TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१ ते ५०

सप्तविंशतिमण्डपलक्षणं नाम सप्तषष्टितमोऽध्यायः - १ ते ५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


सप्तविंशतिमण्डपलक्षणं नाम सप्तषष्टितमोऽध्यायः - १ ते ५०
इदानीमभिधीयन्ते मण्डपाः सप्तविंशतिः ।
प्रासादाद् द्विगुणं कुर्यात्कनिष्ठं तत्र मण्डपम् ॥१॥
पादोनद्विगुणं मध्यं प्रासादे तु कनीयसि ।
तस्मिन्नेव कनीयांसं विदध्यात्सार्धमानतः ॥२॥
पादोनद्विगुणः सार्धः सपादश्चेति मध्यमे ।
सार्धः सपादस्तुल्यश्चेत्युत्तमाद्याः स्युरुत्तमे ॥३॥
सपादद्विगुणाः सार्धद्विगुणाः सान्तरोद्भवाः ।
क्षुद्र प्रासादकेषु स्युर्मण्डपा बहवोऽपरे ॥४॥
क्षेत्रालाभे पुनरिमान्सर्वान्सर्वेषु योजयेत् ।
दैर्घ्यादैर्घ्येण गृह्णीयाद्विस्तृती --- तथा ॥५॥
प्रमाणं मण्डपे कार्ये वलभ्यां गरुडेऽपि च ।
चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ॥६॥
भागैश्चतुर्भिर्भद्रं स्याद्द्वौ भागौ प्रतिभद्र कम् ।
अग्रतः पृष्ठतो वापि निर्गमो भागिको भवेत् ॥७॥
भद्रा णां निर्गमो भागं सार्धभागमथापि वा ।
प्रासादस्य त्रिभागेन चतुर्भागेन वा भवेत् ॥८॥
अर्धेनाथ षडंशेन पञ्चांशेनाथ निर्गतिः ।
प्रासादानां समा कार्या पादोना वा प्रमाणतः ॥९॥
कार्या त्रिभागहीना वा मण्डपास्तु समैः क्षणैः ।
स्वविस्तारसमं भद्रं मुखे चैषा प्रकीर्तिता ॥१०॥
कर्णा द्विभागिका ज्ञेयास्तेषां कोणचतुष्टये ।
वामदक्षिणभागाभ्यां सह भद्रं षडंशकम् ॥११॥
प्रतिभद्रे नचैतस्मिन्विदध्यादग्रपृष्ठयोः ।
चतुःषष्टिधरोऽयं स्यात्पुष्पको नाम मण्डपः ॥१२॥
पुष्पकः ।
दिक्त्रये प्रतिभद्रा णि मुखे प्राग्ग्रीव एव हि ।
पुष्पभद्रो तिस्तम्भश्चतुष्कः सुप्रभो भवेत् ॥१३॥
इति स्तम्भद्वयत्यगाद्ब्रूमो मण्डपविंशतिम् ।
यो पुष्पभद्र स्तु व्रतोऽमृतनन्दनः ॥१४॥
कौसल्यो युद्विसंकीर्णो गजभद्रो जयावहः ।
श्रीवत्सो विजयश्चैव वस्तुकीर्णश्रुतिर्जयः ॥१५॥
यज्ञभद्रो विशालश्च सुश्लिष्टः शत्रुमर्दनः ।
भायंवो दमश्चैव मानवो मानभद्र कः ॥१६॥
सुग्रीवो मण्डपः प्रोक्तो भद्रै र्युक्तश्चतुष्पदैः ।
चतुर्भिस्त्रिपदैः कर्णैर्निर्गमैः प्रागुदाहृतैः ॥१७॥
धराणामेव विंशत्या चतुरुत्तरया युतः ।
अस्मद्वासस्तम्भं षडन्ये द्विधरक्षयात् ॥१८॥
सुग्रीवो हर्षनामा च कर्णिकारः पदार्धिकः ।
सिंहश्च सागभद्र श्च सुस्तत्र श्चेति सप्तमः ॥१९॥
सप्तविंशतिरित्युक्ता मण्डपानां समासतः ।
एषां विचित्ररूपाणां प्रासादाकृतिधारिणाम् ॥२०॥
मिश्रकाश्च परिज्ञेया हस्तैर्द्वित्र्येकमानतः ।
मूलप्रासादतुल्या वा त्र्यंशेनार्धेन चोर्जिताः ॥२१॥
द्विस्तम्भशुकनासाग्रे विज्ञेयः पादमण्डपः ।
प्रासादभित्तिमानेन मण्डपे भित्तयः स्मृताः ॥२२॥
सपादसत्रिभागा वा वी स्यु --- ।
क्वचिद्भित्तिविहीनांश्च कुर्यादाकाशमण्डपान् ॥२३॥
लतिष्वेष विधिः प्रोक्तः सान्धारेषु स्वमानतः ।
प्रासादो यादृशस्तादृङ् मण्डपोऽपि तदग्रतः ॥२४॥
