TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः

शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः
इदानीमभिधास्यामो विधानं शान्तिकर्मणः ।
यथावदिष्ट्वा दिक्पालान् हुत्वा शान्तीर्यथाक्रमम् ॥१॥
स्नपयेत्कर्णिकां कुम्भैः सहिरण्यैर्विचक्षणः ।
सर्वगन्धानुलिप्तां च माल्यदामविभूषिताम् ॥२॥
कृतमाल्यानिवसितां मूले च मधुलेपिताम् ।
दोषप्रशमनार्थाय तां मूलेषु निखातयेत् ॥३॥
मधुकुम्भमरिष्टं च शेवालं च विधानवित् ।
वाचयित्वा तु विप्रेन्द्रा न् कृतपुण्याहमङ्गलान् ॥४॥
स्थापयेत् कर्णिकाः सर्वाः स्थपतिः प्रयतः शुचिः ।
एतेन विधिना कर्म चातुर्वर्ण्यस्य कारयेत् ॥५॥
कर्णिका रोपिता यत्र पुनरुत्पाट्य रोप्यते ।
न तन्निष्पद्यते वेश्म स्वामी चात्र विनश्यति ॥६॥
निखातं तु यदा दारु च्छिद्यते ताड्यते पुनः ।
तन्नाशो धनधान्यस्य स्वामिनश्चात्र सर्वथा ॥७॥
वल्लीनिपीडितं दारु प्रवेशे चेन्निखन्यते ।
आशीविषभयं घोरं तस्मिन्नुत्पातलक्षणम् ॥८॥
उत्थाने कर्णिका रक्ष्या सर्वसत्त्वाभिधर्षणात् ।
नवे कर्मण्यशकुना मृगव्यालसरीसृपाः ॥९॥
कर्णिकामधिरोहन्ति दोषांस्तत्र वदेदमून् ।
कृतापीडां परिहृतां यद्यारोहन्ति वायसाः ॥१०॥
गृहिणस्तत्प्रवासः स्यादन्नं पानं च हीयते ।
मयूरे तद्गृहं राजा हरेत्पञ्चाब्दतः परम् ॥११॥
वराङ्गे जायते व्याधिः कोकिलैर्द्व्यब्दतः परम् ।
काकोलैस्त्रीणि वर्षाणि जायते सुमहद्भयम् ॥१२॥
शुके स्युः कलहाद्यानि न च निष्पद्यते गृहम् ।
कुक्कुटेऽग्निभयं विद्याद्रा जतो वा महद्भयम् ॥१३॥
सारिकायां तु दौःशील्यं स्त्रीणां गृहपतेस्तथा ।
सर्परूपेत विघ्नेन गृहं निष्ठां न गच्छति ॥१४॥
स्त्रीपुंसयोः कुलिङ्गे तु जायते पापकारिता ।
पारावते तु जायेते स्त्रीपुंसौ गुरुतल्पगौ ॥१५॥
विडाले तु कुलं दासैः सह रोगैर्निपीड्यते ।
ज्वलनो वा जलं वापि हस्ती वा हन्ति तद्गृहम् ॥१६॥
आरण्यैः शकुनैरेतत्स्याद्वर्षाद्धर्षणे फलम् ।
यूनां च जायते मृत्युर्मध्वासङ्गे धनक्षयः ॥१७॥
दुःखप्नदर्शनं घूके बालानां मरणं तथा ।
त्रस्तभीते निलीने तु राजा शून्यं हरेद्गृहम् ॥१८॥
यदा त्वग्रे प्रदृश्येत धूम्रः कर्णगतोऽपि वा ।
अग्निर्दहति तत्क्षिप्रं विद्युद्वा हन्ति मन्दिरम् ॥१९॥
यत्रारोहति गृध्रस्तद्द्विजाङ्घ्रिस्पृष्टमाचरेत् ।
कृत्वा हलशतैः कृष्टं ततो बीजानि वापयेत् ॥२०॥
गावश्चात्र प्रदुह्येरञ्शान्तिकानि च कारयेत् ।
मेघेऽभिवृष्टे भूयोऽपि तत्र कुर्वीत् मन्दिरम् ॥२१॥
येषु येषु गृहाङ्गेषु मधुनः सञ्चयो भवेत् ।
तस्याङ्गस्य वधं ब्रूयात्प्रेषिण्यां चाप्युपद्र वम् ॥२२॥
तस्माद्धेतोः शिखाग्रेषु मुकुटान् प्रणिधापयेत् ।
यावन्न रोपयेत्सौम्यं तावद्र क्षेत्समन्ततः ॥२३॥
अभिलीनं तु शकुनैर्नहि किञ्चित्प्रशस्यते ।
तस्मात्प्रयत्नतो रक्षेदुत्पातात्प्रागुदीरितात् ॥२४॥
