TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१ ते ५०

कीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः - १ ते ५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


कीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः - १ ते ५०
वर्णानां यानि दारूणि कीलकार्यं नियोजयेत् ।
इदानीं तानि वक्ष्यामि श्रेयःकीर्त्तिहिताय च ॥१॥
खदिरोदुम्बराश्वत्थशालशाकधवार्जुनाः ।
अञ्जनः कदराशोकतिनिशारुणचन्दनाः ॥२॥
शिरीषसर्जन्यग्रोधवेणवः कीलकर्मणि ।
पुन्नामानो द्रुमाः शस्ताः स्त्रीनामानो विगर्हिताः ॥३॥
अश्वत्थः खदिरश्चैतौ विप्राणां वृद्धिकारकौ ।
रक्तचन्दनवेणूत्थकीलौ क्षत्रस्य पूजितौ ॥४॥
शाकश्च खदिरश्चेति सामन्तानां हिताविमौ ।
कीलौ शालशिरीषोत्थौ वैश्यानां कीर्तितौ शुभौ ॥५॥
शूद्र जाटेस्तु तिनिशधवार्जुनसमुद्भवाः ।
वैश्यवेश्मसु सौभाग्यकार्ये च स्युरशोकजाः ॥६॥
न्यग्रोधो वणिजां धाम्नि भूमिकर्मण्युदुम्बरः ।
महामात्रश्ववैद्यानां कीलाः सर्जार्जुना गृहे ॥७॥
विप्राणां सर्ववर्णोत्थाः क्षत्रियाणां त्रिवर्णजाः ।
वर्णद्वयोक्ता वैश्यानां शूद्रा णां स्वानुलोमतः ॥८॥
प्रतिलोमा न कर्तव्याः कीलका भूतिमिच्छता ।
प्रमाणान्यथ कीलानां निगद्यन्ते पृथक्पृथक् ॥९॥
द्वात्रिंशदङ्गुलाः कीला विप्राणां स्युः शुभावहाः ।
क्षत्रियाणां पुनश्चाष्टाविंशत्यङ्गुलसम्मिताः ॥१०॥
चतुर्विंशत्यङ्गुलाश्च वैश्यानां शुभदायिनः ।
विंशत्याद्यङ्गुलैः कीलाः शूद्र जातेस्तु ते हिताः ॥११॥
षडङ्गुलपरीणाहाः सर्वेष्वेते शुभावहाः ।
ब्राह्मणक्षात्रियविशां वेदाष्टाश्रषडश्रयः ॥१२॥
षडश्रयस्तु शूद्र स्य प्रकृतेस्तु यदृच्छया  ।
दार्भमौञ्जौर्णकार्पासं विप्रादीनां यथाक्रमम् ॥१३॥
अर्धपर्वपरीणाहं दृढं सूत्रं तु वर्तितम् ।
अलाभे स्वस्य सूत्रस्य प्रोक्तादन्यतमं बुधः ॥१४॥
गृह्णीयात्सूत्रमन्ये तु गृह्णीयुः स्वेच्छयैव ते ।
इत्थं संभृत्य सम्भारान् गृहभर्ता शुभेऽहनि ॥१५॥
शुक्लपक्षे शुचिः स्नातः स्थपतिश्च सिताम्बरः ।
गृहस्थाननिमित्तात्तु देवस्थानानि लक्षयेत् ॥१६॥
कुसुमाक्षतमय्यश्च कर्तव्या गृहदेवताः ।
आदौ स्थानानि शङ्कूनां परीक्षेत समन्ततः ॥१७॥
तेषु सर्वेषु कर्तव्यमर्चनं तु यथाविधि ।
गृहस्य मध्ये सिक्त्वा तु निरूप्य ब्रह्मणः पदे ॥१८॥
गोमयेन समालिप्तां कुर्याद्वेदीं सुलक्षणाम् ।
चतुरश्रां चतुर्द्वारामक्षतैः सुप्रतिष्ठिताम् ॥१९॥
तस्या मध्ये प्रतिष्ठाप्यः कुम्भो हैमोऽथ राजतः ।
ताम्रको मृन्मयो वापि पूर्वालाभे परः परः ॥२०॥
अकालमूलः सोऽव्यङ्गो जलपूर्णः स्वलङ्कृतः ।
मणिरत्नप्रवालैश्च स्वर्णरूप्येण गर्भितः ॥२१॥
प्रतिष्ठाप्याक्षतैः पुष्पफलबीजसमन्वितः ।
श्वेतेन चन्दनेनैनं चर्चयित्वा समन्ततः ॥२२॥
तस्योपरिष्टाद् विन्यस्येत् क्षीरवृक्षस्य पल्लवम् ।
सुगन्धिनाथ धूपेन धूपयित्वा चतुर्दिशम् ॥२३॥
वेष्टयेदहतेनैनं शुक्लवस्त्रेण सर्वतः ।
वासुमध्ये यतो ब्रह्मा कुम्भरूपं स तिष्ठति ॥२४॥
कुम्भस्योत्तरभागे तु कीलकान् स्थापयेद्बुधः ।
कीलानष्टौ परीक्षेत स्थापयेच्च यथाविधि ॥२५॥
श्वेतचन्दनलिप्तांस्ताञ्श्वेतपुष्पैर्विभूषयेत् ।
