TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१ ते ५०

प्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः - १ ते ५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


प्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः - १ ते ५०
इदानीमभिधास्यामः प्रासादानां यथाक्रमम् ।
द्र व्येषूदयविस्तारं बाहल्यं परिधिं तथा ॥१॥
प्रासादभागिकोत्सेधं प्रासादद्वारमिष्यते ।
सत्र्यं शोच्छ्रितं वापि सार्धांशोच्छ्रयमेव वा ॥२॥
स्वीयस्वीयोदयादर्धविस्तारं च तदिष्यते ।
विस्तृतिर्भागतुर्यांशात् पेद्यायाः स्थौल्यमर्धतः ॥३॥
पेद्याबाहल्यविस्तीर्णा शाखा भवति मानतः ।
उत्तराङ्गानि कुर्वीत पेद्याशाखासमानि तु ॥४॥
सपादपेद्याविस्तारा रूपशाखा विधीयते ।
रूपशाखान्वितः कार्यः पीठबन्धस्तथोपरि ॥५॥
वृत्तं कार्यमधोवृत्ते पत्रकैश्च निरन्तरम् ।
स्तम्भाच्च द्विगुणव्यासं भरणं भूषणान्वितम् ॥६॥
रूपशाखासमं तच्च कर्तव्यमतिसुन्दरम् ।
ऊर्ध्वे समन्ताच्चाष्टांशमात्रे तच्चतुरश्रकम् ॥७॥
तदूर्ध्वं भरणोच्छ्रायः स्यात्पादोनसमुच्छ्रितिः ।
कपोतश्चाप्यधश्शीर्षगर्भः स च विधीयते ॥८॥
सरथालयपत्रो वा स्वोदयार्धविनिर्गमः ।
तस्योपरिष्टात्कर्तव्यं स्यादुच्छालयपत्रकम् ॥९॥
रथिका विधातव्या द्वयोरप्युच्छ्रितिस्तयोः ।
सार्धप्रमाणभरणाद्भूषा स्यात्पुष्पकादिभिः ॥१०॥
रूपकैर्वा यथाशोभं स्तभिकाभिश्च सर्वतः ।
कण्टकोयत्रिभागोन कूटाकारं भवेदतः ॥११॥
विभूषितं सिंहचक्रैर्हस्तितुण्डैरथापि वा ।
कपोतादि विधातव्यमन्तरे रूपशाखयोः ॥१२॥
कार्यं विषमसंख्यं च सर्वमेतद्विचक्षणैः ।
तस्माद्बहिर्विधातव्या सर्वतः परिमण्डली ॥१३॥
अन्त्यशाखासमा सा च प्रमाणेन विधीयते ।
तस्यां सअद्वारशाखायां यशः पद्मपत्रिकाः ॥१४॥
कार्यात्रा वाचशाखायास्तद्विस्तारसमुच्छ्रिताः ।
भवेदधस्तादर्धेन ग्रीवाया रसना तथा ॥१५॥
ग्रीवया सार्धया तुल्यमन्तरं पत्रकाण्यधः ।
भागद्वयं प्रकुर्वीत जङ्घा त्र्यंशा ततोऽप्यधः ॥१६॥
पेद्यापिण्डप्रमाणेन खल्वशाखा विधीयते ।
पेद्यापिण्डसमो बाह्यशाखान्यासः प्रकीर्तितः ॥१७॥
क्रमेणानेन कर्तव्याः शाखाः स्वल्पा यदृच्छया ।
न नवभ्यः परं कार्या द्वारशाखाः कथञ्चन ॥१८॥
निर्गमो वा प्रवेशो वा विस्तारेण समन्वितः ।
पेद्याया यदि वार्धेन शाखानां स विधीयते ॥१९॥
सार्धपेद्यापिण्डसमः पिण्डस्योदुम्बरो भवेत् ।
तलन्यासस्तदर्धेन भूमिरङ्गा च तत्समाः ॥२०॥
उदुम्बरकपिण्डस्य मानात्सिंहमुखानि च ।
उदुम्बरात्पादहीनस्तुल्यो वाभ्यधिकोऽथवा ॥२१॥
पट्टस्य पिण्डस्त्रिविधो विस्तारात्स्तम्भतोऽधिकः ।
भागपादसमस्तम्भो द्वादशांशं प्रपीडितः ॥२२॥
भागद्वये च कर्तव्यो रूपलक्षणसंयुतः ।
चतुष्षष्टिप्रकारोऽयं नानारूपप्रपञ्चतः ॥२३॥
स्तम्भविस्तारविस्तीर्णं पिण्डे तत्पादवर्जितम् ।
विस्तारात्त्रिगुणं दैर्घ्याद्धीरग्रहणमिष्यते ॥२४॥
प्रविष्टौ स्तम्भमाने स्तः कुम्भिकोत्कालकौ सदा ।
तलपट्टसमं पट्टमुत्तरं परिकल्पयेत् ॥२५॥
तीरं तस्य त्रिभागेन समुत्सेधाद्विधीयते ।
