TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
५१ ते १००

मेर्वादिषोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः - ५१ ते १००

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


मेर्वादिषोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः - ५१ ते १००
षड्भमिरेष भूमिः स्यादेकैका द्वादशांशका ।
रेखास्कन्धाण्डकादीनां कैलासे समाकृतिः ॥५१॥
नन्दनो नन्दयत्येष समृद्धा हन्ति चापदः ।
नन्दनः ।
चतुरश्रीकृते क्षेत्रे पञ्चविंशति हस्तके ॥५२॥
सूत्रपातं ततः कुर्यात्कर्मायतमुखायतम् ।
ततः सीमार्धसूत्रेण सम्यग्वृत्तं समालिखेत् ॥५३॥
ततस्तदष्टाविंशत्या भजेद्भागैर्यथापदम् ।
निर्मापये शालार्धेन दिक्सूत्रसंश्रिताः ॥५४॥
तासां तु मध्यगाः कार्या एकैकस्य रथास्त्रयः ।
अन्ये चार्धरथाः कार्याः शालाकर्णसमाश्रिताः ॥५५॥
भागषट्कोच्छ्रिता जङ्घा भागार्धेन तु मेखलाः ।
भागेनान्तरपत्रं स्याद्भागं चोद्वृत्तमण्डकम् ॥५६॥
अर्धभागोच्छ्रिता जीवा विष्कम्भेन चतुष्पदाम् ।
शिखरस्योच्छ्रयो भागैरेकादशभिरिष्यते ॥५७॥
सर्वेषामेव लतिना मात्रिधा द्विगुणो हि सः ।
विस्ताराद्द्विगुणं सूत्रं स्कन्धाद्यं चापि षड्गुणम् ॥५८॥
सुत्तानितं समाकृष्य पद्मकोशं समालिखेत् ।
स पञ्चविंशतिर्हस्ता ज्येष्ठः षोडश मध्यमः ॥५९॥
कनीयान् द्वादशकरच्छस्यो विजानता ।
ज्येष्ठस्य भागसंख्येयमेतदर्धेन मध्यमः ॥६०॥
मध्यमस्य तथार्धेन कनीयान् भागसंख्यया ।
भागषट्कमिता जङ्घा ज्येष्ठस्य परिकीर्तिता ॥६१॥
सप्तभागोच्छ्रिता सा स्यान्मध्यमे सकनीयसि ।
सर्वेषां लतिनामेष क्षेत्रेण विधिरीरितः ॥६२॥
स्वस्तिकोऽयं समाख्यातः स्वस्तिश्रेयस्करो नृणाम् ।
स्वस्तिकः ।
इदानीं मुक्ताकोणस्य सूक्ष्म ब्रूमः स तु त्रिधा ॥६३॥
षोडश द्वादशाष्टौ च हस्तसंख्या परस्य च ।
ज्येष्ठः षोडशभिर्भागैर्मध्यो द्वादशभिर्भवेत् ॥६४॥
कनीयानष्टभिः प्रोक्तः प्रासादो मुक्तकोणकः ।
मुक्तकोणस्वस्तिकयोरिदमेवान्तरं भवेत् ॥६५॥
स्वस्तिको वर्तुलस्तत्र चतुरश्रोऽपरः स्मृतः ।
पञ्चभागोन्नता जङ्घा द्वौ भागौ रथिका भवेत् ॥६६॥
भागैश्चतुर्भिः कर्तव्या द्वितीया तस्य भूमिका ।
येषास्त्वर्धार्धभागेन विधेयास्तस्य भूमिकाः ॥६७॥
विधाय नवधा गर्भेस्तैस्त्र्योदशभिर्भवेत् ।
जङ्घापादोनपञ्चाशैराद्यैकःष्पणिका भवेत् ॥६८॥
मुक्तकोणः ।
विस्तारं दशधा कृत्वा षड्भागं मध्यमालिखेत् ।
कर्णा द्विर्भागिको मध्यं चतुर्धा विभजेत्पुनः ॥६९॥
तद्वन्मध्ये कृतौ द्व्यंशौ भागिकौ वामदक्षिणौ ।
अङ्गुलीकरसंख्यातैर्विधेयो रथनिर्गमः ॥७०॥
प्राग्ग्रीवैर्विकटैः स्वष्टैः स्तम्भैः सद्भूपकर्मभिः ।
एवं गुणसमायुक्तः श्रीवत्सः सुखदो भवेत् ॥७१॥
द्व्यङ्गुलं त्र्यङ्गुलं वापि चतुरङ्गुलमेव च ।
उदकान्तरकं कार्यं श्रीवत्सो नन्दनोपि च ॥७२॥
श्रीवत्सः ।
विस्तारैर्दशधा भक्तैः षड्भामञ्जरी भवेत् ।
सर्वतोभद्र वन्मूलकर्णावस्य द्विभागिकौ ॥७३॥
उदकान्तरमन्यस्य श्रीवत्सस्येव कल्पयेत् ।
हंसोऽयं कीर्तितः सम्यक् शुभदो लक्षणान्वितः ॥७४॥
हंसः ।
रुचकोऽप्येवमेव स्यादुदकान्तरवर्जिताम् ।
भित्तयश्चतुरंशेन गर्भो व्यासार्धसंमतः ॥७५॥
रुचकः ।
चतुरश्रीकृते क्षेत्रे विभजेद्दशभिः पदैः  ।
