TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
५१ ते १००

रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः - ५१ ते १००

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः - ५१ ते १००
भागार्धं द्वारविस्तारः प्रासादस्योच्छ्रितिं पुनः ।
कुर्वीत चतुरो भागाञ्छादयेच्चित्रकूटवत् ॥५१॥
कार्या द्विभागिकाः शालाः सालिन्दास्तस्य बाह्यतः ।
बहिर्भित्तिपरिक्षिप्ताश्चतुर्भागायताः शुभाः ॥५२॥
द्वौ द्वौ गवाक्षकौ स्तम्भाः प्रतिशालं भवन्ति षट् ।
चतुःस्तम्भधृतैर्युक्ताः कार्या वा धार्मिकालयैः ॥५३॥
नन्द्यावर्तोऽयमेवं स्यात्सप्राग्रीवचतुष्टयः ।
प्रागु द्वारक्षणोपेतः प्रासादः शुभलक्षणः ॥५४॥
नन्द्यावर्तः ।
क्षेत्रषड्भागविस्तारे दशभागकृतायतौ ।
मध्यादपरभागेऽस्य देवकोष्ठं निवेशयेत् ॥५५॥
चतुरंशप्रतिन्यासं चतुरश्रं समन्ततः ।
द्वारं तस्य विधातव्यं भागमध्यर्धमुच्छ्रितम् ॥५६॥
पादोनं भागविस्तारं सिंहवक्त्रविभूषितम् ।
सीमा तस्याग्रतः कार्या देवकोष्ठेन सम्मिता ॥५७॥
स्तम्भैः षोडशभिर्युक्ता भागद्वितयमुच्छ्रितैः ।
ससीम्नो देवकोष्ठस्य समन्ताद्भित्तिवेष्टितः ॥५८॥
अलिन्दो भागिकः कार्यो गवाक्षैरुपशोभितः ।
सीम्नोश्चाग्रतः पार्श्वे षड्दारुकयुता बहिः ॥५९॥
कार्या द्विरंशाः प्राग्रीवा भागिकालिन्दवेष्टिताः ।
द्विद्विस्तम्भधृताः सर्वे पार्श्वतश्चयशोभिताः ॥६०॥
अलिन्दास्तु चतुःस्तम्भाः कार्याः प्राग्रीवकाग्रतः ।
अवतंसक इत्येष सर्वलक्षणसंयुतः ॥६१॥
प्रासादः कथितः सम्यक् ।
अवतंसः ।
स्वस्तिकः प्रोच्यतेऽधुना ।
चतुरश्रीकृते क्षेत्रे षड्भागप्रविभाजिते ॥६२॥
प्रासादं कल्पयेन्मध्ये द्विभागायामविस्तृतम् ।
द्वारपाशोऽस्य भागार्धविस्तृतो भागिकोदयः ॥६३॥
गर्भवेश्म चतुःस्तम्भमलिन्दो भागिदो बहिः ।
तस्य स्युर्द्वादश स्तम्भा भागिकोऽलिन्दकोऽपरः ॥६४॥
विंशतिस्तम्भसंयुक्तो विधातव्यः समन्ततः ।
चयावृतश्च पुरतो भागो वाष्टधरान्वितः ॥६५॥
भागमेकैकमुत्सृज्य कर्णाभ्यां भागविस्तृतौ ।
भागिकोच्छ्रायनिष्कासौ त्रिदिशं सगवाक्षकौ ।
स्वस्तिकोऽयं समाख्यातः प्रासादश्चित्रलक्षणः ॥६७॥
स्वस्तिकः ।
अथाभिधीयतेऽधुना प्रासादः शुभलक्षणः ।
षड्भागभाजिते क्षेत्रे चतुरश्रे समन्ततः ॥६८॥
द्विभागायामविस्तारं मध्ये गर्भगृहं भवेत् ।
भागद्वयोच्छ्रितैः स्तम्भैर्युतं व्यक्तैः सलक्षणैः ॥६९॥
निष्क्रान्तेषु बहिर्भागे गर्भपादेषु योजयेत् ।
तोरणानि मनोज्ञानि ककुप्सु चतसृष्वपि ॥७०॥
गर्भस्तम्भप्रमाणेन तानि स्तम्भद्वयेन वा ।
समुत्क्षप्तानि युक्तानि कलशै रविमण्डलैः ॥७१॥
पल्लवैः पत्रजात्यादिविन्यासैश्चाप्यनेकशः ।
भूषितास्ये पुनर्मूर्ध्नि मकराणां मुखैरपि ॥७२॥
स्तम्भयोरन्तरे दद्यादुभौ मकरपूरिमौ ।
अन्योन्याभिमुखे श्लिष्टे कुर्यान्मकरयोर्मुखे ॥७३॥
चतुर्णामपि निरिद्ष्टस्तोरणानां मया विधिः ।
अलिन्दो भागिकश्चा न्यो बहिर्भागे प्रकीर्तितः ॥७४॥
स्युर्भागिकान्यलिन्दान्ते धार्मिकायतनानि च ।
वेष्टितानि बहिर्भित्त्या सम्मुखानि परस्परम् ॥७५॥
धार्मिकालयभित्तीनां भूमिर्या बाह्यतो भवेत् ।
तस्याः षड्दारुकाणि स्युर्भागमात्रोच्छ्रितानि च ॥७६॥