भङ्गे गृहाणां दारूणां शान्तिहोमोऽथ कथ्यते ।
इन्द्र कीलो महाकूटः पृष्ठवंशोत्तरौ धरौ ॥२५॥
प्रग्रहोऽलिन्दपादौ वा स्वामिनं घ्नन्त्युपद्र वाः ।
तुलास्थपत्यः कूटं वा वेदिका कर्णपालिका ॥२६॥
नेत्रं कपोतपालिश्च हनप्रविष्टं कुटुम्बिनी ।
अम्वग्राः पक्षिवंशाश्च मल्लकाः सकुमारकाः ॥२७॥
गोपानस्यो मृगाल्यश्च स्थपिताः स्वकुमारिकाः ।
परिघा द्वारपक्षाश्च भ्रातरं घ्नन्त्युपद्र वाः ॥२८॥
संयुक्तं सङ्ग्रहो हन्ति निकृष्टांश्चाधरो धरः ।
स्थौण्यानि प्रतिमोको वा हन्युरिष्टान् परिच्छदान् ॥२९॥
उदधिर्भगिनीं हन्यादथवा परिचारकान् ।
पुंसां पुन्नामभिर्द्र व्यैः स्त्रीणां स्त्रीनभिर्भवेत् ॥३०॥
उपघातो हतैर्नित्यं द्र व्याणां तु नपुंसकैः ।
भूलिका स्त्रीविनाशाय गृहनाशाय वेधनम् ॥३१॥
कीला वा सन्धिपालिर्वा मित्रनाशाय दुष्यति
नवे गृहे नवं दारु क्रियमाणमथो कृतम् ॥३२॥
आयोज्यमानं युक्तं वा न्यूनसंवत्सरं स्थितम् ।
भज्यते देहनाशाय स्फुटत्यथ विभज्यते ॥३३॥
गृहं ब्राह्मणसात्कृत्वा रत्नैरालिख्य चापरम् ।
नवैर्वस्त्रैः परिच्छाद्य पुनर्भिद्यानि कारयेत् ॥३४॥
दग्धे भिन्ने प्रचलिते विनते विद्युता हते ।
विरूढे दलिते सन्ने सर्वत्रौषधिभिः स्मृताः ॥३५॥
शान्तयो विविधं हुत्वा ब्राह्मणान्स्वस्ति वाच्य वा ।
स्थूणिका भज्यते यस्य कीर्त्तिस्तस्योपहन्यते ॥३६॥
चन्द्र सूर्यौ यजेत्तत्र ततः शाम्यति पातकम् ।
तद्विधं वृक्षमानीय पुनस्तां प्रति कारयेत् ॥३७॥
एवं कृते सुखी स स्यात्कीर्त्तिश्चायुर्ध्रुवा भवेत् ।
मल्लको भज्यते यस्य पौरुषं तस्य हन्यते ॥३८॥
इष्टानभसनक्षत्रं प्रायश्चित्तं समाचरेत् ।
तद्विधं वृक्षामानीय प्रति कुर्वीत मल्लकम् ॥३९॥
एवं कृत्वा सुखी स स्याद्बलं चास्याभिवर्धते ।
पृष्ठवंशस्य भङ्गेन गृही बन्धमवाप्नुयात् ॥४०॥
राजराजं यजेत्तत्र प्रायश्चित्तं तथाचरेत् ।
सुखी भवति तत्कृत्वा सर्वतश्चाभिवर्धते ॥४१॥
सर्वेषु स्वस्ति वाच्याश्च ब्राह्मणा दक्षिणाक्षतैः ।
वारणो भज्यते यस्तु ज्येष्ठं पुत्रं स वाज्यते ॥४२॥
पृथ्वीधरं यजेत्तत्र प्रायश्चित्तं तथाचरेत् ।
तद्विधं वृक्षमानीय पुनस्तं प्रति कारयेत् ॥४३॥
सुखी भवति कृत्वैवं पुत्रैश्चापि विवर्धते ।
संग्रहो भज्यते यस्तु कुलज्येष्ठं स वार्धते ॥४४॥
पितॄन्देवान्यजेत्तत्र प्रायश्चित्तं तथाचरेत् ।
सुखी भवति कृत्वैवं प्रीयन्ते पितरस्तथा ॥४५॥
स्थूण्यं तु भज्यते यस्य तनयस्तस्य बाध्यते ।
देवानेव यजेत्तत्र प्रायश्चित्तं तथाचरेत् ॥४६॥
तद्विधं वृक्षमानीय तत्स्थौण्यं प्रति कारयेत् ।
सुखी भवति कृत्वैवं पुत्रैश्चापि विवर्धने ॥४७॥
उपधी व्यथते यत्र तत्रामात्यो विनश्यति ।
यजेत वासवं तत्र प्रायश्चित्तं तथाचरेत् ॥४८॥
आनीय तद्विधं वृक्षमुपधिं प्रति कारयेत् ।
एवं कृते भवेत्सौख्यममात्यैश्च विवर्धते ॥४९॥
