TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
५१ ते १००

पुरनिवेशो दशमोऽध्यायः - ५१ ते १००

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


पुरनिवेशो दशमोऽध्यायः - ५१ ते १००
दृष्ट्वा दृष्ट्वोपभोगार्हान्सरिद्गिरिजलाशयान् ।
पक्षद्वाराणि कुर्वीत स्वेच्छया तत्र तत्र च ॥५१॥
जलभ्रमान्पुरे कुर्याच्छिलादारुतिरोहितान् ।
द्विकरान्करमात्रान्वा साम्भसोऽस्मिन् प्रदक्षिणान् ॥५२॥
छिन्नकर्णं विकर्णं च वज्रं सूचीमुखं तथा ।
वर्तुल व्यजनाकारं चापाकृतिधरं च यत् ॥५३॥
शकटद्विसमं यच्च विस्ताराद्द्विगुणायतम् ।
विदिक्स्थं सर्पचक्रं च तत् पुरं निन्दितं भवेत् ॥५४॥
छिन्नकर्णे वसंल्लोकः पुरे तस्करतो भयम् ।
व्याधिभ्यो वापरेभ्यो वा प्राप्नोतीति विनिर्दिशेत् ॥५५॥
विद्विष्टस्वामिता सर्वलोकगर्हानपत्यता ।
जायते स्वल्पमायुष्यं विकर्णपुरवासिनाम् ॥५६॥
स्त्रीजयं विषरोगांश्च भेदांश्च विविधांस्तथा ।
जनो वसन्नवाप्नोति वज्राकृतिधरे पुरे ॥५७॥
व्रजन्ति प्राणिनो नाशं क्षुद्व्याधिपरिपीडिताः ।
निवसन्तः सदा सूचीमुखाकारधरे पुरे ॥५८॥
स्वामिना सह हीयन्ते सर्वतः सञ्चयोज्झिताः ।
स्वल्पायुषश्च जायन्ते जना वृत्तपुराश्रयाः ॥५९॥
असत्यवादिनः स्वल्पायुषः पवनपीडिताः ।
जनाः स्युश्चलचित्ताश्च नगरे व्यजनाकृतौ ॥६०॥
दुश्चरित्राङ्गनायुक्तस्तथा बहुनपुंसकः ।
चापाकारे पुरे लोको निवसन् भवति ध्रुवम् ॥६१॥
रोगशोकानलस्तेनभयं तत्र प्रजायते ।
शकटद्विसमाकारं पुरं यद्विनिवेश्यते ॥६२॥
आरम्भासिद्धिदं विप्रभयदं ज्ञातिभेदकृत् ।
पौराणां स्वामिनश्च स्याद्गजवाजिक्षयावहम् ॥६३॥
परैराक्रम्य भुज्येत तत्पुरं बलशालिभिः ।
द्विगुणायतसंस्थानं यत्क्वचिद्विनिवेश्यते ॥६४॥
जनक्षयोऽग्निदाहश्च स्त्रीकृतानि भयानि च ।
पुरे भवति दिङ्मूढे न च निर्योगमेति तत् ॥६५॥
शस्त्रानिलपिशाचाग्निभूतयक्षभयार्दिताः ।
रुक्पीडिताश्च नश्यन्ति भुजङ्गकुटिले जनाः ॥६६॥
पुराणामप्रशस्तानि संस्थानानीदृशानि यत् ।
एकस्मिन्नपि तेनैषां न पुरं विनिवेशयेत् ॥६७॥
संस्थानमेकमप्येषां प्रमादात्क्रियते यदि ।
तदा राष्ट्रं निपीड्येत क्षुद्द्विषद्भीतिमृत्युभिः ॥६८॥
शास्त्रज्ञः स्थपतिस्तस्मात्प्रयत्नपरया धिया ।
यथावत्कथितं चारु नगरं विनिवेशयेत् ॥६९॥
वेदीनिवेशयात्रायां देवागाराभिचारयोः ।
नदीकर्मणि मैत्रे च शान्तिं कुर्याच्छ्रमेषु च ॥७०॥
यज्ञे पुरनिवेशे च स्थापने प्रयतः सुधीः ।
कुर्यात्तथाभ्युदयिकं यद्वान्यदपि किञ्चन ॥७१॥
पुरे भीतिकरं शश्वदनायुष्यमपौष्टिकम् ।
कृतमप्रयतैः कर्म नृपतिघ्नं च जायते ॥७२॥
विहितं यदशास्त्रज्ञैर्यच्च निर्लक्षणैः कृतम् ।
कृतमप्रयतैर्यच्च तदशस्तं फलोज्झितम् ॥७३॥
शास्त्रज्ञः स्थपतिर्ज्योतिर्विदा तद्वत्पुरोधसा ।
अधिष्ठितः पुरे कर्म विदध्याच्छान्तिकेषु च ॥७४॥
पुरोहितोऽग्निं जुहुयाद्दद्यान्मौहूर्त्तिकः स्थिरम् ।
स्थपतिश्च बलिं दद्याद्योजयेदिति शान्तिकम् ॥७५॥
तदा तस्मिन् पुरे शान्तिर्यत्र मर्मस्थिताः सुराः ।
पूज्यन्ते सततं पौरैश्चत्वरस्थायिनस्तथा ॥७६॥
चतुःप्रकारं स्थापत्यमष्टधा च चिकित्सितम् ।
