TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१५१ ते २१०

मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः - १५१ ते २१०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः - १५१ ते २१०
जयो कुम्भः सपादांशः पादोनः स्यान्मसूरकः ।
अर्धेनान्तरपत्रं स्यात्कपोताली च तत्समा ॥१५१॥
माला विद्याधरी काया पुष्पहस्तैरलङ्कृता ।
पदद्वादशकोत्सेधः स्यात्तुलोदयः ॥१५२॥
अस्य मध्ये विधातव्यो वेदीबन्धस्त्रिभागिकः ।
पदाधं खुरकं कुर्याद्भागेनैकेन कुम्भकम् ॥१५३॥
मसूरकं पदार्धेन मेखला पदमानतः ।
षड्भागमुच्छ्रिता जङ्घा पुष्पके परिकीर्तिता ॥१५४॥
वरालग्रासमकरैः पुष्पविद्याधरैरपि ।
सूक्ष्मकर्णसमा कर्णा चास्य जङ्घा विधीयते ॥१५५॥
भागेनैकेन भरणं भागेनैकेन पट्टिका ।
मेखलान्तरपत्रं च भागेनैकेन चोच्छ्रितम् ॥१५६॥
ऊर्ध्वतस्तलपट्टस्य पट्टस्योर्ध्वस्य मस्तकम् ।
भागैकादशका तावद्विधेया कर्णचर्चिता ॥१५७॥
भागेन राजसेनं स्याद्द्विभागो वेदिकोच्छ्रिताः ।
भवेदासनपट्टश्च भागार्धेन समुन्नतः ॥१५८॥
चन्द्रा वलोकनं कुर्याद्भागिकं त्र्यंशलम्बितम् ।
आसनस्योर्ध्वतः कुर्यात्स्तम्भं पञ्चपदं शुभम् ॥१५९॥
हीरग्रहणकं शीर्षं द्वयं सार्धैकभागतः ।
गुलापट्टश्च भागेन मल्लकाद्यं द्विभागिकम् ॥१६०॥
भागेन लम्बितं तत्स्यात्सुसृष्टं सुमनोरमम् ।
एतस्योपरिभागेन कर्तव्या छेदपट्टिका ॥१६१॥
पदेनैकेन चास्योर्ध्वं कपोताल्यन्तरच्छदे ।
भागषट्केन विस्तीर्णे पञ्चभागसमुन्नतं ॥१६२॥
शूरसेनं प्रकुर्वीत मध्यवर्तालितोरणम् ।
वरालग्रासमकरैर्वराहगजसुण्डकैः ॥१६३॥
एवमादिभिराकीर्णमलिदस्योपरिस्थितम् ।
कोणं कुर्यात्पुष्पकूटं पुष्पकर्मनिरन्तरम् ॥१६४॥
चतस्रो भूमयोऽस्य स्युताश्च न्यूनाः पुरः पुरः ।
प्रथमा भूमिका --- स्यात्परा परा ॥१६५॥
आद्यस्य कोणकूटस्य विस्तारस्त्रिपदः स्मृतः ।
परेषां पुनरेषं स्यात्क्रमादूनोऽङ्घ्रिणाङ्घ्रिणा ॥१६६॥
बाह्यात्परस्परं क्षेपमंशेनांशेन योजयेत् ।
मध्ये लतास्य कर्तव्या भागषट्केन विस्तृता ॥१६७॥
स्कन्धे द्विपदविस्तारां विदध्यान्मध्यमञ्जरीम् ।
षड्गुणं सूत्रमादाय लतारेखां समालिखेत् ॥१६८॥
आलेखं च ततः कुर्यात्सुशुद्धं भागसुन्दरम् ।
भागेन वेदिकोत्सेधः षड्भागः स्कन्धविस्तरैः ॥१६९॥
भागेनैकेन च ग्रीवा द्वाभ्यां सामलसारकम् ।
विशालपद्मसदृशं विधेयं पद्मशीर्षकम् ॥१७०॥
चन्द्रि का पद्मपत्राभा द्वयमेतत्पदोच्छ्रितम् ।