सालक्तकान् सुरभिणा धूपेन च सुधूपितान् ॥२६॥
ऊर्णामयेन सूत्रेण त्रिवर्णेनाभिवेष्टयेत् ।
मधुसर्पिर्दधिक्षीरैर्मूलभागेषु लेपयेत् ॥२७॥
अर्चयेत्परशुं सूत्रमष्ठीलादीनि सर्वतः ।
अथोपकरणान्यत्र धूपपुष्पाक्षतादिभिः ॥२८॥
ततः पूर्वोत्तरे वास्तोर्भागे सप्तार्चिषः पदे ।
गोमयेन समालिप्ते कुशास्तरणमास्थितः ॥२९॥
अग्निकार्यं प्रकुर्वीत पुरोधाः शान्तिमेव च ।
सांवत्सरः शुचिः स्नातः कृतस्नानः समाहितः ॥३०॥
शङ्कुना साधयेल्लग्नं सम्यक् तद्घटिकाथवा ।
रात्रिलग्नं तु नक्षत्रैर्मध्यास्तोदयसंश्रितैः ॥३१॥
एवं संसाधयेल्लग्नं यदीच्छेत्सिद्धिमात्मनः ।
पूजया तुष्टिकारिण्या पूजयेच्च पुरोहितम् ॥३२॥
अभ्यर्चिते यतस्तस्मिन् ब्रह्मा भवति पूजितः ।
सांवत्सरस्य कर्तव्या ततः पूजा यथाविधि ॥३३॥
सांवत्सरेऽर्चिते यस्मात्पूजितः स्याद्बृहस्पतिः ।
स्थपतिं पूजयेत्पश्चात्त्वष्टॄतुष्टिचिकीर्षया ॥३४॥
तदधीनं यतः कर्म शुभं वा यदि वाशुभम् ।
श्वेतचन्दनदिग्धांस्ताञ्श्वेतपुष्पैश्च पूजितान् ॥३५॥
सदशैरहतैर्वस्त्रैरङ्गुलीयैः प्रपूजयेत् ।
परिकर्मकरा ये च तान् यथाशक्ति पूजयेत् ॥३६॥
हेम्ना वस्त्रादिदानैश्च वाग्भिर्वा परितोषयेत् ।
यथा सुमनसस्ते स्युस्तथा कर्तव्यमादरात् ॥३७॥
ततः स्थपतिराचम्य बलिकर्म समाचरेत् ।
सूत्रपाते बलिं धीमान् सार्वभौतिकमाचरेत् ॥३८॥
तस्यालाभे बलिः कार्यो यो भवेत्सोऽभिधीयते ।
विदधीत चरूञ्श्वेतरक्तपीतासितान्पृथक् ॥३९॥
पायसं कृसरं क्षीरं निष्पावाञ्श्वेतमोदनम् ।
पाविकादधिरूपांश्च पललोल्लापिकाघृतम् ॥४०॥
दध्योदनं च संमिश्रं देवताभ्यो निवेदयेत्
तिलैर्घृतेन सहितैर्देवमग्निं च पूजयेत् ॥४१॥
ततश्च पायसं दध्ना ब्रह्मस्थाने निवेदयेत् ।
ततश्चानुक्रमेणैव देवताभ्यो बलिं हरेत् ॥४२॥
बलिकर्म यथान्यायं कृत्वा च द्विजवाचनम् ।
स्वशाखीयाञ्शुचीन् प्राज्ञान् पूजयेद्दक्षिणाफलैः ॥४३॥
ओङ्कारस्वस्तिपुण्याहैर्गीतवादित्रनिस्वनैः ।
ततो विप्रैः सह स्वामी कुर्यात्तस्य प्रदक्षिणम् ॥४४॥
अक्षतान् प्रथमं कुम्भे दापयित्वा द्विजोत्तमैः ।
ततो दक्षिणपूर्वेण गत्वा पुण्याहवाचकैः ॥४५॥
अहताम्बरसंवीतः शुचिः स्थपतिरासने ।
निषद्य प्राङ्मुखः शङ्कुं धृत्वा दक्षिणपाणिना ॥४६॥
पश्चादादाय वामेन प्रतिष्ठाप्य च भूतले ।
मन्त्रानभूञ्जपन् वीरो हन्यात् परशुना ततः ॥४७॥
विशन्तु ते तलं नागा लोकपालास्तथैव च ।
प्रतिष्ठन्तु गृहं चास्मिन्नायुर्बलकरं भवेत् ॥४८॥
प्रहारान्सुस्थिरानष्टौ दद्यात्कीलस्य मूर्धनि ।
हन्यमाने ततः कीले निमित्तान्युपलक्षयेत् ॥४९॥
गोविप्ररथनागाढ्याः कन्या नृपवरस्त्रियः ।
शङ्खदुन्दुभिवंशानां तथा गीतस्य च ध्वनिः ॥५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:25.7570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

हलवान

  • न. कमी किंमतीच्या शालीचें एक फर्द ; अलवान पहा . 
  • न. एक पेल्यासारखें भांडें . 
  • n  A breadth of a low-priced shawl. 
RANDOM WORD

Did you know?

जानवे म्हणजे नेमके काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.