प्राग्रीवकैः ससोपानैर्दिक्चक्रैस्तानि भूषयेत् ।
अपरस्याः पुनर्भित्तेर्भागद्वयविनिस्सृतम् ॥७७॥
मध्ये द्विभागविस्तीर्णं देवकोष्ठं निवेशयेत् ।
द्वारपाशं च कुर्वीत तस्योकुं भागमुच्छ्रितम् ॥७८॥
तथा भागार्धविस्तारमित्येष क्षितिभूषणः ।
प्रासादः कीर्तितः सम्यक् सर्वलक्षणलक्षितः ॥७९॥
क्षेत्रस्य चतुरश्रस्य भागान् द्वादश कल्पयेत् ।
मध्ये गर्भं चतुःस्तम्भं तस्य कुर्याद् द्विभागिकम् ॥८०॥
तद्बहिर्भागिकोऽलिन्दो द्वादशस्तम्भवान् भवेत् ।
मध्येऽपरस्यां यौ स्तम्भौ ताभ्यां कुर्वीत तोरणम् ॥८१॥
अलिन्दो भागिकः कार्यो भित्त्या भागिकया वृतः ।
प्राच्यां षड्दारुकं मध्ये गर्भव्यासोन्मितायति ॥८२॥
तृतीयो भागिकोऽलिन्दः स्याद्भित्त्या परिवेष्टितः ।
चतुर्भागायतं भूयस्तत्र षड्दारुकं भवेत् ॥८३॥
प्राग्रीवं भागविष्कम्भं कुर्याद्भागद्वयायतम् ।
अग्रतः स्तोभितं स्तम्भैर्भागान्तस्थचयावृतम् ॥८४॥
यथा प्राच्यां तथोदीच्यां याम्यायामपि कीर्तितम् ।
दिशि प्रतीच्यां तु पुनर्द्वितीयालिन्दकाद्बहिः ॥८५॥
द्विभागायामविष्कम्भं देवकोष्ठं निवेशयेत् ।
सपक्षद्वारकं श्रीमद् द्वारपाशोपशोभितम् ॥८६॥
भागिकोऽलिन्दकस्तस्माद् बहिर्भित्त्याभिवेष्टितः ।
बहिश्चयावृतो वा स्याद् गवाक्षैर्वा विभूषितः ॥८७॥
पृथ्वी विजयते यस्मात्तेनासौ पृथिवीजयः ।
भूजयः ।
यदा पृथ्वीजयस्यैव कर्णप्राग्रीवकावुभौ ॥८८॥
कोणेषु भागिकौ स्यातां विज्ञेयो विजयस्तदा ।
विजयः ।
अयं समन्तादुत्क्षिप्तो बाह्यालिन्दं विना यदा ॥८९॥
मध्यमालिन्दसौधस्थं कर्णप्रासादकैश्चितः ।
प्रथमालिन्दगर्भौ च समुत्क्षिप्ततरौ ततः ॥९०॥
स्यातां छाद्यद्वयच्छन्नौ तदा नन्दोऽभिधीयते ।
नन्दः ।
चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ॥९१॥
चतुरश्रो भवेन्मध्ये देवकोष्ठो द्विभागिकः ।
द्वारबन्धोऽस्य भागोच्चः कार्यो भागार्धविस्तृतः ॥९२॥
स्याद् बहिर्द्वादशधरोऽलिन्दको देवकोष्ठतः ।
भागिकः स च विज्ञेयो भित्तियुक्तस्ततोऽपरः ॥९३॥
अयं द्विभागिकैर्युक्तः प्राग्रीवैर्भागनिर्गमैः ।
तथा तृतीयोऽलिन्दः स्यात्समन्ताद्भित्तिवेष्टितः ॥९४॥
प्राग्रीवकैश्चतुःस्तम्भैः सप्रवेशैर्विभूषितः ।
भागिकी स्याद्बहिर्भित्तिरितरा तु धरैः समा ॥९५॥
इत्येष श्रीतरुर्नाम प्रासादः परिकीर्तितः ।
श्रीतरुः ।
अस्यैव स्तम्भगर्भस्य द्वितीयालिन्दभित्तिषु ॥९६॥
षड्दारूणि विधेयानि पूर्वरूपव्यवस्थितेः ।
द्वौ द्वौ प्राग्रीवकौ कार्यौ तृतीयालिन्दकाद्बहिः ॥९७॥
तौ च द्विन्तरितौ सर्वतो भागनिर्गतौ ।
एवं पञ्चांशता स्तम्भैर्द्वाभ्यां च परिवेष्टितः ॥९८॥
चतुःस्तम्भैः सप्रवेशैः समन्तादुपनिर्गमैः ।
प्रासादोऽयं समाख्यातो नामतः प्रमदाप्रियः ॥९९॥
प्रमदाप्रियः ।
भागविस्तारविष्कम्भमस्य प्राग्रीवकं यदा ।
भिन्नालिन्दाग्रतस्तिर्यग्द्वे शाले तन्मुखं शुभम् ॥१००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-19T22:18:54.5330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

discrete scale

  • खंडित मापनी 
  • (also discontinuous scale) 
RANDOM WORD

Did you know?

shreeyantra siddha kase karave ?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.