TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१ ते ५०

विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः - १ ते ५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः - १ ते ५०
विमानमथ वक्ष्यामः प्रासादं शम्भुवल्लभम् ।
स्वर्गपातालमर्त्यानां त्रयाणामपि भूषणम् ॥१॥
सर्वेषां गृहवास्तूनां प्रासादानां च सर्वतः ।
प्रासादो मूलभूतोऽयं तथा च परिकर्मणाम् ॥२॥
एकाशीतिपदे वास्तु विमाने पञ्चभूमिके ।
कर्णान्तयोः शतपदं प्रासादेष्वपरेषु तु ॥३॥
ब्रह्मासृजत्पञ्चभौमविमानानि पुरा रवेः ।
मूलकर्णानुगैर्भद्रै र्द्विगुणोच्छ्रायवन्ति च ॥४॥
शेषभद्र स्य निष्कासो भद्र देवचतुष्टयम् ।
आकाशदेवताधारचत्र्यथा विदिक्षु च ॥५॥
दशधा कृतविस्तारो विमाने सम्प्रकीर्तितः ।
पञ्चभाग्यप्रमाणश्च गर्भे भित्तिस्तदर्धतः ॥६॥
प्राग्ग्रीवं भित्तिविस्तारं गर्भायामत्तथाग्रतः ।
ततः प्राग्ग्रीवविस्तारः क्षोभणीयः कराङ्गुलैः ॥७॥
भागिको रथविस्तारः कर्णिका चार्धभागिकी ।
भागपञ्चकविस्तारं भद्रं यत्तत्प्रकीर्तितम् ॥८॥
भूणस्तोवहेस्तस्य निर्गमो भागिकः स्मृतः ।
भागार्धेन विधातव्यः क्षोभणो जलवर्त्मनः ॥९॥
कर्णिकां जलमागं च समसूत्रेण मापयेत् ।
अथोच्यते भूमिकानां स्तम्भानां चेह लक्षणम् ॥१०॥
विस्ताराद्द्विगुणः स्कन्धः सर्वस्मिन् बुद्धनागरे ।
---पञ्चभागा स्याज्जङ्घास्वसमुच्छ्रितिः ॥११॥
तिलकानां तथोच्छ्रायो विधातव्यो द्विभागिकः ।
तिलकस्य शिरोघण्टां चैकसूत्रेण मापयेत् ॥१२॥
जङ्घामानत्रिभागेन खुरपिण्डीं प्रकल्पयेत् ।
खुरकं वेदिबन्धं च समसूत्रेण मापयेत् ॥१३॥
जङ्घामानत्रिभागेन खुरपिण्डीं प्रकल्पयेत् ।
खुरकं वेदिबन्धं च समसूत्रेण सूत्रयेत् ॥१४॥
द्वितीयभूमिकोत्सेधं सिंहकर्णं विभूषयेत् ।
मस्तके घण्टया युक्ता चतुर्भागोच्छ्रिता च सा ॥१५॥
ततस्तृतीयभूत्सेधः पदतुल्यांशवर्जितः ।
चतुर्थी भूमिका कार्या सार्धभागत्रयोच्छ्रिता ॥१६॥
मञ्जरीस्तम्भयोर्मध्ये सवातायनमेखला ।
द्वितीया भूमिका या सा सिंहकर्णैरलङ्कृता ॥१७॥
तस्या द्वारं विधातव्यं कपाटद्वयसंयुतम् ।
स्यावर्द्धात्पाटितं द्वारं तृतीयायां सदा भुवि ॥१८॥
पादेन द्विपदोत्सेधा तदूर्ध्वं वेदिमेखला ।
कैरवाणां दलेर्युक्ता कर्तव्या दृष्टिहारिभिः ॥१९॥
वेदिका पञ्चविस्तारा कार्या भागसमुच्छ्रिता ।
ग्रीवार्धभागिकोत्सेधा घण्टैकं भागमुच्छ्रिता ॥२०॥
पञ्चभाग---विस्तारा घण्टाकोटिर्विधीयते ।
कुमान्दं वेदिबन्धं च घण्टाग्रं मस्तकोदयम् ॥२१॥
मापयेत्समसूत्रेण समन्ताद्भूमिपञ्चके ।
व्यासार्धहस्तसङ्खयानि प्रवेशा प्रथमं क्षितेः ॥२२॥
अङ्गुलानि तदा द्व्यर्धो द्वितीयायाः प्रकीर्तिताः ।
संयोगादनयोर्यः स्यात्तृतीयायास्तमादिशेत् ॥२३॥
तदर्ध्यर्धश्चतुर्थ्यास्तु पञ्चम्याः शेष ईरितः ।
स्वमूलविस्तृतेर्भागस्तृतीयो वेदिकोर्ध्वतः ॥२४॥
लतया विस्तृतिर्भद्रे युक्ताया जालवर्तमनः ।
वेदिदोग्रविधातव्यो सार्धसविस्तृतौ ॥२५॥
मञ्जर्याः स्तम्भसीमानां क्षोभयेत्पुष्टिमानतः ।
