TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१५१ ते २००

रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः - १५१ ते २००

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः - १५१ ते २००
चतस्रो रथिकाश्चैवं कर्णे कर्णे निवेशयेत् ।
शेषो भद्र स्य विस्तारः स्वविस्तारार्धनिर्गतः ॥१५१॥
भूषयेत्सिंहकर्णैश्च भद्र व्यासार्धमुन्नतैः ।
विन्यसेच्छिखरं तत्र भागैर्विस्तृतमष्टभिः ॥१५२॥
चतुर्गुणेन सूत्रेण वेणुकोशं समालिखेत् ।
स्कन्धकोशान्तरं चास्य त्रिभिभागैर्विभाजयेत् ॥१५३॥
ग्रीवार्धभागिकोत्सेधाभागेनामलसारकः ।
पद्मशीर्षं तथार्धेन भागेन कलशः स्मृतः ॥१५४॥
त्रिपादा रथिकास्तिस्र उच्छ्रायेण प्रकीर्तिताः ।
सर्वतोभद्र काकारो नन्दिशालः प्रकीर्तितः ॥१५५
नन्दिशालः ।
नन्दिशालस्य संस्थाने तद्रू पे समवस्थिते ।
तस्य भद्रा णि सर्वाणि भित्तिभिः परिवेष्टयेत् ॥१५६॥
भद्रे भद्रे तस्य तस्य वर्धमानं निवेशयेत् ।
अर्धषष्ठांस्तथा भागान्स्याद्भद्र शिखरोच्छ्रयः ॥१५७॥
पीठोच्छ्रायं च जङ्घां च तथास्य शिखरोच्छ्रयम् ।
नन्दिशालसमाकारं सममेव प्रकल्पयेत् ॥१५८॥
कार्योऽयं सर्वदेवानां प्रासादो नन्दिवर्धनः ।
नन्दिवर्धनः ।
नन्दिवर्धनसंस्थानं पूर्ववत्परिकल्पयेत् ॥१५९॥
उभयोः कर्णयोर्मध्ये ये तत्र रथिके स्थिते ।
तयोश्चोपरि कर्तव्यं शिखरं लक्षणान्वितम् ॥१६०॥
षडंशविस्तृतं चैतत्साधषट्कसमुच्छ्रितम् ।
चतुर्गुणेन सूत्रेण वेणुकोशं समालिखेत् ॥१६१॥
ग्रीवा चामलसारं च कुम्भकस्याश्रयो भवेत् ।
कार्यः स सर्वतोभद्र संस्थान इति निश्चयः ॥१६२॥
मन्दिरोऽयमिति ख्यातः प्रासादः क्षितिभूषणः ।
मन्दिरः ।
नन्दिवर्धनसंस्थाने तद्रू पसमवस्थिते ॥१६३॥
दिक्सूत्रे कर्णसूत्रे च रथिकाष्टकम् ।
रथिका अपि चैताः स्युर्द्विभागायतविस्तृताः ॥१६४॥
षड्भागविस्तृतिश्चास्य शेषं शिखरमाचरेत् ।
उच्छ्रयश्चास्य कर्तव्यो भागानां सार्धसप्तकम् ॥१६५॥
षड्भागः स्कन्धविस्तारो ग्रीवा चास्य द्विभागिका ।
रेखा चामलसारं च कलशश्चात्र यो भवेत् ॥१६६॥
सर्वतोभद्र वत्स स्याच्छ्रीवृक्षोऽयमुदाहृतः ।
श्रीवृक्षः ।
चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते ॥१६७॥
द्विभागविस्तृताः कर्णा रथिकास्तेषु कारयेत् ।
उदकान्तरविच्छिन्ना मूलकर्णेषु योजयेत् ॥१६८॥
शेषं भद्र स्य विस्तारस्तदर्धमपि निर्गमः ।
सर्वतोभद्र मप्यस्य भद्रे भद्रे विभज्य च ॥१६९॥
पूर्वैर्गुणैस्तु संयुक्ते चतुर्दिक्षु निवेशयेत् ।
तस्य गर्भस्तु कर्तव्यः विस्तृतः ॥१७०॥
सार्धभागप्रमाणः स्याद्भित्तिर्गर्भस्य मध्यतः ।
बाह्यभित्तिस्तथैवास्य शेषं भ्रमणमाचरेत् ॥१७१॥
जङ्घाषड्भागमुत्सेधात्पीठं तस्य तदर्धतः ।
वरण्डीनान्तरं पत्रं भागेनैकेन कारयेत् ॥१७२॥
रथिकाद्वादशविस्तारानुपर्युपरि योजिता ।
तिस्रस्तिस्रो निवेशाः स्युः कर्णे कर्णेतथाक्रमम् ॥१७३॥
प्रथमा रथिकास्तस्य कुर्याद्भागत्रयोच्छ्रिताः ।
कुर्यादुपर्यन्याः पादपादविवर्जिताः ॥१७४॥
अष्टभिर्विस्तृतं भागैः सार्धैर्नवभिरुच्छ्रितम् ।
सर्वतोभद्र काकारं शिखरं तस्य कारयेत् ॥१७५॥
प्रासादोऽयं विमानाख्यः प्रख्यातश्चामृतोद्भवः ।
विमानः ।
द्विसप्तायामविस्तारं हिमवन्तं विभाजयेत् ॥१७६॥
