TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१ ते ५०

रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः - १ ते ५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः - १ ते ५०
त्रिदशानां नृपाणां च वर्णिनां च विशेषतः ।

उत्पत्तिप्रसृतिं ब्रूमः प्रासादा यस्य ये मताः ॥१॥
पुरा ब्रह्मासृजत्पञ्च विमानान्यसुरद्विषाम् ।
वियद्वर्त्मविचारीणि श्रीमन्ति च महान्ति च ॥२॥
तानि वैराजकैलासे पुष्पकं मणिकाभिधम् ।
हैमानि मणिचित्राणि पञ्चमं च त्रिविष्टपम् ॥३॥
आत्मनः शूलहस्तस्य धनाध्यक्षस्य पाशिनः ।
सुरेशिने च विश्वेशो विमानानि यथाक्रमम् ॥४॥
बहून्यन्यानि चैवं स सूर्यादीनामकल्पयत् ।
विशेषाय यथोक्तैस्तान्याकारैः प्रतिदैवतम् ॥५॥
प्रासादांश्च तदाकाराञ्शिलापक्वेष्टकादिभिः ।
नगराणामलङ्कारहेतवे समकल्पयत् ॥६॥
वैराजं चतुरश्रं स्याद्वृत्तं कैलाससंज्ञितम् ।
चतुरश्रायताकारं विमानं पुष्पकं भवेत् ॥७॥
वृत्तायतं च मणिकमष्टाश्रि स्यात्त्रिविष्टपम् ।
तद्भेदाञ्श्रीमतोऽन्यांश्च विविधानसृजत्प्रभुः ॥८॥
ये यत्र विहिता भेदाः पूर्वं कमलयोनिना ।
सर्वांस्तानभिधास्यामो नामसंस्थानमानतः ॥९॥
रुचकश्चित्रकूटश्च तृतीयः सिंहपञ्जरः ।
भद्रः श्रीकूट उष्णीषः शालाक्षो गजयूथपः ॥१०॥
नन्द्यावर्तोऽवतंसाह्वः स्वस्तिकः क्षितिभूषणः ।
भूजयो विजयो नन्दी श्रीतरुः प्रमदाप्रियः ॥११॥
व्यामिश्रो हस्तिजातीयः कुबेरो वसुधाधरः ।
सर्वभद्रो विमानाख्यो मुक्तकोणश्च नामतः ॥१२॥
चतुर्विंशतिरुद्दिष्टा चतुरश्राः समासतः ।
वृत्तांस्तथाभिधास्यामः प्रासादानपरानपि ॥१३॥
वलयो दुन्दुभिः प्रान्तः पद्मः कान्तश्चतुर्मुखः ।
माण्डूकाख्योऽथ कूर्मश्च तालीगृह उलूपिकः ॥१४॥
इति वृत्ताः समासेन प्रासादा दश कीर्तिताः ।
चतुरश्रायता ये स्युः कथ्यन्ते तेऽपि नामतः ॥१५॥
भवो विशालः साम्मुख्यः प्रभवः शिबिरागृहः ।
मुखशालो द्विशालश्च गृहराजोऽमलो विभुः ॥१६॥
एवमेते समुद्दिष्टाश्चतुरश्रायता दश ।
अथ वृत्तायतान्ब्रूमः प्रासादानभिधानतः ॥१७॥
आमोदो रैतिकस्तुङ्गश्चारुर्भूतिर्निषेवकः ।
सदा निषेधः सिंहाख्यः सुप्रभो लोचनोत्सवः ॥१८॥
एते वृत्तायताः प्रोक्ताः प्रासादा नामतो दश ।
अष्टाश्रीणां च नामानि कथयामि समासतः ॥१९॥
वज्रको नन्दनः शङ्कुर्मेखलो वामनो लयः ।
महापद्मश्च हंसश्च व्योमचन्द्रो दयाविति ॥२०॥
अष्टाश्रय इमे प्रोक्ताः प्रासादा दश संख्यया ।
भवन्त्येवं चतुष्षष्टिर्लक्ष्मैषामधुनोच्यते ॥२१॥
संस्थानमानविन्यासैर्भद्र स्तम्भादिसङ्ख्यया ।
एषां विशेषा वक्ष्यन्ते पृथक्पृथगनुक्रमात् ॥२२॥
ज्येष्ठो भागश्चतुर्हस्तः सार्धहस्तत्रयोऽपरः ।
कल्पनीयः कनीयांस्तु हस्तत्रितयसम्मितः ॥२३॥
ज्येष्ठमध्यकनीयोभिरेवं भागैर्विभाजिताः ।
भवन्ति सर्वप्रासादा ज्येष्ठमध्याधमक्रमात् ॥२४॥
चतुरश्रीकृते क्षेत्रे चतुर्भागविभाजिते ।
कुर्यात्स्वारोहकाश्वासं पीठमंशसमुद्धृतम् ॥२५॥
तथा तस्योपरि स्थाप्या हंसपृष्ठी समन्ततः ।
हस्तमात्रोच्छ्रिता वृत्ता जलनिर्गमभूषिता ॥२६॥
ततः पीठस्य तस्यान्तर्द्विभागायमविस्तृतिः ।
