TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
२५१ ते ३१२

रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः - २५१ ते ३१२

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः - २५१ ते ३१२
पदपादविहीनाः स्युः क्रमेणोपरिभूमयः ।
दिक्सूत्रेषु सकर्णेषु क्रिया प्राग्वद्विधीयते ॥२५१॥
शिखरं दशविस्तारं भागैर्द्वा दशकोच्छ्रितम् ।
चतुर्गुणेन सूत्रेण वेणुकोशं समालिखेत् ॥२५२॥
स्कन्धकोशान्तरं चास्य त्रिभिर्भागैर्विभाजयेत् ।
ग्रीवा च पद्मशीर्षं च तावद्भागार्धमुच्छ्रयात् ॥२५३॥
भागमामालसारं स्यात् कलशो भागमेव च ।
सातशृङ्गावृतो मेरुरयं प्रासाद ईरितः ॥२५४॥
प्रदक्षिणीकृते तस्या तत्पुण्यं कनकाद्रि णा ।
शैलेष्टकामये तत्स्यात्कृतेऽस्मिन्नधिकं ततः ॥२५५॥
मेरुः ।
नन्दिशालस्य संस्थाने तद्रू पे समवस्थिते ।
द्वितीया रथिका कार्या भागद्वयविनिर्गता ॥२५६॥
शेषो भद्र स्य विस्तारः स्वविस्तारोऽर्धनिर्गतः ।
अष्टांशायामविस्तारः स्वविस्तारोर्धनिर्गतः ॥२५७॥
अष्टांशायामविस्तारः शाला स्यात्पुरतः पुनः ।
तस्या मध्ये भवेद्गर्भो द्विभागायामविस्तरः ॥२५८॥
गर्भभित्तिर्भवेच्चास्य भागेनैकेन निर्गता ।
बाह्यभित्तिस्तथैव स्यात्तत्समा चान्धकारिका ॥२५९॥
द्विभागा रथिकास्तस्य सलिलान्तरभूषिताः ।
शेषो भद्र स्य विस्तारो भागेनैकेन निर्गमः ॥२६०॥०=
गङ्घोत्सेधं पीठं च विदध्यान्नन्दिसारवत् ।
रथिकास्तत्र कर्तव्याः कर्ण भागत्रयोच्छ्रिताः ॥२६१॥
षडंशान् विस्तृतः कुर्याच्छिखरं सप्तचोच्छ्रितम् ।
कार्या केसरिवच्चास्य रेखा सामलसारिका ॥२६२॥
एभिर्गुणैर्युतं चैनं पार्श्वयोरपि योजयेत् ।
प्रासादोऽयं लताख्यः स्यात्कर्तव्यो दानवद्विषः ॥२६३॥
लताख्यः ।
अग्रेतनं यदा पश्चान्न्यस्येत सरिणं तदा ।
भवेत्त्रिपुष्कराख्योऽयं प्रासादस्त्रिदशालयः ॥२६४॥
त्रिपुष्कराख्यः ।
नन्दिशालस्य सर्वासु दिक्षुयं केसरी यदा ।
स्यात्तदा पञ्चवक्त्रोऽसौ विधेयः पद्मजन्मनः ॥२६५॥
पञ्चवक्त्रः ।
यदा च पञ्चवक्त्रस्य मध्ये गर्भा न दीयते ।
बाह्यलेखादिकं प्राग्वद्दिक्षु सर्वासु कल्पते ॥२६६॥
चतुःस्तम्भसमा कार्या मध्ये चास्य चतुष्किका ।
वितानं चोपरि न्यस्येन्मध्यतस्तस्य भूषणम् ॥२६७॥
हरो हिरण्यगर्भश्च हरिर्दिनकरस्तथा ।
एते चतुर्मुखे स्थाप्या नापरेषां भवत्ययम् ॥२६८॥
चतुर्मुखः ।
चतुःषष्टिकरे कुर्यात्क्षेत्रे मानैकविंशतिः ।
सप्तवर्गपदो गर्भो भित्त्या सह विधीयते ॥२६९॥
स्याद्गर्भभित्तिर्भागेन भागेनैवान्धकारिका ।
षड्भागं कर्णविस्तारं दशधा प्रविभाजयेत् ॥२७०॥