किञ्चिद्विनिर्गतं पट्टाद्यथाशोभं प्रकल्पयेत् ॥२६॥
अत ऊर्ध्वं यथाशोभं कण्ठकेनासनेन च ।
रथकैश्चित्ररूपैश्च कूटागारैः सतोरणैः ॥२७॥
अलिन्दे मण्डपे वापि चतुष्के वलभीषु वा ।
वितानानि विचित्राणि समुत्क्षिप्ततलानि च ॥२८॥
लक्षणेन च युक्तानि विदधीत यथोचितम् ।
लुमाः फलकवर्तीभिः कृताः समभिदध्महे ॥२९॥
उत्क्षिप्तानां च ये भेदा जायन्ते सर्ववास्तुषु ।
तुम्बिनी लम्बिनी हेला शान्ता कोला मनोरमा ॥३०॥
आध्माता चेति सप्तैता नामतः कथिता लुमाः ।
चतुरश्रीकृते क्षेत्रे कान्ते भूमितले शुभे ॥३१॥
सूत्रं क्षेत्रसमं कृत्वा कर्णात्कर्णं विभाजयेत् ।
विन्यस्येद्गर्भसूत्राणि तयोर्मध्यगतानि च ॥३२॥
भूयश्चान्यानि मध्येषु सूत्राणि विनिवेशयेत् ।
मध्ये वृत्तं समालिख्य तुम्बिका कमलोपमा ॥३३॥
कार्या भागीकृतं तत्र वृत्तं क्षेत्रे प्रवर्तयेत् ।
सूत्रे सूत्रे तु पिण्डस्थां लुमां सूत्रेण वालिखेत् ॥३४॥
लुमान्तरेषु सर्वेषु वैकट्येन घुषीकृतम् ।
तयोरन्तरयोर्मध्ये लुमामूले विकर्करम् ॥३५॥
द्विगुणं त्रिगुणं वा स्यात्ततश्च वलिनीं लिखेत् ।
व्यासार्धेनोदयश्चेह कर्तव्यस्तत्र मण्डले ॥३६॥
सम्पातात्तलसूत्राणां तुम्बिका च्चोर्ध्वसूत्रिता ।
उदयस्तलसूत्रस्य तुम्बिकायास्तथान्तरम् ॥३७॥
पूर्वसूत्रे लुमाग्रेषु कण्टकान् कल्पयेद् ऋजून् ।
बहिस्थानेषु चान्तेषु लक्षं कुर्यात्सुनिश्चितम् ॥३८॥
लक्षं गृहीत्वाधःसूत्र ऊर्ध्वसूत्राणि लक्षयेत् ।
उदये कण्टकस्यान्ते तद्वदेवानुसन्ततम् ॥३९॥
दापयेदुत्तरं सूत्रं लुमानां खल्वकानि च ।
पिण्डव्यासं वलीनां चाप्येषु क्षोभणविस्तृती ॥४०॥
लुमा कर्णगता या स्यादाध्माता सा प्रकीर्तिता ।
छेदे प्रवर्तितान्या स्यात्किञ्चिदूना मनोरमा ॥४१॥
कोला तृतीया शान्तेति चतुर्थी परिकीर्तिता ।
हेलाख्या पञ्चमी षष्ठी लम्बिनी नामतो लुमा ॥४२॥
सप्तमी तुम्बिनीत्येता मागसूत्रविनिर्गताः ।
एताभिः कारयेत्कोलं वितानं नयनोत्सवम् ॥४३॥
कोलाविलं हस्तितालु चाष्टपत्रं शरावकम् ।
नागवीथीवितानं च पुष्पकं भ्रमरावली ॥४४॥
हंसपक्षं करालं च विकटं शङ्खकुट्टिमम् ।
शङ्खनाभिः सपुष्पं च शुक्तिवृत्तकमेव च ॥४५॥
मन्दारं कुमुदं पद्मं विकासं गरुडप्रभम् ।
पुरोहतं पुरारोहं विद्युन्मन्दारकं तथा ॥४६॥
एतान्येवं वितानानि सङ्ख्यया पञ्चविंशतिः ।
एतेषां रूपनिर्माणमधुना संप्रचक्ष्महे ॥४७॥
समन्ताच्चतुरश्रे च चतुरश्रायतेऽथवा ।
क्षेत्रे वृत्तीकृते नाभ्यैकया तत्कोलमुच्यते ॥४८॥
चतुरश्रे यदा क्षेत्रे कर्णस्थानेषु कृत्स्नशः ।
चतुरश्रनिबन्धेन चतुरश्रनिबन्धने ॥४९॥
वलिनी विकटाकारा पूर्वं वृत्तान्यधस्तथा ।
भ्रमवृत्तं च यन्मध्ये परं तत्रापरा लुमाः ॥५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:27.4300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मरणकळा

  • f  The liver, wanness of death. 
RANDOM WORD

Did you know?

जननशांतीचे महत्व स्पष्ट करा ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.