यानि प्रासादनामानि तानि स्युर्मण्डपेष्वपि ।
वास्तुभेदेन भेदोऽयं मण्डपानां विधीयते ॥२५॥
शतार्धमण्डपस्थानं नीलाधं भोजनाय च ।
यज्ञार्थो यतिमुख्यार्था विहारार्था नृपालदो ॥२६॥
कार्यो दशभ्य विस्तारो --- नु शतावधेः ।
हस्तानां संख्यया मानं हस्तेन स्याद्गृहेशितुः ॥२७॥
उपयोगानुसारेण स्वधिया परिकल्पितः ।
आयतश्चतुरश्रो वा कर्तव्यो नाद्यमण्डपः ॥२८॥
शतमष्टोत्तरं ज्येष्ठश्चतुःषष्टिकरोऽवरः ।
कनिष्ठो मण्डपः कार्यो द्वात्रिंशत्करसंमितः ॥२९॥
अद्विविस्तारोऽस्य स्यान्नेपथ्यगृहकादि तु ।
परिच्छेदानुसारेण स्वधिया परिकल्पयेत् ॥३०॥
द्वारद्वयं च कर्तव्यं तत्प्रमाणानुसारतः ।
नेपथ्यगृहके चान्यत्तृतीयं रङ्गसम्मुखम् ॥३१॥
समैः क्षणैः समैः स्तम्भैरलिन्दैश्च समैर्युताः ।
समकर्णाः समा द्र व्यविधेया मण्डपाः शुभाः ॥३२॥
भित्तिमां चतुस्रस्यात्कार्यः कामं सनिर्गमः ।
स्तम्भकोणाश्रितं मानं भित्तिः स्यान्मानबाह्यतः ॥३३॥
वेदिर्मण्डपभूषाद्यैः स्यान्मध्ये बाह्यतोऽपि वा ।
क्षेत्रलोभे तु कर्तव्या भित्तिमानस्य मध्यतः ॥३४॥
चतुःषष्टिपदं ज्येष्ठे भद्रं कुर्याच्चतुष्पदम् ।
एकाशीतिपदं मध्ये भद्रं स्यात्पञ्चभागिकम् ॥३५॥
सततागा विभक्ते तु खण्डशः स्यात्कनीयसि ।
कर्णा द्विभागिकाः कार्या भित्तियुक्तश्च मण्डपः ॥३६॥
भद्र प्रासादसदृशौ कर्णभद्रं च भाजयेत् ।
क्षोभणं बाह्यतो रक्षेत् पाडनं स्याद् विपर्यये ॥३७॥
क्षरकं कुम्भकलाशा कपोतं जङ्घया सह ।
प्रासादस्यानुरूपेण --- ॥३८॥
रुचकश्चतुरश्रः स्यादष्टाश्रिर्वज्र उच्यते ।
द्विवज्रः षोडशाश्रिश्च प्रतीतो द्विगुणस्ततः ॥३९॥
मध्यप्रदेशेऽयं स्तम्भो वृत्तो वृत्तः प्रकीर्तितः ।
अथान्येन प्रकारेण षोढ कुर्वीत मण्डपान् ॥४०॥
त्रिपञ्चसप्तनवभिश्चतेक्षणैः उभयसमः ।
साद्र मध्यक्षणोऽन्येभ्यः सत्र्यंशः सार्ध एव वा ॥४१॥
एवमेव प्रकर्तव्यः षड्प्रकारेऽपि मण्डपे ।
प्रासादगर्भस्यान्तेन स्युस्तद्भित्तिरथापि वा ॥४२॥
स्तम्भसूत्रस्य मार्गेण क्षणे मण्डपमध्यगे ।
मूलप्रासादगर्भेण कार्या वा भद्र विस्तृतिः ॥४३॥
शेषाः क्षणा विधातव्या समसंख्याक्षतैर्धरैः ।
प्रासादच्छादनासाद्भिः सत्र्यंशावापि मण्डपे ॥४४॥
सदृशां स समञ्चशद् द्वा--- समतले भवेत् ।
उच्छ्रायं मण्डपे ब्रूमः प्रकारेणापरेण च ॥४५॥
तलार्धं पदमध्येया --- यस्य विहितः शुभः ।
प्रासादे दशधा भक्ते चतुःपञ्चकरे समा ॥४६॥
नव्यंश मण्डपंस्यादुत्तरपट्टयोर्द्वयोः ।
षड्युट्सूहस्तेत्वष्टांशं सप्तभागे न वास्तके ॥४७॥
दशैकादशके षट्स्युः सार्धभागासु संख्यया ।
त्रयोदशक --- हस्तयोः सार्धपञ्चकम् ॥४८॥
सपादाः पञ्चभागाः स्युश्चतुर्दश करे पुनः ।
तदूर्ध्वं विंशतिं यावदुच्छ्रितिः पञ्चभागिकी ॥४९॥
संसृता व्यतिरिक्तव्या त यथा वापि प्रकल्पयेत् ।
शुकनासस्य यः स्तम्भः स्तम्भो यो मण्डपस्य च ॥५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-20T03:21:37.5400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कणीस