धनुर्वेदश्च सप्ताङ्गो ज्योतिषं कमलालयात् ॥७७॥
सामान्यलक्षणोत्पातनिमित्तानि च सर्वशः ।
ब्रह्मा विष्णुश्च रुद्र श्च त्यजन्त्येते न तत् पुरम् ॥७८॥
नगरस्य विभागोऽयं यथावत्समुदीरितः ।
खेटं तदर्धविष्कम्भमाहुर्ग्रामं तदर्धतः ॥७९॥
योजनेन पुरात्खेटं खेटाद्ग्रामं प्रचक्षते ।
गव्यूतिपरिमाणेन ग्रामाद्ग्रामं प्रचक्षते ॥८०॥
द्विक्रोशाद्विषये सीमा तदर्धेन पुरस्य सा ।
खेटके पुरसीमाधं ग्रामे खेटार्धतः स्मृता ॥८१॥
त्रिंशद्घनूषि विष्कम्भः पुरे दिग्वर्त्मसु स्मृतः ।
विंशतिः खेटके मार्गो ग्रामे दश च दर्शितः ॥८२॥
नव ग्रामसहस्राणि नवतिश्च प्रचक्षते ।
चतुःषष्टिमपि ग्रामान् ज्यायो राष्ट्रं विदुर्बुधाः ॥८३॥
दशार्धं च सहस्राणि ग्रामाणां त्रिशती तथा ।
ग्रामाश्चतुरशीतिश्च मध्यमं राष्ट्रमीरितम् ॥८४॥
सहस्रमेकं ग्रामाणां तद्वच्च शतपञ्चकम् ।
द्व्यूना च ग्रामपञ्चाशत् कनीयो राष्ट्रमुच्यते ॥८५॥
अध्यर्धसङ्ख्ययैतेषां ज्येष्ठमध्यकनीयसाम् ।
विधाय नवधैकैकं विभजेद्विधिवत्सुधीः ॥८६॥
राष्ट्रेष्वेवं विभक्तेषु यथाभागं विधानवित् ।
निवेशयेत्पुराण्येषु सप्त सप्त यथागमम् ॥८७॥
विभागश्च प्रमाणं च लक्षणं चादिमस्य यत् ।
जातिवर्णाधिवासश्च यथावत्तदिहोच्यते ॥८८॥
सुवर्णकारानाग्नेय्यां तथा वह्न्युपजीविनः ।
निवेशयेत् कर्मकरानन्यानपि विधानवित् ॥८९॥
वैश्यानामक्षधूर्तानां चक्रिकाणां च दक्षिणे ।
नटानां नर्त्तकानां च गृहाणि विनिवेशयेत् ॥९०॥
निवेशयेत् सौकरिकान् मेयीकारान् मृगच्छिदः ।
कैवर्तान् नैरृताशायां दमनाधिकृतांस्तथा ॥९१॥
रथेषु कौशलं येषां येषां स्यादायुधेषु च ।
वारुण्यां दिशि तान् सर्वान् पुरस्य विनिवेशयेत् ॥९२॥
कर्मस्वधिकृता ये च ये चापि परिकर्मिणः ।
शौण्डिका ये च तान् सर्वान् वायोर्दिशि निवेशयेत् ॥९३॥
यतीनामाश्रयान् ब्रह्मवत्सानां च तथा सभाम् ।
प्रपाश्च पुण्यशालाश्च कुर्याद्दिशि धनेशितुः ॥९४॥
घृतविक्रयिणो ये च फलविक्रयिणश्च ये ।
निवेशिताः प्रशस्यन्ते पुरस्येशानदिग्गताः ॥९५॥
पूर्वभागे बलाध्यक्षान् राज्ञो मुख्यांस्तथा बले ।
निवेशयेत्तथाग्नेय्यां बलं नानाविधं सुधीः ॥९६॥
श्रेष्ठिनो दक्षिणाशायां तथा देशमहत्तरान् ।
याम्येकहारान् कुर्वीत तथा ककुभि निरृतेः ॥९७॥
कोशपालमहामात्रादेशिकान् कारुकानपि ।
निर्यामकांश्च कुर्वीत सलिलाधिपतेर्दिशि ॥९८॥
वायोः ककुभि कुर्वीत दण्डनाथान् सनायकान् ।
पुरोहितज्योतिषिकानुत्तरस्यां निवेशयेत् ॥९९॥
विप्राः सौम्य दिशो भागे क्षत्रियाः शक्रदिग्गताः ।
वैश्यशूद्रा स्तु कर्तव्या दक्षिणापरयोः क्रमात् ॥१००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-18T20:03:43.5500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पंडितमन्य-मानी-मान्य

  • गर्विष्ठ पंडित. 
  • अंगी विद्वत्ता नसून ऐट मारणारा. ‘जेवीं कां निर्दैवा हातीं। कन्क पडलें होय मातीं। तेवीं पंडितमन्याची व्युत्पत्ती। विषयासक्ती नाशिली॥’ 
  • एभा ११.५४०. 
RANDOM WORD

Did you know?

मृत व्यक्तिचे वेगवेगळ्या धर्मात वेगवेगळ्या दिवशी संस्कार कसे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site