TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१ ते ५०

यन्त्रविधानं नामैकत्रिंशोऽध्यायः - १ ते ५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


यन्त्रविधानं नामैकत्रिंशोऽध्यायः - १ ते ५०
भ्राम्यद्दिनेशशशिमण्डलचक्रशत्सं ।
मेतज्जगत्त्रितययन्त्रमलक्ष्यमध्यम् ।

भूतानि बीजमखिलान्यपि सम्प्रकल्प्य ।
यः सन्ततं भ्रमयति स्मरजित्स वोऽव्यात् ॥१॥
यन्त्राध्यायमथ ब्रूमो यथावत्प्रक्रमागतम् ।
धर्मार्थकाममोक्षाणां यदेकमिह कारणम् ॥२॥
यदृच्छया प्रवृत्तानि भूतानि स्वेन वर्त्मना ।
नियम्यास्मिन् नयति यत्तद्यन्त्रमिति कीर्तितम् ॥३॥
स्वरसेन प्रवृत्तानि भूतानि स्वमनीषया ।
कृतं यस्माद्यमयति तद्वा यन्त्रमिति स्मृतम् ॥४॥
तस्य बीजं चतुर्धा स्यात् क्षितिरापोऽनलोऽनिलः ।
आश्रयत्वेन चैतेषां विजयदप्युपयुज्यते ॥५॥
भिन्नः सूतश्चकैरुक्तस्ते च सम्यङ् न जानते ।
प्रकृत्या पार्थिवः सूतस्नायात् तत्र क्रिया भवेत् ॥६॥
पार्थिवत्वादयमतो न कदाचिद्विभिद्यते ।
द्र व्यत्वादग्निजत्वं हि यद्यस्य परिकल्प्यते ॥७॥
तदा विरोधो नैवास्य पावकेनोपपद्यते ।
गन्धाद् वह्नेर्विरोधाच्च स्थिता पार्थिवता बलात् ॥८॥
आत्मैव बीजं सर्वेषां प्रत्येकमपराण्यपि ।
एवं भेदा भवन्त्येषां भूयांसः सङ्करान्मिथः ॥९॥
स्वयंवाहकमेकं स्यात्सकृत्प्रेर्यं तथापरम् ।
अन्यदन्तरित वाह्यं वाह्यमन्यत् त्वदूरतः ॥१०॥
स्वयंबाह्यमिहोत्कृष्टं हीनं स्यादितरत्त्रयम् ।
तेषु शंसन्ति दूरस्थमलक्ष्यं निकटस्थितम् ॥११॥
यद्युत्पन्नमलक्ष्यं यदेकं बहुषु साधकम् ।
तदन्यदपि शंसन्ति यस्माद्विस्मयकृन्नृणाम् ॥१२॥
एका स्वीया गतिश्चित्रे वाह्येऽन्या वाहकाश्रिता ।
अरघट्टाश्रिते कीटे दृश्यते द्वयमप्यदः ॥१३॥
इत्थं गतिद्वयवशाद्वैचित्र्यं कल्पयेत्स्वयम् ।
अलक्षता विचित्रत्वं यस्माद्यन्त्रेषु शस्यते ॥१४॥
अन्यत्स्यादन्तरात्प्रेर्यं द्वितीयं मध्यमं त्विदम् ।
द्वयत्रयादियोगेन चतुर्णामपि योगतः ॥१५॥
अंशांशिभावाद्भूतानां सङ्ख्यैषामतिरिच्यते ।
यः सम्यगेतज्जानाति स पुमान्भवति प्रियः ॥१६॥
प्रमदानां नृपाणां च प्रज्ञानां च मतस्य च ।
लाभं ख्यातिं च पूजां च यशो मानं धनानि च ॥१७॥
प्राप्नोति किं किं न पुमान् य इदं वेत्ति तत्त्वतः ।
गृहमेकं विलासानामाश्चर्यस्य परं पदम् ॥१८॥
रतेरावासभवनं विस्मयस्यैकमास्पदम् ।
यथावद्देवतादीनां रूपचेष्टादिदर्शनात् ॥१९॥
तास्तुष्यन्त्यथ तत्तुष्टिः पूर्वैर्धर्मः प्रकीर्तितः ।
नृपादितोषादर्थः स्यादर्थे कामः प्रतिष्ठितः ॥२०॥
वित्तैक्यादस्य निष्पत्तिर्मोक्षश्चास्मान्न दुर्लभः ।
पार्थिवं पार्थिवैर्बीजैः पार्थिवं जलजन्मभिः ॥२१॥
तदेव तेजोजनितैस्तदेव मरुदुद्भवैः ।
आप्यमाप्यैस्तथा बीजैरानलैरानिलैरपि ॥२२॥
वह्निजैश्च मरुज्जातैः पार्थिवैर्वारुणैरपि ।
मारुतं मारुतैराप्यैः पार्थिवैरानलैस्तथा ॥२३॥
वह्निजातेऽपि बीजं स्यात्सूतः सोऽपि च वानले ।
पार्थिवानां भवेद्बीजमाप्यानामपि वारणे ॥२४॥
इति बीजानि सर्वेषां कीर्तितान्यखिलान्यपि ।
कुड्यंकरणसूत्राणि भारगोलकपीडनम् ॥२५॥
लम्बनं लम्बकारे च चक्राणि विविधान्यपि ।
अयस्ताम्रं च तारं च त्रपु संवित्प्रमर्दने ॥२६॥
काष्ठं च चर्म वस्त्रं च स्वबीजेषु प्रयुज्यते ।
