TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
५१ ते १०५

भुवनकोशः पञ्चमोऽध्यायः - ५१ ते १०५

समराङ्गणसूत्रधार हा भारतीय वास्तुशास्त्र सम्बन्धित ज्ञानकोशीय ग्रन्थ आहे, ज्याची रचना धार राज्याचे परमार राजा भोज (1000–1055 इ.स.) यांनी केली होती.


भुवनकोशः पञ्चमोऽध्यायः - ५१ ते १०५
उद्भिज्जाद्भिर्नदीभिश्च तैस्तैस्तुङ्गैश्च पादपैः ।
उदञ्चद्वीचिमालेन लावणेनाब्धिना बहिः ॥५१॥
प्रक्षितोऽयमुक्तस्ते जम्बूद्वीपो मयालिः ।
द्वादशाम्बुनिधावत्र पृथग्भूमिभृतः स्थिताः ॥५२॥
त्रयस्त्रयो दिशि दिशि स्फारोर्मिस्थगितोपलाः ।
मैनाकश्च बलाहश्च चक्रनामा च दक्षिणे ॥५३॥
नारदाख्यो वराहाख्यः सौमकाख्यश्च पश्चिमे ।
उदग्भागेऽपि च द्रो णकङ्कचन्द्रा इति त्रयः ॥५४॥
धूम्रको दुन्दुभिश्चैव सार्द्र कश्चेति पूर्वतः ।
सहस्रं योजनानां ते दीर्घास्तस्यार्धमुच्छ्रिताः ॥५५॥
मग्नास्तदर्धमम्भोधौ विस्तृताश्च धराधराः ।
जुष्टाः सर्वे सुरैः शृङ्गप्रौढिलीढविहायसः ॥५६॥
ज्वलितौषधयः कान्तविचित्रद्रुमवीरुधः ।
द्वीपाः शाककुशक्रौञ्चशाल्मल्य इति च क्रमात् ॥५७॥
गोमेदः पुष्कराख्यश्च षडमी बाह्यतः स्थिताः ।
क्षीराज्यदधिमद्येक्षुरसस्वाद्वम्भसोऽर्णवाः ॥५८॥
द्वीपान् शाकादिकानेते परिवार्य स्थिताः क्रमात् ।
स्वद्वीपतुल्याः सर्वे ते प्रमाणेन यथाक्रमम् ॥५९॥
अमी शाकादयो द्वीपा जम्बूद्वीपप्रमाणतः ।
यथाक्रमं स्युर्द्विगुणास्तथाम्भोनिधयोऽपिच ॥६०॥
शाके सप्ताद्र यस्तेषूदयो जलधरस्तथा ।
नारको रैवतः श्यामो राजतोऽथाम्बिकेयकः ॥६१॥
चतुःसाहस्त्रिकस्तेषां विष्कम्भोऽर्धं समुच्छ्रयः ।
तदर्धं भूप्रदेशश्च सेवितानां सुरर्षिभिः ॥६२॥
वृत्तानां द्वीपवत्तेषां बाह्यतोऽमून्यनुक्रमात् ।
वर्षाणि सन्निविष्टानि सप्त तानि ब्रवीमि ते ॥६३॥
जलदाख्यं कुमारं च सुकुमारं मणीचकम् ।
कुसुमोत्तरमोदाकीमहाद्रुमवनानि च ॥६४॥
कुशे विद्रुमहेमाख्यौ द्युतिमानथ पुष्पवान् ।
कुशेशयो हरिक्ष्माभृन्मन्दरश्च कुलाचलाः ॥६५॥
विष्कम्भोऽष्टसहस्राणि तेषां प्रत्येकमीरितः ।
तदर्धमुच्छ्रयस्तद्वदुच्छ्रयार्धमधोगमः ॥६६॥
उद्भिदं वेणुवत्संज्ञं सरालमथ लम्बनम् ।
वर्षं श्रीमत्प्रभाकृच्च कपिलं पन्नगाभिधम् ॥६७॥
क्रौञ्चे क्रौञ्चोऽन्धकारश्च देवो गोविन्दवामनौ ।
द्विविदः पुण्डरीकश्चेत्यस्मिन् सप्त कुलाद्र यः ॥६८॥
विष्कम्भोऽयुतमेतेषां विष्कम्भार्धं समुच्छ्रयः ।
