TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
५१ ते १००

ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः - ५१ ते १००

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः - ५१ ते १००
द्वियवोना कला चक्षुर्व्यावृत्त्या परिवर्धितः ।
पूर्वस्य करवीरेण सह श्वैत्यं यवत्रयम् ॥५१॥
द्वितीयश्वैत्यदृक्ताराप्रसृतिः प्रोक्तमानतः ।
कपोललेखा परतो यवद्वा ता कला भवेत् ॥५२॥
ब्रह्मसूत्रान्नासिकाग्रं परस्मिन् सप्तभिर्यवैः ।
नासापुटः पूर्वभागे स्याद्यवाधिकमङ्गुलम् ॥५३॥
पूर्वे भागे यवं गोजी तत्रोपान्ते विधीयते ।
परभागोत्तरोष्ठः स्यात्प्रमाणेनार्धमात्रकः ॥५४॥
त्रियवश्चाधरोष्ठः स्याच्छेषश्चापचयस्तयोः ।
पाल्या मध्ये भवेत् सूत्रं पाल्यास्तु चिबुकं परे ॥५५॥
हनुपर्यन्तलेखा च सूत्रादर्धाङ्गुले भवेत् ।
हनोर्मध्यगतं सूत्रं परे स्यात्परिमण्डलम् ॥५६॥
सहैकसूत्रे परदृक्पर्यन्तेन परिस्फुटा ।
मुखपर्यन्तलेखार्धे हनोरुपरि चाधरः ॥५७॥
कुर्याल्लेखाभिरेताभिः परभागं विचक्षणः ।
सूत्राङ्गुलोर्ध्वमात्रायां तस्माद् ग्रीवा यथोदिता ॥५८॥
सूत्रसंयोगात्पूर्वस्मिन्नङ्गुले सयवेऽङ्गुलः ।
हिक्काध्यर्धाङ्गुलं सूत्रात्पूर्वे स्यात्सुप्रतिष्ठिता ॥५९॥
बाह्यलेखा हि तत्सूत्रात्परस्मिन्नङ्गुलाष्टके ।
तालें यवोनग्रीवातो नग्रीवज्ञेयौसूनदूर्वकौ ॥६०॥
हिक्कासूत्रात्समारभ्य वक्षोभागोऽग्रिकं भवेत् ।
तावन्मात्रे तरेवाहु तस्मात्प्रभृति निर्दिशेत् ॥६१॥
हिक्कासूत्रात्परे भागे स्तनश्चाङ्गुलपञ्चके ।
रेखान्तसूचकः कार्यो मण्डलं सार्धमङ्गुलम् ॥६२॥
तस्मादनन्तरं बाह्यभागमात्रं विनिर्दिशेत् ।
हिक्कासूत्रात् समारभ्य स्तनः पूर्वषडङ्गुले ॥६३॥
स्तनात्षडङ्गुले तिर्यगक्षो स्मा द्वौ द्विभागिकः ।
कक्षतो द्विकलेऽधस्ताद्बाह्यलेखा विधीयते ॥६४॥
आभ्यन्तरा बाह्यलेखा स्तनात्पञ्चाङ्गुले तलेऽन्तरे ।
ब्रह्मसूत्राच्च भागेन मध्यभागे परिविदुः ॥६५॥
मध्यात्त्वकलयावहः परे तिर्यग्विभज्यते ।
मध्यप्रान्तः पूर्वभागे भवेत्सूत्राद्दशाङ्गुलः ॥६६॥
तिर्यङ्नाभिप्रदेशः स्यात्परतो ब्रह्मसूत्रतः ।
यवैश्चतुर्भिरधिकमङ्गुलानां चतुष्टयम् ॥६७॥
पूर्वभागे विनिर्दिष्टः स एवैकादशाङ्गुलः ।
मध्येनैति परस्योरोः सूत्रं नाभ्यन्तराश्रितम् ॥६८॥
प्रयात्यपरजाच्चैतात् पूर्वतः कलया च तत् ।
जान्वधोभागतश्चार्धकलया त्रियवेन च ॥६९॥
जङ्घामध्येन लेखायाः प्रसक्तं नलकस्य तु ।
षांते वैरवं परतश्चतुर्भिः सूत्रमिष्यते ॥७०॥
अनेनैवानुसारेण बहिर्लेखा विधीयते ।
ब्रह्मसूत्रात्परे भागे कटिरङ्गुलपञ्चके ॥७१
तामालमात्रा तु सा पूर्थे मेडाग्रं सूत्रसङ्गतम् ।
सूत्रादरभागोरू मूलाग्रये ॥७२॥
सूत्रादपरभागोरुमध्ये रेखा कलाद्वये ।
सूत्रात्पूर्वोरुमूलं स्यात्पूर्वतः कलया तथा ॥७३॥
कलाद्वयेन विज्ञेया रेखा पूर्वस्य जानतुः ।
सार्धाङ्गुलयवं जानु तत्पार्श्वं चार्धमङ्गुलम् ॥७४॥
सूत्रेण पादस्य मध्यरेखा विभज्यते ।
आदिमध्यान्तलेखायां सूत्रशौचमुदाह्वता ॥७५॥
सूत्रात्प्राग्भागमलके प्रान्तः पञ्चभिरङ्गुलैः ।
अर्धाङ्गुलं क्षयः कार्यः परभागोरुजङ्घयोः ॥७६॥