प्रासादो रुचकः कार्यो भागत्रितयमुच्छ्रितः ॥२७॥
सार्धभागेन संछा स्यात्सार्धभागस्तु योऽपरः ।
छायत्रयं सकण्ठं स्यात्तेन सामलसारकम् ॥२८॥
द्वारं भागोच्छ्रितं तस्य कार्यं भागार्धविस्तृतम् ।
सप्राग्रीवः स कर्तव्यश्चतुर्दशधरावृतः ॥२९॥
ससौधालिन्दकश्चारुरूर्ध्वच्छाद्योपकर्षवान् ।
क्रियतेऽत्र यदा स्तम्भाद्वाविंशत्या समावृतः ॥३०॥
सप्राग्रीवपरिष्कारो भागिकालिन्दशोभितः ।
मध्यप्रदेशे रुचकः प्रासादः परिकीर्तितः ॥३१॥
रुचकः ।
कर्णप्राग्रीवकैश्चित्रैः सप्राग्रीवश्च यो वृतः ।
द्वाभ्यां द्वाभ्यां गवाक्षाभ्यां चतुर्दिशमलङ्कृतः ॥३२॥
कपोतालीपरिक्षिप्तः शोभितो द्वारसम्पदा ।
तदानीं चित्रकुटाख्यः प्रासादः सोऽभिधीयते ॥३३॥
चित्रकूटः ।
अयमेव पुनः षड्भिः स्तम्भैरपि चितो यदा ।
प्राग्रीवकविहीनश्च स भवेज्जालरूपकः ॥३४॥
सिंहपञ्जर इत्युक्तः प्रासादः स तदा शुभः ।
सिंहपञ्जरः ।
कर्णप्राग्रीवकौ द्वौद्वावस्यैव भवतो यदा ॥३५॥
अलिन्दकगतिस्थित्या तदा भद्रः प्रकीर्तितः ।
भद्रः ।
स्याच्चित्रकूट प्राग्रीवैश्चतुर्भिर्दिक्चतुष्टये ॥३६॥
बहिरन्तश्चतुर्द्वारः श्रीकूट इति नामतः ।
श्रीकूटः ।
षड्दारुकसमायुक्तप्राग्द्वारस्त्वयमेव चेत् ॥३७॥
प्रासादस्तम्भगर्भः स्यात्तदोष्णीषोऽभिधीयते ।
उष्णीषः ।
चतुरंशकविस्तीर्णं षडंशविहितायति ॥३८॥
पीठं शालागृहस्योक्तं सशालानिर्गमं शुभम् ।
मध्यादपरतस्तस्य द्विभागायतविस्तृतम् ॥३९॥
विधेयं गर्भभवनमलिन्दकपरिष्कृतम् ।
कार्या तस्याग्रतः सीमा भागद्वितयमायता ॥४०॥
भागमेकं च विस्तीर्णा चतुःस्तम्भोपशोभिता ।
तदग्रतोऽपरा सीमा कार्या भागान्षडायता ॥४१॥
तिर्यक्स्था भागविस्तीर्णा प्रवेशद्वयशोभिता ।
एष शालागृहः स्तम्भैर्द्वाविंशत्या समावृतः ॥४२॥
प्राग्रीववेदिकाजालपक्षसोपानकैः शुभैः ।
शालाख्यः ।
पञ्चभागोन्मितव्यासे क्षेत्रभागाष्टकायते ॥४३॥
पीठं कुर्यादुभयतः ससोपानं शिलाचितम् ।
मध्यादपरभागेऽस्य देवागारं निवेशयेत् ॥४४॥
विभागायामविस्तारं चतुरश्रं सुसंहितम् ।
पादोनभागविस्तारमध्यर्धं भागमुच्छ्रितम् ॥४५॥
तस्य कार्यं मुखं मध्ये पार्श्वतश्चयशोभितम् ।
सचया निर्गता सीमा द्वौ भागौ त्रींस्तथायथा ॥४६॥
चतुरश्रा चतुःस्तम्भा तदग्रे भागविस्तृता ।
पञ्चभागायता तिर्यक्कार्या सीमा तथापरा ॥४७॥
द्वात्रिंशदत्र कर्तव्याः स्तम्भाः सर्वैक्यसङ्ख्यया ।
बहिःपरिसरो गर्भात्ससीम्नो भागविस्तृतः ॥४८॥
एवं स्याद्वेदिकाजालरूपादिभिरलङ्कृतः ।
बहिर्वयोच्छ्रितश्चैष प्रासादो गजयूथपः ॥४९॥
गजयूथपः ।
षड्भागभाजिते क्षेत्रे चतुरश्रे समन्ततः ।
गर्भो द्विभागिकः कार्यो द्वारं भागसमुच्छ्रितम् ॥५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-19T22:17:56.0670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ganglion cell

  • = gangliocyte 
  • गंडिका पेशी 
RANDOM WORD

Did you know?

मरणानंतर पंचांगात नक्षत्र कां पाहतात? त्याचा प्रेताशी काय संबंध?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.