अधोगतिस्तदर्धं च वर्षाण्येषां तु बाह्यतः ॥६९॥
कुसलाख्याष्टवर्षाख्ये परापतमनोनुगे ।
मुनिवर्षान्धकाराख्ये सप्तमं दुन्दुभीति च ॥७०॥
गिरयः शाल्मलिद्वीपे रक्तः पीतः सितस्तथा ।
वैपुल्यमेषां द्वात्रिंशत्सहस्राणि प्रचक्षते ॥७१॥
वैपुल्यार्धं समुच्छ्रायस्तदर्धमवनौ गतिः ।
वर्षे शान्तभयं वीतभयं चेत्यत्र संस्थिते ॥७२॥
गोमेदे तु सुरश्चेति कुमुदश्चेति भूधरौ ।
योजनानां चतुःषष्टिस्तौ सहस्राणि विस्तृतौ ॥७३॥
उच्छ्रायो विस्तरस्यार्धं तदर्धं चाप्यधोगतिः ।
धातकीखण्डनामास्य मध्ये वर्षमुदीरितम् ॥७४॥
अस्त्यद्रिः पुष्करद्वीपे मानसोत्तरसंज्ञितः ।
बाह्यतो वर्षमेतस्य महावीतमिति स्मृतम् ॥७५॥
विस्तृतोऽष्टौ सहस्राणि शैलोऽयं द्वे तथायुते ।
सहस्रशतमन्यच्च सुरसिद्धर्षिसेवितः ॥७६॥
व्यासार्धेनोच्छ्रयस्तस्य तदर्धेनाप्यधोगमः ।
सुरेशानां नगर्योऽस्मिन् मया वत्स निवेशिताः ॥७७॥
ऐन्द्री वस्वोकसारा प्राग् याम्या संयमनी ततः ।
प्राचेनसी सुखा पश्चात्तथा सौम्युत्तरे विभा ॥७८॥
धर्मरक्षार्थमेतासु चत्वारश्चतसृष्वपि ।
तथा लोकव्यवस्थार्थं पृथग्लोकभृतः स्थिताः ॥७९॥
लोकालोकाचलः स्वादुसलिलाद्द्विगुणो बहिः ।
स्वादूदाब्धिप्रमाणात्सविस्ताराद्द्विगुणोऽपि च ॥८०॥
समुच्छ्रितोऽसौ नियुतं नियुतार्धमधो गतः ।
पञ्च क्रोशाः प्रतिदिशं नियुतानि तथा नव ॥८१॥
तद्वच्च नियुतस्यार्धं मेरुमध्यात्तदन्तरम् ।
समुद्भासितदेहार्धस्तिग्मांशोः किरणैरयम् ॥८२॥
तत्समेन च भूम्यर्धेनावृतः परतः पुनः ।
भौतान्यावरणान्युर्व्या यस्यैतानि स्थितान्यधः ॥८३॥
बाह्यतोऽपि च भूम्यूर्ध्वं निविष्टानि तथानघ ।
इति वत्स तव प्रोक्तः सन्निवेशोऽखिलः क्षितेः ॥८४॥
स्थितिं गतिं च कथयाम्यर्कादीनामतःपरम् ।
सूर्येन्दुधिष्ण्यज्ञसितभौमार्कित्रिदशार्चिताः ॥८५॥
सप्तर्षयो ध्रुवश्चेति भूमेरूर्ध्वं क्रमात् स्थिताः ।
चत्वारि द्वे तथा भूमेरूर्ध्वमा सूर्यनन्दनात् ॥८६॥
षडेवमन्तराणि स्युः सहस्राणां शतं शतम् ।
ग्रहान्तराणि यान्यन्यान्यवशिष्टान्यनुक्रमात् ॥८७॥
तानि चत्वार्यपि द्वे द्वे लक्षे प्रोक्तानि मानतः ।
धरित्रीध्रुवयोर्मध्ये योजनानां चतुर्दश ॥८८॥
नियुतानि समुत्सेधस्त्रैलोक्यस्य प्रकीर्त्तितः ।
एकाथ द्वे चतस्रोऽष्टावन्तरं कोटयः क्रमात् ॥८९॥
महोजनस्तपःसत्यलोकानामुपरि ध्रुवात् ।
ये स्थिताः सत्यलोकोर्ध्वमधस्तादण्डकर्परात् ॥९०॥
