TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१ ते ५०

पुरनिवेशो दशमोऽध्यायः - १ ते ५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


पुरनिवेशो दशमोऽध्यायः - १ ते ५०
पुरस्य त्रिविधस्यापि प्रमाणमथ कथ्यते ।
प्राकारपरिखाट्टालद्वाररथ्याध्वभिः सह ॥१॥
ज्येष्ठं तत्र चतुश्चापसहस्रं पुरमिष्यते ।
मध्यं द्वाभ्यां सहस्राभ्यामेकेन व्यासतोऽधमम् ॥२॥
साष्टमांशं सपादं वा सार्धं वा व्यासमायतम् ।
कुर्यादेकैकमायामं चतुरास्रीकृतं शुभम् ॥३॥
चतुःषष्टिपदाख्येन पुरं सर्वं प्रकल्पयेत् ।
द्विरष्टकोष्ठं तत्कुर्यात्षट्पथं नवचत्वरम् ॥४॥
चतुरश्रीकृते क्षेत्रे प्रागुदीच्यन्तमागताः ।
चतुर्भागान्तरा वंशाः कार्यास्तस्य त्रयस्त्रयः ॥५॥
वंशषट्कविभक्तेऽस्मिन् पदषोडशकान्विते ।
राजमार्गः शुभः कार्यो मध्यमं वंशमाश्रितः ॥६॥
कार्यो ज्यायसि च ज्यायांश्चतुर्विंशतिकः करैः ।
विंशत्या मध्यमे मध्योऽधमे षोडशकोऽधमः ॥७॥
बलस्य चतुरङ्गस्य पौराणां पार्थिवस्य च ।
असम्बाधसमश्चैष कार्योऽयं काश्मशर्करः ॥८॥
महारथ्याद्वयं कार्यं तदुपान्तस्थवंशयोः ।
तद्द्वादश दशाष्टौ स्यात्करान् ज्येष्ठादिकं त्रिषु ॥९॥
पदमध्यगतं कार्यं यानमार्गचतुष्टयम् ।
ज्येष्ठादिषु पुरेष्वेषु तत्पद्यं च चतुःकरम् ॥१०॥
उपरथ्या महामार्गस्यार्धं वा द्विशयाधिकम् ।
शेषा रथ्यास्तदर्धेन विधातव्याः प्रमानतः ॥११॥
यानमार्गचतुष्कस्य कार्यौ पार्श्वद्वयाश्रितौ ।
पदाष्टकपदान्तस्थौ द्वौ द्वौ जङ्घापथावपि ॥१२॥
पुरे ज्येष्ठे त्रिहस्तौ तौ मध्यमेऽर्धकरोज्झितौ ।
मध्यमादर्धहस्तेन हीनौ स्यातां कनीयसि ॥१३॥
पुरस्यान्तर्गतौ कार्यौ घण्टामार्गौ तथापरौ ।
राजमार्गगुणोपेतौ प्रमाणेन च तद्विधौ ॥१४॥
प्राक्प्रत्यगायताः सप्तदश मार्गा इतीरिताः ।
याम्योत्तरायतास्तद्वदन्ये स्युस्तत्प्रमाणतः ॥१५॥
घण्टामार्गप्रमाणेन घण्टामार्गस्य बाह्यतः ।
समन्ततो वप्रभुवं स्थापयेत् तद्विधानवित् ॥१६॥
महारथ्याप्रमाणेन तद्भूमेर्बाह्यतस्ततः ।
व्यासखातान्तरैः सार्धं विधेयं परिखात्रयम् ॥१७॥
खातोत्पादोज्झितं कार्यं सत्र्यंशेनार्धतोऽपि वा ।
व्यासतः स्यादशेषेण मूलतस्तद्वदेव तत् ॥१८॥
कुर्याद्वप्रं स्वभूभागे परिखोत्खातया मृदा ।
सोत्सङ्गं गजपृष्ठं वा गोत्रीयपदताडितम् ॥१९॥
खातोद्वृत्तमृदा वप्रनिर्माणाधिकया ततः ।
भूप्रदेशान्पुरा निम्नानापूर्य समतां नयेत् ॥२०॥
एवं संशोध्य परिखात्रितयं परितोऽश्मभिः ।
विधेयमिष्टकाभिर्वा सम्यग्बद्धतलम् स्थिरम् ॥२१॥
सिरावारिभिरापूर्णं पूर्णं वागागिनाम्भसा ।
विचित्राब्जमनोहारि ससंग्राहाम्बुनिर्गमम् ॥२२॥
सर्वपाश्वेष्वथैतस्य गन्धान्धमधुपाङ्गनान् ।
सुमनोविटपारामान् कुर्याद् वासान् समुत्सकान् ॥२३॥
बाह्यभागं पुनस्तस्य विदध्यात्सर्वतोदिशम् ।
द्रुममूलैर्लताजालैः कण्टकैरपि संवृतम् ॥२४॥
वप्रोर्ध्वभागगं मध्यं स्थूलोपलशिलाचितम् ।
कुर्यात्प्राकारमुद्दामं यद्वा पक्वेष्टकामयम् ॥२५॥
ज्यायान्करैर्द्वादशभिर्दशभिर्मध्यमः स्थितः ।
कनीयानष्टभिर्हस्तैर्विस्तारः स्यात् त्रिधेत्यसौ ॥२६॥
उच्छ्रायः सप्तदशभिः करैर्ज्यायान् प्रशस्यते ।
मध्यमः पञ्चदशभिस्त्रयोदशभिरन्तिमः ॥२७॥