त्र्यंशः स्यात्कलशोर्मृत्या जनकैरवकुड्मलः ॥१७१॥
एवंविधं विधत्ते यः पुष्पकं सुमनोरमम् ।
तुष्येत्तस्य धनाधीशः शुभैर्याति व्रजेच्च सः ॥१७२॥
पुष्पकः ।
ब्रूमो विजयभद्र स्य सुभद्र स्य च लक्षणम् ।
वल्लभः षण्मुखस्यायं बहुपुण्यविधायकः ॥१७३॥
चतुरश्रीकृते क्षेत्रे साष्टविंशतिभाजिते ।
कुर्यादष्टपदं कर्णभद्रं वास्य चतुष्पदम् ॥१७४॥
पदेनैकेन निर्यातं सर्वकोणेष्वयं विधिः ।
उदकान्तरकं कार्यं पदकॢप्तं पदायतम् ॥१७५॥
दशभागायतं भद्रं कार्यं त्रिपदनिर्गतम् ।
दिक्षु विधेयः स्यान्मुखतो मुखमण्डपः ॥१७६॥
त्रिपदा बाह्यतो भित्तिस्त्रिपदा चान्धकारिका ।
मध्ये प्रासादमानं तु कर्तव्यं षोडशांशकम् ॥१७७॥
कर्णा चतुष्पदा कन्दे भद्रा ण्येषां पदद्वयम् ।
निष्क्रान्तानि पदेन स्युः कन्दकर्णाश्रितानि हि ॥१७८॥
षट्पदं मध्यमङ्गं स्याद्द्विपदश्चास्य निर्गमः ।
कर्णशालान्तरं यत्स्यात् विधीयते ॥१७९॥
द्विपदा कन्दभित्तिः स्याद्गर्भो द्वादशभागिकः ।
ऊर्ध्वमानमिह प्रोक्तं द्विगुणं द्विकलाधिकम् ॥१८०॥
चतुर्विंशतिभागान्ते तुलोच्छ्रायस्य मध्यतः ।
ऊर्ध्वमानं तु यत्प्रोक्तं ग्रीवाण्डाद्यं ततो बहिः ॥१८१॥
कार्यं तुलोदयं स्यांच वेदीबन्धॐऽशसप्तकम् ।
त्रिभागं कुम्भकः सूत्रं सार्धभागो मसूरकः ॥१८२॥
भागेनान्तरपत्रं स्यात्सार्धभागेन मेखला ।
जङ्घा द्वादशभिर्भागैर्द्व्यंशा वा गलपट्टिका ॥१८३॥
अन्धारिका च भागार्धं सार्धभागा वरण्डिका ।
भागेनान्तरपत्रं स्याद्रू पकर्मसमाकुलम् ॥१८४॥
ऊर्ध्वाधःपट्टयोर्मध्ये भागो भागैकविंशतिः ।
अतो मध्याद्विधातव्यं द्विपदं राजसेनकम् ॥१८५॥
वेदी चतुष्पदा प्रोक्ता भागेनासनपट्टकः ।
पदद्वयेन सार्धेन कार्यं चन्द्रा वलोकनम् ॥१८६॥
नवभागोछ्रितः स्तम्भः पत्रकर्मसमाकुलः ।
भागेनैकेन भरणं शीर्षकं च द्विभागिकम् ॥१८७॥
उच्छालकमुभौ भागौ हारग्रहणमासिकम् ।
द्व्यंशा पट्टोच्छ्रितिर्भागचतुष्का बाह्यविस्तृतिः ॥१८८॥
द्व्यंशास्यालम्बनोर्ध्वे तु रूपकं चक पट्टिकाः ।
सा च भागत्रयेण स्यात्सुश्लिष्टा साधुचित्रिता ॥१८९॥
कर्णकर्णेषु शृङ्गाणां विस्तृतिर्द्विपदा भवेत् ।
ऊर्ध्वमानं त्रिभागं स्याद्ग्रीवाण्डकलशैः सहः ॥१९०॥
मध्ये चतुष्पदा कर्मादुरोमञ्जरिका भवेत् ।
उच्छ्रायः षट्पदस्तस्या ग्रीवाण्डं द्विपदोच्छ्रितम् ॥१९१॥
भागेन कलशोत्सेधः स्यादेवं कर्णनिर्मितः ।
कर्णा --- पिण्डिका कार्या भद्र देशे तथोच्छ्रितः ॥१९२॥
