभिर्द्रुमैः ।
उदपानाग्न्यगारेषु स्यान्न दोषोऽन्तरस्थितैः ॥१२७॥
अर्चाश्रितेष्वयं प्रोक्तो विधिर्नालेग्व्यवर्तिषु ।
कर्तव्याः सर्वतोवक्त्रास्तस्माच्चित्रगताः सुराः ॥१२८॥
विधानं यद्यथा प्रोक्तं सुरधाम्नां पुराद्बहिः ।
तत्तथाभ्यन्तरेऽपि स्यात्कार्यं स्वस्वदिगाश्रयम् ॥१२९॥
मध्ये पुरस्य कर्तव्यं गृहमम्भोजजन्मनः ।
निवेशनं तथेन्द्र स्य तथैव हलिकृष्णयोः ॥१३०॥
मातृयक्षगणाधीशान् शिवकान् भूतसङ्घकान् ।
विनापि वेश्मभिः कुर्यात्पुरे चत्वरमार्गगान् ॥१३१॥
राज्ञा वर्णाश्रमकलापण्यशिल्पोपजीविनः ।
स्वदिक्पदस्थाः कर्तव्यास्ते देवाश्चेच्छता श्रियम् ॥१३२॥
प्रासादे सति भक्तीच्छाशक्तियुक्तो यदापरम् ।
प्रासादं कारयेत्पूर्वं न तदा पीडयेत् सुधीः ॥१३३॥
प्रतिवेश्म प्रतिग्रामं प्रतिदेवकुलं तथा ।
कुर्यात्प्रतिपुरं चापि न प्राङ्मानगुणाधिकम् ॥१३४॥
पूर्वप्रासादतो रुद्र सोमयोर्ब्रह्मणोऽथवा ।
प्रासादे विहितेऽन्यस्मिन् भवेत् पीडाग्रजन्मनाम् ॥१३५॥
कृते धाम्न्यधिकेऽन्यस्मिन् वह्नेर्वाचस्पतेरुत ।
पुरोधसां भयं विद्याद्ध्रुवं ज्योतिर्विदां तथा ॥१३६॥
धनाधिपामराधीशयमानां वरुणस्य वा ।
अधिकेविहिते धाम्नि भयं विद्यान्महीपतेः ॥१३७॥
स्कन्दधाम्नोऽधिकेऽन्यस्मिन् विहिते तस्य वेश्मनि ।
सेनापतेर्बलानां च पीडा सञ्जायते ध्रुवम् ॥१३८॥
प्रजापतेरभ्यधिकं हरेर्वान्यत् कृतं गृहम् ।
कर्तुः कारयितुश्च स्याद्बन्धाय च विनष्टये ॥१३९॥
गणेशयक्षफणिनामधिकोऽन्यः कृतो यदि ।
प्रासादः स्यात्तदा नित्यं सेनाङ्गानां महद्भयम् ॥१४०॥
स्त्रीनाम्न्यो देवतास्तासां पीड्यन्ते यदि वेश्मभिः ।
मुख्यानां पुरनारीणां तदा कुर्वन्त्युपद्र वम् ॥१४१॥
पूर्वामरेषु सर्वेषु पीडितेष्वमरालयैः ।
अन्यैस्तल्लिङ्गिनां पीडा चैत्यैर्वा चैत्यपीडितैः ॥१४२॥
हीनाधिकप्रमाणेषु दुर्निविष्टेषु धामसु ।
कर्तुः कारयितुः पीडा स्यान्न पूजा तथास्य च ॥१४३॥
नैवातिसंभृतं कुर्यात्स्वल्पमल्पामरालयम् ।
पुरं चानाश्रितं कुर्याद् वेधभागाश्रितं न च ॥१४४॥
ज्येष्ठमध्यकनिष्ठानि नवषट्त्रिपदान्तरे ।
सुरवेश्मानि कुर्वीत दोषायापरथा पुनः ॥१४५॥
कथितोऽयं विधिः स्वैः स्वैस्त्रिदशानां निवेशने ।
बहिर्निवेशनात्स्वेच्छं विदध्यादमरालयम् ॥१४६॥
नगरेषु समग्रेषु ग्रामेषु निखिलेषु च ।
खेटकेषु च सर्वेषु सामान्योऽयं विधिः स्मृतः ॥१४७॥
इत्युक्त एष नगरोपगतः सुराणां ।
स्वस्वप्रभागविहितः पदसन्निवेशः ।
ब्रूमो विभागमधुनां गृहदेवतानां ।
सम्यक्शुभाशुभफलप्रविभागयुक्तम् ॥१४८॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे पुरनिवेशो दशमोऽध्यायः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:21.9600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

balancing factors

  • पु./अ.व. संतुलक घटक 
RANDOM WORD

Did you know?

Are we transliterating everything? Do we copy that from some other websites?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.