विदध्यादर्धमानाख्यं तत्र भ्रान्तमनुक्रमात् ॥७६॥
भद्र स्य च भवेद्भागैश्चतुर्भिः परिविस्तृतम् ।
एकेनैकेन भागेन द्वौ रथौ वामदक्षिणौ ॥७७॥
द्विभागविस्तृतौ कर्णौ निर्गमः स्यात्कराङ्गुलैः ।
वर्धमानः क्रियायुक्तो यशोलक्ष्मीं विवर्धयेत् ॥७८॥
रचको वर्धमानो वा श्रीवत्सो हंस एव च ।
य एको रोचते तेषु न्यसेत्तं गरुडे सुधीः ॥७९॥
पक्षावेतस्य कर्तव्यौ प्रासादार्धविनिर्गमौ ।
नासिकां वैनतेयस्य त्रिगर्भां कारयेदपि ॥८०॥
गरुडः ।
चतुःषष्टिपदे क्षेत्रे प्रासादं विभजेच्छुभम् ।
क्षेत्रार्धेन च सूत्रेण पृष्ठतो वृत्तमालिखेत् ॥८१॥
भागैश्चतुर्भिर्जंङ्घास्य मेखलाचार्धभागिका ।
पुरतः सूरसोयं पृष्ठतश्च गजाकृतिः ॥८२॥
गजः ।
चतुःषष्टिपदः सिंहो भद्रं भागचतुष्टयम् ।
द्व्यंशकौ मूलकर्णौ च गर्भः षोडशभिः पदैः ॥८३॥
विस्तारार्धे भवेज्जङ्घा मेखला पदिका भवेत् ।
एकैका रथिका चास्य भवेद्भागत्रयोच्छ्रिता ॥८४॥
सर्वतोभद्र वच्चास्या रेखाग्रीवाण्डकादिकम् ।
सिंहाक्रान्तैस्तथा भद्रैः प्रासादः सिंह उच्यते ॥८५॥
विक्रमार्जवशीलानां प्रासादोऽयं शुभावहः ।
सिंहः ।
पद्मस्य हस्तसंख्या स्यात् षोडश द्वादशाथवा ॥८६॥
वर्तुलः स च कर्तव्यः सूत्रं तु स्वस्तिके यथा ।
सर्वे रथाः स्मृताः पद्मपत्राकृतिमनोरमाः ॥८७॥
उदकान्तरकं कुर्याच्छ्रेयसे नन्दने यथा ।
पद्मकः ।
स्वस्तिकस्य यथा पूर्वं कथितं मानलक्षणम् ॥८८॥
तेनैव लक्षलितः सर्वो विदधीत विचक्षणः ।
यथामूलविभक्तस्तु लतिषु स्वस्तिकादिषु ॥८९॥
यथास्कन्धविभागोऽपि रेखामध्यविभागतः ।
स्वस्तिकाङ्को विधातव्यः शुकनाशोच्छयाच्छुभः ॥९०॥
प्रासादानां स भागैः स्यात्सप्तभिर्विहितः श्रिये ।
विमाने स धरात्र्यंशन्यूनः कार्यो विपश्चिता ॥९१॥
कैलासो च तुरंशोना विधेना शुकनासिका ।
सर्वतोभद्र सिंहाख्यौ मेरूणां तु विशेषतः ॥९२॥
षड्भिर्भागैर्विना कार्या शुकनासा विजानता ।
प्रासादोच्चेन सन्धारो विमानाद्याः प्रकीर्तिताः ॥९३॥
विस्तारार्धेन तद्गर्भो यच्छेषं तेन भित्तयः ।
प्रासादजङ्घोच्छ्रेयेण तुल्यो गर्भतुलोदयः ॥९४॥
सभित्तिर्गर्भतुल्यः स्यात्सन्धारेषु तुलोदयः ।
स विधेयः पुनर्व्यासाद्यदि वा किञ्चिदुन्नतः ॥९५॥
मूलसूत्रं तु दशधा --- समालिखेत् ।
गर्भसूत्रं प्रतिष्टाप्य सिंहकर्णं प्रकल्पयेत् ॥९६॥
सार्धभागेन सूत्रेण मध्यमस्य समालिखेत् ।
उरो द्विभागतुल्यं तु मस्तकं भागमुच्छ्रितम् ॥९७॥
अर्धेन वोच्छ्रयस्तस्याः पक्षोच्छ्राया द्विभागिकाः ।
उरो च सीमान्ते सूत्रेणच्छन्दमादिशेत् ॥९८॥
नवधा दशधा चैव सिंहकर्मावुभौ स्मृतौ ।
एकषड्विस्तृतो भागा उदयात् पञ्चभागिकः ॥९९॥
सूरसेनो द्वितीयस्तु स्वात्समोदयविस्तृतिः ।
उदयात्सार्धविस्तीर्णं सिंहकर्णस्त्रिसंकुला ॥१००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-20T02:42:46.2900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

cladosporium herbarum

  • क्लॅडोस्पोरियम हर्बेरम (गव्हावरील काळ्या बुरशीचा रोग) 
  • (black mould of wheat 
RANDOM WORD

Did you know?

अतिथी व अतिथीसत्कार याबद्दल माहिती द्यावी.
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site