कर्तव्यः सप्तभिर्भागैः सिंहकर्णः सुचर्चितः ।
कर्णद्वये तथा शृङ्गे तयोरूर्ध्वं चतुर्दिशम् ॥१९३॥
उरोमञ्जरिकायामादुदया दश पञ्च च ।
तस्याश्चाष्टपदः कन्दो ग्रीवा भागसमुन्नता ॥१९४॥
द्विभागमण्डकं कार्यं चन्द्रि का पदमुच्छ्रिता ।
त्रिपदाः कलशास्तेषां मध्यगान्तरमञ्जरी ॥१९५॥
तला पञ्चकसंयुक्ता चरटक्रिययान्विता ।
भागविंशतिविस्तीर्णा कर्तव्या मूलमञ्जरी ॥१९६॥
द्वाविंशतिसमुत्सेधा स्कन्धो द्वादशभागिकः ।
मध्या लता सू रसेनकर्मरूपसमाकुला ॥१९७॥
ग्रीवा सार्धपदोत्सेधा कार्या द्विपदमण्डकम् ।
भागेन चण्डिकां कुर्यात्कलशं तु चतुष्पदम् ॥१९८॥
एकोनत्रिंशदण्डोऽयं प्रासादः शुभलक्षणः ।
षट्पदं पीठमाख्यातं चरितं पूर्वकर्मवत् ॥१९९॥
आरोग्यं पुत्रलाभश्च भवेद्विजयकारिणाम् ।
तेषां तुष्यति षड्वक्रो भक्त्या ये विदधत्यमुम् ॥२००॥
विजयभद्रः ।
अधुना श्रीनिवासाख्यः प्रासादः सम्यगुच्यते ।
तृप्त्यर्थमेव क्रियते जयश्रीस्तत्र तिष्ठति ॥२०१॥
चतुरश्रीकृते क्षेत्रे भक्तेऽष्टादशभिः पदैः ।
अन्धारिका च भित्तेश्च पदे द्वे द्वे यथाक्रमम् ॥२०२॥
गर्भश्च षट्पदः कार्यः श्रीनिवासस्य सुन्दरः ।
कन्दे स्युर्द्विपदाः कर्णा भागेन सलिलान्तरम् ॥२०३॥
भद्रं चतुष्पदं कार्यं पदेनैकेन निर्गतम् ।
बाह्याः स्युस्त्रिपदाः कर्णा भद्रै श्च द्विपदैर्युताः ॥२०४॥
भद्रं चतुर्थकर्णेषु पदेनैकेन निर्गतम् ।
कोणकोणाश्च कर्तव्याः पदस्यार्धं समायताः ॥२०५॥
पदेनाम्बुधरः कार्यः प्रवेशाद्विस्तृतेरपि ।
विस्तारात् षट्पदं भद्रं पदद्वितयनिर्गमम् ॥२०६॥
नीरस्यालान्तरे कार्या तिलका द्व्यंशविस्तृताः ।
पदेनैकेन निष्क्रान्ताः शोभिताश्चारुकर्मणा ॥२०७॥
ऊर्ध्वमानमथ ब्रूमः श्रीनिवासे यथाक्रमम् ।
खुरकस्योच्छ्रितिः पीठे पादोनं पदमिष्यते ॥२०८॥
कुर्यात्सपादोनांशेन जाड्यकुम्भ समुच्छ्रितम् ।
भागेनान्तरपत्रे तु भागेनैकेन मेखलाम् ॥२०९॥
पीठोत्सेधश्चतुर्भागः श्रीनिवासे भवेदिति ।
वेदीबन्धस्य खुरको भागार्धेन समुन्नतः ॥२१०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-20T02:55:32.4930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ground level

  • आधारबुनियादी स्तर 
  • भूमिजल 
  • स्त्री. भूपातळी 
  • भूपृष्ठ पातळी 
RANDOM WORD

Did you know?

मंगळवारी येणार्‍या संकष्टी चतुर्थीस ‘ अंगारकी चतुर्थी ’ असे कां म्हणतात ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.