चतुर्धा रथिकास्तत्र कर्णे कर्णे निवेशयेत् ।
द्विभागविस्तृताः सर्वा उपर्युपरि कारयेत् ॥१७७॥
प्रथमा भूमिका तस्य स्याच्च भागत्रयोच्छ्रिता ।
पादपादविहीनास्तु क्रमणोपरिभूमयः ॥१७८॥
नन्दिशालगुणैर्युक्तं शिखरं चात्र कारयेत् ।
सर्वतोभद्र वन्मध्ये भूमिकाश्च समाचरेत् ॥१७९॥
द्विभागा रथिकास्तस्य सर्व भागत्रयोच्छ्रिताः ।
द्वितीयभूमिरथिका भूम्युशयेण कारयेत् ॥१८०॥
शिखरस्योच्छ्रयः कार्यः सपादव्याससंमितः ।
अमृतोद्भववज्जङ्घा पीठं चात्र तथा भवेत् ॥१८१॥
जातिशुद्धो भवत्येष हिमवान् भुवनोत्तमः ।
हिमवान् ।
हिमाचलस्य संस्थाने तद्रू पे समवस्थिते ॥१८२॥
तस्य भद्रे षु सर्वेषु वर्धमानं च योजयेत् ।
भागषट्कप्रविस्तारं तदर्धेन विनिर्गतम् ॥१८३॥
भागैः सप्तभिरप्यस्य सार्धैः स्याच्छिखरोच्छ्रयः ।
शिखरस्याग्रतः स्तम्भः सिंहकर्णे विभूषयेत् ॥१८४॥
दिक्सूत्रैरस्य सर्वेषु क्रियां प्राग्वत्प्रकल्पयेत् ।
जङ्घोत्सेधश्च कर्णश्च शिखरं चास्य यद्भवेत् ॥१८५॥
हिमवत्सदृशं सर्वं विधेयं तद्विजानता ।
हेमकूट इति ख्यातः प्रासादोऽयं जगत्त्रये ॥१८६॥
एष त्रिमूर्तिनिलयः कार्यो नान्यस्य कस्यचित् ।
हेमकूटः ।
हिमवत्तुल्यसंस्थानं प्रासादं परिकल्पयेत् ॥१८७॥
तस्य मध्ये विधातव्यः सर्वतोभद्र संज्ञितः ।
वर्जनीयं तु तन्मध्ये वर्धमाननिवेशनम् ॥१८८॥
ततः स्थानेषु सर्वेषु खण्डरेखा निवेशयेत् ।
व्यासोच्छ्रितैस्ततः सिंहकर्णैर्भद्रं विभूषयेत् ॥१८९॥
ऊर्ध्वं च शिखरं तस्य वर्जनीयं विचक्षणैः ।
द्वे द्वे च रथिके कार्ये सपादद्व्यंशकोच्छ्रिती ॥१९०॥
तयोश्चोपरि विस्ताराच्छिखरं चतुरश्रकम् ।
उच्छ्रयः पञ्चभिः सार्धैर्विधेयः शिखरस्य च ॥१९१॥
दिक्सूत्रेषु च सर्वेषु क्रियामेवं प्रकल्पयेत् ।
बाह्यरेखा तु जङ्घा च हिमवत्सदृशी स्मृता ॥१९२॥
कैलासोऽयमिति ख्यातः कर्तव्यः शूलपाणये ।
कैलासः ।
एतस्यैव यदा भद्र मुच्छ्रितं सिंहकर्णकैः ॥१९३॥
द्वे द्वे च रथिके तत्र दीयते सुमनोरमे ।
शेषः शिखरविस्तारः पञ्चभागसमुच्छ्रितः ॥१९४॥
प्राग्ग्रीवकाश्च भद्रे षु भागभागविनिर्गताः ।
विस्तारेण चतुर्भागा दिक्षु सर्वास्वयं विधिः ॥१९५॥
विमानसदृशी चास्य बाह्यलेखा विधीयते ।
गुणैरेभिस्तदा युक्तः प्रासादः पृथिवीजयः ॥१९६॥
पृथिवीजयः ।
भक्ते षोडशभिः क्षेत्रे चतुरश्रे समन्ततः ।
गर्भोऽष्टवर्गः स्यात्तस्य मध्ये भित्तिर्द्विभागिका ॥१९७॥
भ्रमणं बाह्यभित्तिश्च तत्समे एव कीर्तिते ।
कर्णेषु रथिका कार्या सलिलान्तरभूषिता ॥१९८॥
तत्तुल्यायामविस्तारा रथिकाः स्युस्तथापराः ।
तद्वत्तृतीयरथिका भद्रं चतुष्पदायतम् ॥१९९॥
विस्तारार्धेन निष्क्रान्तं क्षोभयेद्वर्धमानतः ।
वरण्ड्यन्तरपत्रे च सार्धे भागेन कारयेत् ॥२००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:28.0870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

बायिंतु उडतल्याक दिवो कसल्याक?

  • ( गो.) विहिरींत उडी घेणार्‍याला दिवा कशाल ? जाणून बुजून नाशाला प्रवृत्त झालेल्याला वांचविण्यास मदत कशाला पाहिजे. 
RANDOM WORD

Did you know?

केस काढण्यासंबंधी विशेष माहिती द्यावी.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site