TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१०१ ते १५०

रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः - १०१ ते १५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः - १०१ ते १५०
भागद्वयेन मध्यः स्याद्र थकोशाद्विनिर्गतः ।
शङ्कुर्नामायमुद्दिष्टः प्रासादोऽष्टाभिरश्रिभिः ॥१०१॥
शङ्कुः ।
चतुरश्राः षोडश प्रोक्ताश्चतुरश्रायतद्वयम् ।
वृत्तवृत्तायतौ द्वौ द्वावुक्ताश्चाष्टाश्रयस्त्रयः ॥१०२॥
पञ्चविंशतिरित्येते प्रासादा ललिताः स्मृताः ।
मिश्रकाणामथ ब्रूमो लक्षणानि यथाक्रमम् ॥१०३॥
भद्र कस्यैव संस्थाने भद्रे शृङ्गं यदा भवेत् ।
सुभद्रो नाम संज्ञोऽयं कर्णकूटैः करीद्यसौ ॥१०४॥
पूर्वोक्तस्य यदा शृङ्गं भद्रं केसरिणो भवेत् ।
लताख्योक्तं तदा स स्यात् सर्वतोभद्र संज्ञितः ॥१०५॥
भद्रे शृङ्गं परित्यज्य सिंहं तत्रैव कारयेत् ।
मिश्रयोगे तयोर्मिश्रः स भवेत्सिंहकेसरी ॥१०६॥
श्रीवत्सस्यैव संस्थाने भद्रे कूटं निवेशयेत् ।
कर्णे तनैव योगेन प्रतिशृङ्गोपशोभितम् ॥१०७॥
कलशैः सप्तदशभिः पद्मघण्टामलैः सह ।
स च त्रिकूट इत्युक्तो विचित्रशिखरान्वितः ॥१०८॥
कर्णे भद्रे प्रतिस्थाने पूर्णे शृङ्गे यदा भवेत् ।
अण्डकैः सप्तदशभिस्तदा स्यात्स धराधरः ॥१०९॥
श्रीवत्सस्यैव संस्थाने कर्णे कूटं निवेशयेत् ।
शृङ्गं भद्रो भद्रे च तदा तिलक उच्यते ॥११०॥
यथा कर्णे तथा भद्रे यो भवेच्चित्रकूटवत् ।
उत्तमाङ्गे च यस्तद्वत्स स्यात्सर्वाङ्गसुन्दरः ॥१११॥
प्रतिशृङ्गेषु सर्वेषु यदा कूटं निवेश्यते ।
मिश्रकः स तु विज्ञेयः श्रीनाम्ना चान्तिकोऽन्तिकः ॥११२॥
सर्वे कूटावृताः कार्याः सर्वे कार्याश्चतुर्मुखाः ।
मिश्रका बहुशृङ्गाश्च कुटीसंज्ञास्ततोऽपरे ॥११३॥
इदं नवानां मिश्राणामिह लक्षणमीरितम् ।
साधारणमतः स्पष्टं ब्रूमः सम्प्रति लक्षणम् ॥११४॥
चतुरश्रीकृते क्षेत्रे भागाष्टकविभाजिते ।
तस्य मध्ये भवेद्गर्भो द्विभागो देवतालयः ॥११५॥
भागे निवेशयेद्भित्तिं कुर्याद्भागेन कारिकाम् ।
बाह्यभित्तिं पुनर्भागे विधेयास्तस्य सिद्धये ॥११६॥
तस्य कर्णेषु कर्तव्या रथिकाश्च द्विभागिकाः ।
शेषं भद्रं प्रकर्तव्यमुदकान्तरभूषितम् ॥११७॥
भागेन निर्गतं दिक्षु सर्वास्वेष भवेद्विधिः ।
चतुर्भागोच्छ्रिता जङ्घा करकश्च तदर्धंकः ॥११८॥
वरण्ड्यन्तरपत्रं च भागेनैकेन कल्पयेत् ।
रथिकैकान्तरं तस्य सार्धभागत्रयोच्छ्रिताः ॥११९॥
षड्भागे शिखरं मूले शेषांशकसमुच्छ्रितम् ।
तस्योच्छ्रयं त्रिधा कृत्वा वेणुकोशं समालिखेत् ॥१२०॥
स्कन्धकोशान्तरं तस्य चतुर्धा विभजेत्ततः ।
पद्मशीर्षं तथा ग्रीवां सार्धेनांशेन कारयेत् ॥१२१॥
कुर्याद्भागेन भागेन कुम्भं चामलसारकम् ।
भागार्धेन प्रकुर्वीत तदूर्ध्वं बीजपूरकम् ॥१२२॥
प्रासादः कैसरी नाम सर्वतः सन्ततिप्रियः ।
कैसरी ।
चतुरश्रं समं कृत्वा भूमिभागं विचक्षणः ॥१२३॥
प्रासादो व्यासतः कुर्याज्जगतीं द्विगुणामिह ।
विदध्याज्जागतीपीठं प्रासादार्धसमुच्छ्रितम् ॥१२४॥
पीठस्योपरि संस्थाप्य प्रासादं विभजेत्ततः ।
सर्वतोभद्र संस्थानं हस्तसंख्या यदा भवेत् ॥१२५॥
हस्तैः सप्तत्रिंशता तु ज्येष्ठः सार्धे उदाहृतः ।