  • न. १ ज्यांत धान्य भरलें जाहे असा धान्याचा तुरा ; गुच्छ ; भट्टा . ( भात , वरी , राळा , गहुं या धान्याशिवाय ). २ केतकीच्या झाडास येणारा तुरा , पुप्प ; केवड्याचा गुच्छ . ३ नारळाची पोय ; शेरणी ( जीस पुढें नारळ धरतात ती ). ४ कुरड्या करण्याकरितां शिजविलेलें व मळलेलें तांदुळाचें पीठ . हें सोर्‍यांत दाबून त्याच्या कुरड्या पाडतात . ५ उसांचें वाढें , तुरा . ' ऊस सांडुनि मागती । कणीस त्याचें । ' - एभा २१ . ३३९ . ( सं . कणिश ; प्रा . कणिस ; ' कणिसं सस्यशीर्षक । ' - हेमचंद्र ) 
  • न. गाडीच्या चाकांत शिरलेला कण्याचा भाग . ( कणा ) 
  • ०निसवणें पसवणें - कणीस बाहेर येणें . ०पागोरा - पु . ( व्यापक .) जोंधळा , बाजरी वगैरेचें कणीस . ( क्रि०घेणें ; तोडणें मोडणें ). ' हिंडत्या फिरत्या बलुत्यांनी कणीसपागोरे नेले म्हणुन ताटेंथोटीं राहिलीं .' 
  • ना. तुरा ( दाण्यांनी भरलेला धान्याचा ), पुष्प ( केतकीचे ), भुट्टा ( मक्याचा ). 
RANDOM WORD

Did you know?

मंदार गणेश उपासनेची सविस्तर माहिती द्यावी.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.