ऊर्ध्वं न सप्तदशकान्न त्रयोदशकादधः ।
प्राकारोच्छ्रयमिच्छन्ति नापि युग्मकरोन्मितम् ॥२८॥
हस्ते हस्तेऽङ्गुलद्वन्द्वमायतः सम्यगुच्छ्रयात् ।
यस्य वा द्वादशकरा मूले भवति विस्तृतिः ॥२९॥
चतुरस्रो च्छ्रितिस्तस्य शिरः स्याद्दशविस्तृतम् ।
हस्तोच्चं कपिशीर्षं स्याद्द्विहस्ता काण्डवारिणी ॥३०॥
कार्याः कर्णाश्रितैर्द्वारकर्णान्तस्थैश्च संयुताः ।
प्राकारेऽट्टालकास्तस्मिन् दिक्षु दिक्षु चतुर्दिशम् ॥३१॥
द्विभौमांश्चरिकोर्ध्वं च प्राकारोच्छ्रायविस्तृतान् ।
तदर्धं निर्गमान् कुर्यात्ससालाट्टालकानथ ॥३२॥
शतं शतं स्याद्धस्तानां मिथश्चाट्टालकान्तरम् ।
इत्थं पुरमगम्यं स्यात्पत्त्यश्वरथदन्तिनाम् ॥३३॥
चरिकां संचरद्वारां सुखारोहां सवेदिकाम् ।
ससोपानां सनिर्यूहां कुर्यात्सकपिशीर्षकाम् ॥३४॥
राजमार्गमहारथ्यासंश्रितानि चतुर्दिशम् ।
त्रीणि त्रीणि विधेयानि पुरे द्वाराणि तद्विदा ॥३५॥
राजमार्गमहाद्वारचतुष्कं विस्तरान्नव ।
अष्टौ सप्त करा नोर्व्या द्विगुणं त्रिकरोज्झितम् ॥३६॥
महारथ्याश्रयं द्वारं तत्षट्पञ्चचतुष्करम् ।
उच्छ्रयात्सार्धसार्धैकहस्तोनं विस्तरेण तत् ॥३७॥
कुर्यात्प्रतोलीः सर्वेषु महाद्वारेष्वथो दृढाः ।
दृढार्गलाश्चेन्द्र कीलाः कपाटपरिघान्विताः ॥३८॥
राजमार्गसमा शाला स्यात्प्रतोलीविनिर्गमा ।
तदर्धं कोष्ठकान्तः स्याद्व्यासोऽधर्धं तयोः स्मृतः ॥३९॥
चतुरश्रामिति न्यस्य प्रतोलीं वदनायताम् ।
व्यासतस्त्र्यंशविन्यस्तमार्गां मूषाद्वयान्विताम् ॥४०॥
अन्तर्भित्तौ चतुर्द्वारं महाद्वारेण सम्मितम् ।
विकल्पकोष्ठकान्तेषु दारुभिस्तद्विभूषयेत् ॥४१॥
द्वारे चोभयतःशाले द्वे द्वे द्वारे च मूषयोः ।
ते कार्ये सम्मुखे व्यासाद्द्विकरे द्विगुणोच्छ्रिते ॥४२॥
तद्दारुमूषयोः पट्टमध्यं पञ्चकरोच्छ्रितम् ।
तद्वत्कार्या द्वितीया भूर्द्वारशेषोदयोच्छ्रिता ॥४३॥
बहिर्द्वारविनिर्मुक्तां पूर्ववत्तां प्रकल्पयेत् ।
पुरःसंरोधनसहैर्गवाक्षैरग्रतो युताम् ॥४४॥
तलं ततो महाद्वारस्योर्ध्वे बद्ध्वा तृतीयकम् ।
रोधनद्वारयुग्हर्म्यसंयुक्तं सपरिक्रमम् ॥४५॥
सन्न्यस्तस्तम्भवेद्यन्यदूर्ध्वं तस्योपकल्पयेत् ।
व्यालजालशतघ्न्यस्त्रशस्त्रयस्त्रादिभिर्युतम् ॥४६॥
वृद्धिशोभाभिगुप्त्यर्थं पुरस्य प्रविकल्पयेत् ।
बृहद्द्वाराणि परितस्त्रितलाभिः प्रतोलिभिः ॥४७॥
प्रतोल्या दक्षिणाद्भागादुच्छ्रितो वामतो गतः ।
यावद्द्वितीयं तत्पार्श्वमेकः कार्यो बहिः स्थितः ॥४८॥
द्वितीयो वामभागात्तु निर्गत्यास्यैव वेष्टकः ।
कार्यः स्यादा तदुत्थानात्प्राकारस्तस्य बाह्यतः ॥४९॥
एतयोरन्तरालं च राजमार्गेण सम्मितम् ।
कर्तव्यं स्यादिहैवं तु वक्त्रद्वारकमुत्तमम् ॥५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-18T20:02:24.9070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मोडबनिया

  • पु. गजराथीं बनियांतीलल एक जात . हे भांड्यांची मोड जुन्यापुराण्या वस्तू वगैरेंचा व्यापार करतात . ( मोडणें - मोड + वाणी - बनिया ) 
RANDOM WORD

Did you know?

Navchandi Paath explain why it should be done?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site