षड्भिर्भागैर्भवेदस्य गर्भो भित्त्या समन्वितः ।
बाह्या भित्तिर्भवेद्भागाद्भागश्चैवान्धकारिका ॥२७१॥
द्विभागं कर्णवैपुल्यमुदकान्तरभूषितम् ।
शेषो भद्र स्य विस्तारश्चतुर्थांशविनिर्गतः ॥२७२॥
क्षोभयेदर्धभागे तु तदर्धेन जलान्तरम् ।
मत्तवारणकैर्विद्यात्स्तम्भैरुपरि शोभिताः ॥२७३॥
रथिकैका त्रिभागेन पुनः सार्धद्विभागिका ।
तासां परस्परक्षेपो भागो भागो विधीयते ॥२७४॥
शेषं शिखरविस्तारः सार्धषट्कं तदुच्छ्रयः ।
पृथक्सूत्रैस्त्रिगुणितैर्वेणुकोशं समालिखेत् ॥२७५॥
स्कन्धकोशान्तरं भागैश्चतुर्भिस्तस्य भाजयेत् ।
ग्रीवार्धभागमुत्सेधो भागेनामलसारकम् ॥२७६॥
पद्मशीर्षस्तथा भागं कलशो भागसंमितः ।
अर्धभागसमोत्सेधं कारयेद्बीजपूरकम् ॥२७७॥
सर्वकर्णेषु कर्तव्याः क्रियाश्चैवं विचक्षणैः ।
दिक्सूत्रबाह्यभागेषु वलभीं संन्निवेशयेत् ॥२७८॥
निर्गमे पञ्चभागः स्यात्तिर्यक्प्रक्षिप्तभागिकाः ।
अस्या द्विभागिको गर्भो मध्ये भागत्रयोच्छ्रितः ॥२७९॥
भगार्धभागं भित्तिः स्यात्तत्समा चान्धकारिका ।
तस्याश्चाग्रे विधातव्यः षड्दारुकसमन्वितम् ॥२८०॥
एकैकां रथिकां सार्धभागां कर्णेषु योजयेत् ।
शेषं भद्र स्य विस्तारो भागः स्यादस्य निर्गमः ॥२८१॥
एवं भद्रं विभागं स्यात्स्तम्भद्वयसमन्वितम् ।
वलभावर्तयोर्मध्ये भागमेकं च विस्तृतम् ॥२८२॥
तत्रोदकान्तरं कुर्याद्गणद्वरविभूषितम् ।
नवभागोच्छ्रिता जङ्घा पीठमस्य तदर्धतः ॥२८३॥
मेखलान्तरपत्रे च कुर्याद्भागद्वयोन्मिते ।
रथिका स्याद्द्विभागा च ततः सार्धैकभागिका ॥२८४॥
शेषं शिखरविस्तारः पञ्चांशं शिखरोच्छ्रयः ।
उपर्युपरि कर्तव्यं सर्वतोभद्र कद्वयम् ॥२८५॥
द्वे द्वे च सर्वतोभद्रे कर्णे कर्णे निवेशयेत् ।
दिकसूत्रेषु समस्तेषु क्रियामेवं प्रकल्पयेत् ॥२८६॥
विस्तार शिखरस्याष्टौ भागात्स्यार्धसमुच्छ्रयः ।
पञ्चव्यासेन सूत्रेण --- ॥२८७॥
वेणुकोशान्तरं चास्य त्रिभिर्भागैर्विभाजयेत् ।
ग्रीवा च पद्मशीर्षं च भागेन स्यादिदं द्वयम् ॥२८८॥
प्रत्येकं भागिकौ कार्यौ कलशामलसारकौ ।
तवात्मकोऽयं कथितः प्रासादस्त्रिदशालयः ॥२८९॥
नवात्मकः ।
विन्यसेद्दीशमैशान्यामाग्नेय्यां पुरुषोत्तमम् ।
ब्रह्माणं वायुदिग्भागे नैरृते च दिवाकरम् ॥२९०॥
मध्यगर्भे शिवः स्थाप्यः प्राच्यामपि पुरन्दरः ।
धर्मोयमां प्रतीच्यां च वरुणः सोम उत्तरे ॥२९१॥
शक्तिसम्पन्नः पूर्वायतनसन्निधौ ।
प्रासादं कारयेद्यत्नात्तदाद्यं नैव पीडयेत् ॥२९२॥
उत्कृष्टमपकृष्टं वा यत्र स्थाने निवेशयेत् ।
प्रासादं तत्र कर्माणि यानि तान्यभिदध्महे ॥२९३॥
सम्मुखं नैव कुर्वीत हीनं वा यदि वाधिकम् ।