वेद्यां भागे शालायां निष्क्रामो मूलकोणतः ॥२६॥
स्थानैर्विचित्ररूपैः स्यात्सिंहकर्णैश्च भूषितः ।
पञ्चव्यासेन सूत्रेण रेखामस्य समालिखेत् ॥२७॥
एतद्विमानं ललितं देवदेवस्य कारयेत् ।
विमानम् ।
संस्थानं सर्वतोभद्र स्येदानीमभिधीयते ॥२८॥
जठरं बाह्यसीमा च तथा भित्त्यन्धकारिका ।
जङ्घोत्सेधश्च कर्णौ च यथा मेरोस्तथा भवेत् ॥२९॥
तथैव भद्र विस्तारः षड्भागेन समन्ततः ।
रथिके च द्विभागे स्तः कोणसंज्ञे च पार्श्वयोः ॥३०॥
मुष्टिप्रमाणं विस्तारं कर्तव्यमुदकान्तरम् ।
विस्ताराद्द्विगुणः स्कन्धस्योच्छ्रायो भागविंशतिः ॥३१॥
पञ्चभागसमुत्सेधा जङ्घा कार्या सदा बुधैः ।
मेखलान्तरपत्रं च सार्धभागसमुच्छ्रितम् ॥३२॥
शृङ्गं भागत्रयोत्सेधं सग्रीवामलसारकम्
मूलशृङ्गस्य गर्भेण न्यस्येदुपरिभूमिकाम् ॥३३॥
द्वितीयभूमिविस्तारं दशधा प्रविभाजयेत् ।
द्वौ भागौ शृङ्गविस्तारौ विधेयः पार्श्वयोर्द्वयोः ॥३४॥
सग्रीवामलसारस्य तैः शृङ्गस्योदयस्थितिः ।
तस्य शृङ्गस्य गर्भेण कर्तव्योपरिभूमिका ॥३५॥
तस्या भूमेस्तु विस्तारं दशधा भाजयेत्पुनः ।
यः शेषः शिखरायामो तद्विंतिनंते विनिर्दिशेत् ॥३६॥
विभजेद्वर्धमानं वा रुचकं वास्तुशोभनम् ।
कर्णान्तरे भद्र मध्ये वल्लभालभीं तत्र कारयेत् ॥३७॥
भूमिकाशिखरेणोर्ध्वं नवभूमिं विभेदयेत् ।
वेदिकामध्यसूत्रस्य कर्णतोर्ध्वभुवस्तथा ॥३८॥
भूमिकोर्ध्वभुवश्चैव विस्तारं दशधा भवेत् ।
मूलसीमानुसारेण स्याच्छेदावधि संहृतिः ॥३९॥
ग्रीवा मूलार्धभागे --- नामलसारकम् ।
चन्द्रि का चार्धभागेन --- कलशो भवेत् ॥४०॥
सर्वतोभद्रः ।
गजस्य संस्थानमथ प्रासादस्याभिधीयते
चतुःषष्टिपदं वास्तु प्रासादस्य विभाजयेत् ॥४१॥
ततः सीमार्धसूत्रेण पृष्ठतो वृत्तमालिखेत्
पञ्चभागमिता जङ्घा मेखला सार्धभागिकी ॥४२॥
अग्रतः सूरसेनः स्यात्पृष्ठतः कुञ्जराकृतिः ।
सीमानमष्टधा कृत्वा विभजेन्नन्दने यथा ॥४३॥
द्वौ द्वौ च कर्णयोर्भागौ भद्रे षु चतुरो विदुः ।
विस्तारार्धेन जङ्घा स्याद्र थिकायाः पृथक्पृथक् ॥४४॥
भागत्रयोच्छ्रितं शृङ्गं कर्णदेशे विधीयते ।
सप्तभागसमुत्सेधा वलभी मध्यसंश्रिता ॥४५॥
समन्ताद्भद्र संस्थाना रेखाग्रीवाण्डकादिभिः ।
सिंहकर्णैश्च भद्रे षु प्रासादो गर्भ उच्यते ॥४६॥
वित्तसाध्यविहीनेन कर्तव्यः स्वस्तिके यथा ।
सर्ववत्तस्य स्युः पत्रनिभाः ॥४७॥
विस्तारोऽ ---थ जङ्घा च लतिनि स्वस्तिके यथा ।
उदकान्तर --- श्रीवत्से नन्दने यथा ॥४८॥
पद्मः ।
ब्रूमोऽथ वृषभं स स्यात्पूर्वोकै रूपकर्मभिः ।
चतुर्भद्र श्चतुर्द्वारो विमानो सत्रिसाकृति ॥४९॥
तेवृद्धिस्तत्प्रमाणाश्च सीमाशिखरकोदयैः ।
कर्णवेदकपोताली जङ्घाग्रे मस्तकेन च ॥५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:29.1330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

accepted conditionally

  • सशर्त स्वीकृत, शर्त सहित स्वीकृत 
RANDOM WORD

Did you know?

घराच्या दाराबाहेर शुभ-लाभ कां लिहीतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site