मध्यमः सप्तविंशत्या प्रासादः स्यात्कलाधिकैः ॥१२६॥
कनीयान्पञ्चदशभिः प्रासादः समुदीरितः ।
तलच्छन्दो यदा ह्येषां तथा चैवोर्ध्वतो गतिम् ॥१२७॥
ज्येष्ठमध्यकनिष्ठानां तथा सम्यङ्निगद्यते ।
चतुरश्रीकृते क्षेत्रे शतमूलविभाजिते ॥१२८॥
न्यसेत्तन्मध्यतो गर्भं चतुर्वर्गपदान्वितम् ।
गर्भपादेन भित्तिः स्यात्तद्वदेवान्धकारिका ॥१२९॥
बाह्यभित्तिस्तथवा थैव स्याद्दशशास्युर्द्विभागिका ।
प्रतिवर्णपदांशेन षोडशेन जलान्तरम् ॥१३०॥
शेषं भद्रं प्रकर्तव्यं गर्भार्धेन विनिर्गतम् ।
भागार्धं क्षोभयेत्पार्श्वे निर्गमं च तथाचरेत् ॥१३१॥
शेषः स्याद्भद्र विस्तारः पञ्चभागायतस्तथा ।
पीठं तस्यैव कर्तव्यं साधद्वयसमुच्छ्रितम् ॥१३२॥
द्विगुणां च तथा जङ्घामुच्छ्रायेणास्य कल्पयेत् ।
मेखलामर्धभागेन भागेनान्तपत्रकम् ॥१३३॥
प्रथमा रथिका तत्र कार्या भागत्रयोच्छ्रिता ।
द्वितीया रथिका या सा सार्धभागेन चोच्छ्रिता ॥१३४॥
भागे भागेऽन्तरं कार्यमुपर्युपरि चोभयोः ।
षड्भागान्विस्तृतं कुर्याच्छिखरं सप्तमोच्छ्रितम् ॥१३५॥
एवं भूमिभिरष्टाभिः कुर्यादेनं विचक्षणः ।
जलनिर्गमविच्छिन्ना रथाः प्रतिरथास्तथा ॥१३६॥
चतुर्गुणैः पृथक्सूत्रं पद्मकोशं समालिखेत् ।
मञ्जरी ललिता कार्या नीलोत्पलदलाकृतिः ॥१३७॥
ग्रीवा चैकार्धभागेन मलसारकम् ।
पद्मशीर्षं च कर्तव्यं ग्रीवामानेन धीमता ॥१३८॥
सार्धभागेन सोष्णीषः पद्यस्योपरिकुम्भकः ।
सर्वतोभद्र इत्युक्तो रेषानानामेष शेखरः ॥१३९॥
विधाय सर्वतोभद्रं देवानामालयं शुभम् ।
लभते परमं लोकं दिवि स्वच्छन्दभाषितम् ॥१४०॥
सर्वतोभद्रः ।
चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ।
व्यासपादेन गर्भस्तदर्धादन्धकारिका ॥१४१॥
जङ्घा स्कन्धश्च तं कर्णं भद्रं चाप्यस्य यद्भवेत् ।
सर्वतोभद्र वत्सर्वं तद्विधेयं चतुर्दिशम् ॥१४२॥
तस्य भद्रा णि सर्वाणि भित्तिभिः परिवेष्टयेत् ।
भद्रे भद्रे पुनश्चास्य वर्धमानं निवेशयेत् ॥१४३॥
पञ्चभागास्तथा सार्धाः शिखरस्योदयो भवेत् ।
सर्वतोभद्र काकारा रथिकाश्चात्र कारयेत् ॥१४४॥
कुर्यात्षडंशा विस्तीर्णशिखरं प्रधोच्छ्रितम् ।
सर्वतोभद्र संस्थानादेषां चास्वत्र योजयेत् ॥१४५॥
ग्रीवा चामलसारं च कुम्भश्चापि तथा भवेत् ।
प्रासादो नन्दनो नाम कर्तव्यो देवतालयः ॥१४६॥
कृतेऽस्मिन् नन्दति स्वामी दुरितानि च निर्दहेत् ।
नन्दनः ।
भक्ते द्वादशधा क्षेत्रे चतुरश्रीकृते ततः ॥१४७॥
सप्तवर्गपदो गर्भो भित्त्या सह विधीयते ।
सपादपादिका भित्तिगर्भे कुर्याद्विचक्षणः ॥१४८॥
बाह्यभित्तिश्च तद्वत्स्यात्तद्वच्चाप्यन्धकारिका ।
पीठोच्छ्रयस्तथा जङ्घा कर्णेषु रथिकाश्च याः ॥१४९॥
सर्वतोभद्र काकारान्मूलकर्णांश्च योजयेत् ।
एकैकां रथिकां चान्यां विन्यसेत्पक्षयोर्द्वयोः ॥१५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:28.0070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

cerebrospinal

  • Zool. प्रमस्तिष्कमेरु- 
  • प्रमस्तिष्क मेरु 
  • प्रमस्तिष्कमेरु- 
RANDOM WORD

Did you know?

एखाद्या वास्तुला वास्तुशास्त्रानुसार कोणतेच उपाय नसल्यास, मग कांहीे उपाय आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site