पराक्षिमध्यगं सूत्रं लम्बभूभिप्रतिष्ठितम् ।
परपादतनान्तात्प्रागङ्गुलेन विधीयते ॥७७॥
--- सूत्रात्पूर्वपादस्य तलमष्टाङ्गुलं भवेत् ।
अधस्तात् तलयोः सूक्ष्मा स्याल्लेखाष्टादशाङ्गुलम् ॥७८॥
अङ्गुष्ठकाद्र कमात् प्रदेशिन्यङ्गुलाधिका ।
परपादतलावस्तून् पूर्वा ह्यङ्गुष्ठमूलगम् ॥७९॥
सूत्रं यथाति सा भूमिलेखेति परिकीर्तिता ।
सूत्रादर्धाङ्गुलेनोर्ध्वं तस्मात्पार्ष्णि परस्य च ॥८०॥
अङ्गुष्ठादङ्गुलीपातः पूर्वपादेऽनुसारतः ।
उपप्रदेशिनीमानात्कुर्यादत्र प्रदेशिनीम् ॥८१॥
अपराश्चाङ्गुलीः सर्वाः क्रमेण क्षपयेत्ततः ।
इति साचीकृतं स्थानमेतदुक्तं यथार्थतः ॥८२॥
अध्यर्धाक्षमिदानीं च स्थानकं सू प्रचक्षते ।
ब्रह्मसूत्रमुखे कृत्वा मानमात्रं विधीयते ॥८३॥
केशान्तलेखा सूत्रात्स्यान्मात्रैका यवसंयुता ।
पृथग्वक्षः पृथक् श्रोणिः वृत्तःवाहः सुसंस्कृतिः ॥८४॥
भद्रा कारो भवेद् भद्रो वृत्तवक्त्रः स्वभावतः ।
मालव्यस्य भवेन्मूर्धा प्रमाणेनाङ्गुलत्रयम् ॥८५॥
चतुर्मात्रललाटं च नाश वक्त्राशिरोधरा ।
मात्रा द्वादश वक्षेस्ये नाभिमेढ्रान्तरोदरे ॥८६॥
अष्टादशाङ्गुलौ चोरू जङ्घे अप्येवमेव हि ।
चतुरङ्गुलकौ --- जानुनी चतुरङ्गुले ॥८७॥
मालव्यस्यायमायामः षण्णवत्यङ्गुलो मतः ।
विस्तारो वक्षसस्तस्य मात्राः षड्विंशतिः स्मृतः ॥८८॥
बाह्वोः षोडशमात्रश्च प्रबाह्वोरेवमेव सः ।
पार्ष्ण्यौ द्वादशमात्रस्ये मालव्यस्त्वेह विस्तुतिः ॥८९॥
पीनांसो दीर्घबाहुश्च पृथुवक्षाः कृशोदरः ।
वृत्तोरुकटिजङ्घश्च मालवः पुरुषोत्तमः ॥९०॥
हंसस्य वक्रं पृथुगण्डभागं ।
कृशं शशस्यायतमास्यमाहुः ।
विस्तारदैर्घ्याद्भवकस्य तुल्यं ।
सुखं सुवृत्तं त्विहच भद्र वक्रे ॥९१॥
स्यान्मालावस्या लेपनं तु कान्तमयोज्यं  ।
देही तु रूपैश्च भवन्ति युक्तास्ते कर्मणि सर्वगुणान्वितास्ते ॥९२॥
स दुर्लभं स्यात्पुरुषः प्रमेय- ।
मानोऽस्ति कीर्ण इति ह षष्टः ॥९३॥
मांसलेन शरीरेण ग्रीवासिरा अया --- ।
मांसलायातशाखा च नारी वृत्तेति सा मता ॥९४॥
पृथुवक्त्रा कटीह्रस्वा ह्रस्वग्रीवा पृथूदरी ।
पुंवत्काण्डकतुल्या स्यात्सा नारी पौरुषी मता ॥९५॥
अल्पकायशिरोग्रीवा लघुशाखा भवेच्च या ।
कृशाल्पब्रह्मसत्त्वा च सा नारी बालकी स्मृता ॥९६॥
पुंस्पर्शात्पश्यता या स्यात्कौमारे प्राप्तयौवना ।
अन्या सा बालकी प्रोक्ता स्त्रीलक्षणविचक्षणैः ॥९७॥
भुवः सद्वियवामात्रा लेखा कृशयवाङ्गुलाः ।
दक्तोयमन्तरे वर्त्म ताराय अर्धमालिखेत् ॥९८॥
स्वैत्यं चतुर्यवं दृश्यशेषं सा तिरस्कृतम् ।
कपोतरेखा परतो यववर्जितमङ्गुलम् ॥९९॥
सूत्रापूर्वपटान्तः स्यादर्धाङ्गुलमितेन्तरे ।
नासिकान्तोऽङ्गुलं सूत्रात्परे पूर्वेतपाङ्गुलम् ॥१००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-20T20:10:47.7670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

megaripple bedding

  • महालहर संस्तरण 
RANDOM WORD

Did you know?

लग्न ठरवितांना पत्रिका पाहणे किती योग्य आहे? पत्रिका पाहूनही कांही विवाह अयशस्वी कां होतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site