उर्दकः कर्तरो यष्टिश्चक्रं भ्रमरकस्तथा ॥२७॥
शृङ्गावली च नाराचः स्वबीजान्यौर्वरे विदुः ।
ताप उत्तेजनं स्तोभः क्षोभश्च जलसङ्गजः ॥२८॥
एवमाद्यग्निबीजानि पार्थिवस्य प्रचक्षते ।
धारा च जलभारश्च पयसो भ्रमणं तथा ॥२९॥
एवमादीनि भूजस्य जलजानि प्रचक्षते ।
यथोच्छ्रायो यथाधिक्यं यथा नीरन्ध्रतापि च ॥३०॥
अत्यन्तमूर्ध्वगामित्वं स्वबीजान्ययसस्तथा ।
मरुत्स्वभावजो गाढैर्ग्राहकैश्च प्रतीप्सितः ॥३१॥
दृत्याद्यैर्वीजनाद्यैश्च गजकर्णादिभिः कृतः ।
चाणितो गालितश्चायं बीजं भवति भूभवे ॥३२॥
काष्टंभृत्तिश्च लोहं च जलजे पार्थिवं भवेत् ।
अन्यदम्भस्तदप्यस्तु तिर्यगूर्ध्वमधस्तथा ॥३३॥
बीजं स्वकीयं भवति यन्त्रेषु जलजन्मसु ।
तापाद्यं पूर्वकथितं वह्निजं जलजे भवेत् ॥३४॥
सङ्गृहीतश्च दत्तश्च पूरितः प्रतिनोदितः ।
मरुद्बीजत्वमायाति यन्त्रेषु जलजन्मसु ॥३५॥
वह्निजातेषु मृत्ताम्रलोहरुक्मादि तद्ग्रहे ।
पार्थिवं कथयन्तीह बीजं बीजविचक्षणाः ॥३६॥
वह्नेर्वह्निर्भवेद्बीजमाप आपस्तथा भवेत् ।
आद्यैर्दृत्यादिभिः प्रोक्तैर्मरुद् गच्छति बीजताम् ॥३७॥
प्रत्येषकं च जनकं प्रेरकं ग्राहकं तथा ।
सङ्ग्राहकं च भूजातं बीजं स्यादनिलोद्भवैः ॥३८॥
प्रेरणं चाभिघाटश्च विवर्तो भ्रमणं तथा ।
जलजं मारुतोत्थेषु बीजं स्यादिति सम्मतम् ॥३९॥
सङ्गृहीतस्य तापाद्यैर्यानि पावकजन्मनि ।
प्रकीर्तितानि तान्येव भवन्ति पवनोद्भवैः ॥४०॥
प्रेरितः सङ्गृहीतश्च जनितश्च समीरणः ।
आत्मनो बीजतां गच्छत्येवमन्यत् प्रकल्पयेत् ॥४१॥
भूतमेकमिहोद्रि क्तमन्यद्धीनं ततोऽधिकम् ।
अन्यद्धीनतरं चान्यदेवंप्रायैर्विकल्पितैः ॥४२॥
नाना भेदा भवन्त्येषां कस्तान् कार्त्स्न्येन वक्ष्यति ।
निष्क्रिया भूः क्रिया त्वंशे शेषेषु सहजा त्रिषु ॥४३॥
अतः प्रायेण सा जन्या क्षितावेव जयत्नतः ।
साध्यस्य रूपवशतः सन्निवेशो यत्क्षे भवेत् ॥४४॥
यन्त्राणामाकृतिस्तेन निर्णेतुं नैव शक्यते ।
यथावद्बीजसंयोगः सौश्लिष्ट्यं श्लक्ष्णतापि च ॥४५॥
अलक्षाता निर्वहणं लघुत्वं शब्दहीनता ।
शब्दे साध्ये तदाधिक्यमशैथिल्यमगाढता ॥४६॥
वहनीषु समस्तासु सौश्लिष्ट्यं चास्खलद्गति ।
यथाभीष्टार्थकारित्वं लयतालानुगामिता ॥४७॥
इष्टकालेऽर्धदर्शित्वं पुनः सम्यक्त्वसंवृतिः ।
अनुल्बणत्वं ताद्रू प्यं दार्ढ्ये मसृणता तथा ॥४८॥
चिरकालसहत्वं च यन्त्रस्यैते गुणः स्मृताः ।
एकं बहूनि चलयेद्बहुभिश्चाल्यतेऽपरम् ॥४९॥
सुश्लिष्टत्वमलक्षत्वं यन्त्राणां परमो गुणः ।
अथ कर्माणि यन्त्राणां विचित्राणि यथाविधि ॥५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:24.5400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

थाटी

  • स्त्री. फांस . 
  • स्त्री. सैन्य . तिथे ताटी ओळघैला । नायक शिरोमणी । - शिशु १०३५ . २ टोळी ; जमाव ; मंडळी ; समुदाय . नागविल्या थाटी । उरो नेदीच लंगोटी । - तुगा १४८९ . [ प्रा . थट्ट ; म . थाट ] 
  • स्त्री. १ वाटीच्या आकाराचे धातूचे पात्र . २ ( कु . ) गंधाची तबकडी . ३ ( व . ) काश्याचे ताट ; परात . 
RANDOM WORD

Did you know?

पंचप्राणांना भोजनापूर्वी आहुती का द्यावी ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site