एका कोटिर्भवेत्तेषां पञ्चाशन्नियुतान्विता ।
अथावरणयोगोऽस्य विहितः पद्मजन्मना ॥९१॥
यथैवाधस्तथा निर्यक्तथैवोर्ध्वमपि क्रमात् ।
वहेऽब्दाः प्रवहे सूर्यः स्थितः शीतांशुरुद्वहे ॥९२॥
संवहस्थानि नक्षत्राण्यावहस्थाः पुनर्ग्रहाः ।
सप्तर्षयः परिवहे ध्रुवश्चापि परावहे ॥९३॥
प्रदक्षिणममी सप्त मरुतो भ्रमयन्त्यमून् ।
मेघीभूतः स्थितो मध्ये सुमेरुक्ष्माभृति ध्रुवः ॥९४॥
समस्तमपि तद्बद्धं ज्योतिश्चक्रं भ्रमत्यदः ।
सप्ताश्वेनैकचक्रेण रथेन रथिनां वरः ॥९५॥
तेजोमयेन सततं भ्राम्यति ज्योतिषां पतिः ।
केतुमालेरजन्यर्धं करोत्यस्तं कुरुष्वपि ॥९६॥
मध्यन्दिनं च भद्रा श्वेस्तं गच्छन् भारते रविः ।
रसाब्धिपक्षसङ्ख्यानि योजनानि निमेषतः ॥९७॥
सप्तविंशतिकां चाष्टौ भागान्सर्पत्यहर्पतिः ।
योजनान्यध्विनन्दर्नु गुणसङ्ख्यानि काष्ठया ॥९८॥
नवांशकचतुष्कं च क्रामत्यहिमदीधितिः ।
वह्न्यग्निवसुखेन्द्र क्ष्मासङ्ख्यातान्यब्जिनीपतिः ॥९९॥
योजनस्य त्रिभागं च प्रयाति कलयैकया ।
वियत्खव्योमभूताश्विगुणपावकसङ्ख्यया ॥१००॥
योजनान्युष्णकिरणो मुहूर्तेन प्रसर्पति ।
रात्र्यहेण सहस्राणि पञ्चाशन्नवकोटयः ॥१०१॥
लक्षाणि सप्तनवतिर्गतिः स्यात् तिग्मरोचिषः ।
मध्येन पुष्करद्वीपस्यार्को गत्यानया व्रजन् ॥१०२॥
नभस्तलेन पुनरप्युदयादुदयं श्रयेत् ।
इत्थं गतिरियं सम्यक्तिग्मभानोर्निरूपिता ॥१०३॥
गतिं चन्द्र ग्रहर्क्षाणां भोगं चार्काद्विभावयेत् ।
प्रोक्तं तवेत्यहोरात्रप्रमाणमधुनानघ ।
पक्षमासर्तुवर्षादीन्व्यवहाराय कल्पयेत् ॥१०४॥
इति निगदित एष द्वीपशैलाम्बुधीना ।
मवनिवलयवर्त्ती कार्त्स्न्यतः सन्निवेशः ।
गतिरपि दिनभर्त्तुः कीर्त्तिता विश्वमानं ।
पुनरिह युगधर्मं कीर्त्त्यमानं निबोध ॥१०५॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे भुवनकोशाध्यायः पञ्चमः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:21.4130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अबोट

  • वि. ( प्रां . ) बोट न लावलेलें ; स्पर्श न केलेलें ; चव न घेतलेलें ; उपयोगांत न आणलेलें ; ( अन्न , पदार्थ , वगैरे ). 
  • अखंडित लेप ( रा . ) अनामिका ( बं . ) तें लागलेसें अबोट । चंदनाचें । - ज्ञा १५ . ३ . 
RANDOM WORD

Did you know?

श्रीयंत्रातील चक्र आणि त्रिकोण कशाचे प्रतिक आहेत?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site