कायस्तु व्यथते यस्य प्रेष्यस्तस्योपहन्यते ।
यक्षं तत्र यजेद्देवं प्रायश्चित्तं तथाचरेत् ॥५०॥
तद्विधं काष्ठमानीय कायं तं प्रति कारयेत् ।
एवं कृते सुखी स स्यात्प्रेष्यैरपि विवर्धते ॥५१॥
तुला तु व्यथते यस्य व्यथतेऽस्य कुटुम्बिनी ।
यजेत मेदिनीं तत्र प्रायश्चित्तं तथाचरेत् ॥५२॥
तद्विधं वृक्षमानीय स्थापयेत् तां स्वलङ्कृताम् ।
ततस्त्वन्याः क्रियाः पश्यन् कारयेन्मतिमान्नरः ॥५३॥
वधूमिव नवैर्वस्त्रैः प्रतिच्छाद्य स्वलङ्कृताम् ।
ब्राह्मणान्वाचयेत्स्वस्ति ततस्तां प्रति कारयेत् ॥५४॥
सुखी भवति कृत्वैवं धनैर्नित्यं विवर्धते ।
कर्णिकास्वान्तरस्थूणामालापादोऽथ भज्यते ॥५५॥
तद्गृही दुःखमाप्नोति तस्मिन्नुत्पातलक्षणे ।
आनीय स्थपतिं तत्र प्रज्ञावन्तं बहुश्रुतम् ॥५६॥
तत्र वास्तुविभागेन यो देवः स्याद्विनिश्चितः ।
तस्मै देवाय जुहुयात्प्रायश्चित्तं च कारयेत् ॥५७॥
सुखी भवति कृत्वैवं सर्वतश्चाभिवर्धते ।
युगं तु व्यथते यत्र तत्र स्यात्पशुपीडनम् ॥५८॥
यजेत तस्मिन्नीशानं प्रायश्चित्तं च कारयेत् ।
तद्विधं वृक्षमानीय युगं तत्प्रति कारयेत् ॥५९॥
एवं कृते सुखं तस्य पशुवृद्धिश्च जायते ।
तुलयो अगयोर्वापि पादो यस्य प्रभज्यते ॥६०॥
आयुर्हानिर्भवेत्तत्र बलदेवं प्रपूजयेत् ।
प्रायश्चित्तं ततः कृत्वा पुनस्तं प्रति कारयेत् ॥६१॥
सुखी भवति कृत्वैवं कुटुम्बी शान्तिकं च तत् ।
द्वाराङ्गं यस्य माहेन्द्रं हिंस्यते नवकर्मणि ॥६२॥
इन्द्रं तत्र यजेद्देवं प्रायश्चित्तं तथाचरेत् ।
गृहक्षतस्य द्वाराङ्गे पूजयेद्यममेव तत् ॥६३॥
पुष्पदन्तस्य द्वाराङ्गे वरुणं तत्र पूजयेत् ।
द्वाराङ्गं यस्य भल्लाटं हिंस्यते नवकर्मणि ॥६४॥
सोमं तत्र यजेद्देवं प्रायश्चित्तं समाचरेत् ।
सुखी भवति कृत्वैवं कुटुम्बी शान्तिकं च तत् ॥६५॥
स्थूणाराजस्य यस्याग्रं वक्रं दक्षिणतो भवेत् ।
शरीरं व्यथते तत्र प्रतिसंवत्सरं स्थिरम् ॥६६॥
पृष्ठतो दीर्घशोकः स्यादुत्तरेण धनक्षयः ।
पूर्वतो राजदण्डः स्यात्तस्मात्तद् ऋजु शस्यते ॥६७॥
चत्वार्यङ्ग हिंस्यन्ते शरीरा ये च वेश्मनः ।
तुला वा पृष्ठवंशो वा धारण्यां चोत्तराम्बरः ॥६८॥
उक्तांस्तत्र बलीन्कुर्यात्प्रायश्चित्तं तथाचरेत् ।
एवं धन्यं शिवं पुष्टिप्रजावृद्धिकरं भवेत् ॥६९॥
इत्थं निमित्तानि गृहाश्रितानि ।
ज्ञात्वा प्रदृष्टाञ्शकुनांश्च सर्वान् ।
शान्तिं प्रकुर्वन्पृथगुक्तरूपां ।
प्राप्नोति कीर्त्तिं सुखमर्थमायुः ॥७०॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-19T20:26:48.0800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

monocyte leukaemia

  • मोनिता श्वेताकर्क 
RANDOM WORD

Did you know?

मकर संक्रांति हिंदू सण असूनही १४ जानेवारीला का साजरा करतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site