वेदभागास्तं तव सश्रितस्तंस्या स्यात्प्रासादोऽतिविगर्हितः ॥२९४॥
अन्योन्यं दक्षिणे वेधो हीन इत्यभिधीयते ।
वेधभागामृते मृत्युं हीने हानिं विनिर्दिशेत् ॥२९५॥
हरो हिरण्यगर्भश्च हरिर्दिनकरस्तथा ।
एते देवाः समाख्याताः परस्परविरोधिनः ॥२९६॥
एता न दक्षिणापार्श्वे स्थापयेत्पुरमाश्रितान् ।
वामतो नान्यदेवानां नापि हीनालयेषु च ॥२९७॥
नैतेषां दक्षिणे कुर्यादन्येषामपि चालयम्
हीनं वा यदि वाहीनं यदीच्छेच्छ्रिय आत्मनः ॥२९८॥
तेषामुत्तरतो नूनं यदि च्छेद्देवतालयम् ।
प्रासादपदमानेन नवषट्त्रिंशदान्तरे ॥२९९॥
प्रासादं कारयेदन्यं मर्मवेधविवर्जितान् ।
पुरतः पृष्ठतो वापि पार्श्वयोरुभयोरपि ॥३००॥
महामर्माणि चत्वारि कुर्याद्यत्ताघतोत्तरे ।
क्षणमध्येषु सर्वेषु द्र व्यमेकं न दापयेत् ॥३०१॥
तदा युग्म --- वेधमर्म विवर्जयेत् ।
क्षणमध्ये यदा द्र व्यमेकं मोहात्प्रदीयते ॥३०२॥
कर्तृकारकयोः पीडा भवेत्पूजा न तादृशी ।
तस्मात्सर्वप्रयत्नेन स्थपतिः कारकोऽपि च ॥३०३॥
मर्माणि वर्जयेद्यत्नात्प्रासादस्य समीपतः ।
अथ मर्मवियुक्तो यः प्रासादं कर्तुमिच्छति ॥३०४॥
प्रासादतः सदा तेन विधेयं महदन्तरम् ।
प्रासादां तुत्तरं कवः कार्यं फलपुष्पैर्विभूषितम् ॥३०५॥
य एतैर्लक्षणैर्युक्तं कारयेद्देवतालयम् ।
धनधान्यमवाप्नोति मोदते सुखमेव च ॥३०६॥
हरो हिरण्यगर्भश्च हरिर्दिनकरोऽपि च ।
एते देवाः समाख्याता देवनामपि पूजिताः ॥३०७॥
पृथक्त्वेन च कर्तव्या एकरूपसमन्विताः ।
अष्टबाहुश्चतुर्वक्त्रः कुण्डली मुकुटोज्ज्वलः ॥३०८॥
हारकेयूरसंयुक्तो रत्नमालोपशोभितः ।
ऋष्यागतपुरः कार्यः पद्महस्तो दिवाकरः ॥३०९॥
शङ्खचक्रधरो देवो वामे च मधुसूदनः ।
कण्ठाभरणसंयुक्तो मूर्धा च मुकुटोज्ज्वलः ॥३१०॥
ब्रह्मा पश्चिमतः कार्यो बृहज्जठरमण्डलः ।
कुण्डिकामक्षसूत्रं च दधत्कूर्चविभूषितः ॥३११॥
प्रासादा रुचकादयोऽत्र ललिताः प्राग्विंशतिः पञ्चयुक् ।
तावन्तश्च ततोऽनु केसरिमुखाः सन्धारकाः कीर्तिताः ।
मिश्राख्या नव पञ्च चानुकथितास्तद्वन्निगूढाख्यया ।
षष्टिः स्याच्चतुरन्वितेति विदिता सैषा भवेत्सम्पदे ॥३१२॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे रुचकादिचतुःषष्टिप्रासादको नाम षट्पञ्चाशोऽध्यायः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:28.2270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

diplotegia

  • द्व्यावृत बोंड 
RANDOM WORD

Did you know?

गंध का लावावे ? अधिक माहिती द्यावी.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site